विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 67, कुल 493 में से
संदर्भ में पढ़ें( ४२ ) उन देवाङ्गनाओं का इस वीर के कारण भय दूर हो जाने से वे इसे हर्ष से टकटकी बांध कर देखने लगी थीं। अपि स्वयं पङ्कजविष्टरेण देवेन दृष्टश्चिरमुत्सुकेन । वाञ्छाधिकप्रस्तुतवस्तुसिद्धि-सविस्मयस्मेरमुखाम्बुजेन ॥५३॥ अन्वयः वाञ्छाधिकप्रस्तुतवस्तुसिद्धिसविस्मयस्मेरमुखाम्बुजेन उत्सुकेन पङ्कज- विष्टरेण देवेन अपि स्वयं चिरं दृष्टः सुभट आविरासीदित्यनेन सम्बन्धः। व्याख्या वाञ्छाया मनोरथादप्यधिका विशेषा या प्रस्तुतवस्तुनोऽतिप्रभावशालिनो राज्ञः सिद्धिनिर्माणं तया सविस्मयमाश्चर्ययुक्तं स्मेरमीषद्वोस्यं तेन युक्तं मुखाम्बुजं वदनारविन्दं यस्य तेनोत्सुकेनोत्कण्ठितेन पङ्कजं कमलं विष्टरमासनं यस्य तेन कमलासनेन देवेन ब्रह्मणाऽपि स्वयं चिरं चिराय दृष्टः संवीक्षितः । न केवलं देवाङ्गनाभिरपि तु ब्रह्मणाऽपि साश्चर्यं स्वयं चिरं दृष्टः । मुखेऽम्बुजा- भेदाद्रूपकम् । भाषा अपने मनोरथ से भी अधिक प्रभावशाली नई वस्तु अर्थात् राजा के बन जाने से आश्चर्य युक्त मुस्कुराहट वाले मुखकमल को धारण करने वाले, कमल के आसन पर विराजित उत्सुक ब्रह्मा से भी स्वयं चिरकाल तक अव- लोकित (एकवीर उत्पन्न हुवा ।) कपोपले पौरुषकाञ्चनस्य पङ्के यशः पाण्डुसरोरुहाणाम् । व्यापारयन्दृष्टिमतिप्रहृष्टा - मवाप्तपाणिप्रणये कृपाणे ॥५४॥ अन्वयः पौरुषकाञ्चनस्य कपोपले यशःपाण्डुसरोरुहाणां पङ्के अवाप्तपाणि- प्रणये कृपाणे अतिप्रहृष्टां दृष्टिं व्यापारयन् सुभट आविरासीदित्यनेन सम्बन्धः ।