विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 75, कुल 493 में से
संदर्भ में पढ़ें( ५१ ) द्वीपक्ष्मापालपरम्पराणां दोर्विंक्रमादुत्खननोन्मुखास्ते । विष्णोः प्रतिष्ठेति विभीषणस्य राज्ये परं सङ्कुचिता बभूवुः ॥६६॥ अन्वयः दोर्विंक्रमात् द्वीपक्ष्मापालपरम्पराणां उत्खननोन्मुखाः ते विभीषणस्य राज्ये विष्णोः प्रतिष्ठा इति परं सङ्कुचिताः बभूवुः । व्याख्या दोष्णा भुजाना 'भुजबाहू प्रवेष्टो दो इत्यमर । विक्रमात् पराक्रमात् द्वीपानां क्ष्मा पृथ्वी तस्या पाला पालका द्वीपक्ष्मा पालयन्तीति वा तेषा परम्परास्तासामुत्खनने, समूलमुन्मूलने उन्मुखास्तत्परास्ते विभीषणस्य राज्ये लङ्काया विष्णो प्रतिष्ठा विभीषणस्य रामभक्तत्वाद्विष्णुताक्षादवतारस्य रामस्य स्थितिस्तत्र वर्तत इति हेतोस्तस्या. पूज्यत्व न तु ग्राह्यत्वमिति लङ्कापुरीनाशन पर केवल सङ्कुचिता बभूवुस्तत्र न जग्मुरित्यर्थ । एतेन तेषा राज्ञां विष्णु- भक्तत्व सनातनधर्मित्वञ्च सूचितम् । केवल विभीषणराज्यद्वीप विहाय सर्वे द्वीपास्ते स्वायत्तीकृता इति भाव । एतेन लङ्कात पूर्व सकलोऽपि भूभा- गस्तैर्विजित आसीदिति सूच्यते । भाषा अपनी भुजा के पराक्रम से टापुओं के राजाओं को नष्ट कर देने में प्रवृत्त ये दक्षिण चालुक्यवंशीय राजा, लङ्का के रामभक्त विभीषण के राज्य में श्री रामचन्द्र की स्थिति है ऐसा सोचकर केवल उसपर आक्रमण करने में अग्रसर न हुए । अर्थात् केवल विभीषण के टापू लंका को छोडकर अन्य सब टापुओ को उन्होंने जीत लिया । द्वीपेषु कर्पूरपरागपाण्डु-ष्वास्वाद्य लीलापरिवर्तनानि । भ्रान्त्या तुषाराद्रितटे लुठन्तः शीतेन खिन्नास्तुरगा यदीयाः ॥६७॥ अन्वयः यदीयाः तुरगाः कर्पूरपरागपाण्डुषु द्वीपेषु लीलापरिवर्तनानि आस्वाद्य तुषाराद्रितटे भ्रान्त्या लुठन्तः शीतेन खिन्नाः ।