भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 73, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 73

( ४८ ) व्याख्या यस्य चालुक्यवंशस्य पार्थिवैर्नृपैः शत्रूणामरीणां कठोराः कठिनाः ये कण्ठपीठा ग्रीवास्थलानि तेषामस्थीनि तेषां निर्लोठनेन खण्डनेन कुण्ठा कुण्ठीभूता धारा तीक्ष्णाग्रभागो यस्य सः कृपाणः खड्गः तेषामिदं तदीयं तानि शत्रुसम्बन्धीनि कपालान्येव शिरोस्थीन्येव शाणोपलपट्टिकाः तीक्ष्णताप्रवर्धकयन्त्रविशेषाः 'सान' इति लोके प्रसिद्धम् । तासु पटुतां तीक्ष्णतां निन्ये प्रापितः । कपालेोपरि शाणोपलपट्टिकात्वारोपादूपकम् । कण्ठे पीठाभेदाच्चरूपकम् । भाषा जिस वंश के राजाओ ने, शत्रुओं की कड़ी २ गले की हड्डियों के काटने से कुन्द धार वाली तलवार की धार, शत्रुओं के सिर की हड्डी रूपी सान पर चढ़ा कर तेज की । निरादरश्चन्द्रशिखामणौ यः प्रीतेऽपि लोकत्रितयैकवीरः । क्षिपन्कृपाणं दशमेऽपि मूर्ध्नि स्वयं धृतः क्ष्माधरराजपुत्र्या ॥६२॥ अन्वयः यः लोकत्रितयैकवीरः चन्द्रशिखामणौ प्रीते अपि निरादरः (सन् ) दशमे मूर्ध्नि अपि कृपाणं क्षिपन् क्ष्माधरराजपुत्र्या स्वयं धृतः । व्याख्या यः प्रसिद्धो लोकानां भुवनानां 'लोकस्तु भुवने जने' इत्यमरः । त्रितयं त्रयं तस्मिन्नेकोऽद्वितीयो वीरो रावणश्चन्द्रएव शिखामणिः शिरोभूषणं यस्य सः शिवस्तस्मिन् प्रीतेऽपि प्रसन्नेऽपि निरादरस्सन् शिवस्य प्रसन्नतामगणयन्दशमे मूर्द्धन्यपि शीर्षेऽपि कृपाणं चन्द्रहासं क्षिपन्प्रहरन् क्ष्माधरस्य हिमाचलस्य राजपुत्र्या राजकन्यया पार्वत्या स्वयमेव धृतो निवारितोऽभूत् । भाषा तीनो लोको में अद्वितीय वीर रावण, जिसको, शंकर के प्रसन्न होने पर भी, उनकी प्रसन्नता की परवाह न कर अपने दसवें सिर पर तलवार चलाने से पार्वती जी ने स्वयं रोका था ।