विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 76, कुल 493 में से
संदर्भ में पढ़ें( ५२ ) व्याख्या येषामिमे इति तदीया यन्नृपतसम्बन्धिनस्तुरगा अश्वा कर्पूरस्य परागश्चूर्णं तद्वत्पाण्डुषु शुक्लेषु द्वीपेषु लीलया क्रीडया परिवर्तनानि परिभ्रमणान्यास्वाद्याऽ- नुभूय, भूमावुपविश्य परिश्रान्तिनिरासायाऽङ्गानिप्रसार्य धूलिधूसरास्सन्तोऽङ्गरोठ- नार्ति वाऽनुभूय कृत्या तुषाराद्रितटे हिमाचलप्रान्ते (शुक्लवर्णद्वीपत्य) भ्रान्त्या कर्पूर- द्वीप भ्रमेण लुठन्तश्चलन्त परिश्रान्तिनिवारणायाऽङ्गपरिवर्तनं कुर्वन्तो वा सन्त शीतेन शैत्येन खिन्ना दुःखिता बभूवु । तुषाराद्रितटे कर्पूरवच्छुभ्रवर्णद्वीप भ्रान्तिनिरूपणाद् भ्रान्तिमानलङ्कार । 'साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान्प्रतिभो- त्थित ।' एतेन हिमाचलपर्यन्तमेतेषा विजय सूच्यते । भाषा उन राजाओ के घोड, कपूर के चूर्ण के समान सफेद कर्पूर द्वीप के टापुओ में टहलने का सौख्य प्राप्त कर या थकावट हटाने के लिये लोटपोट करने का सौख्य प्राप्त कर, उसी भ्रम से बरफ से ढके हुए सफद हिमालय पर्वत पर चलने से या लोटने से शीत से बहुत पीडित हुए । इतः पर षड्भिः श्लोकैस्तैलपं नृपं वर्णयति— श्रीतैलपो नाम नृपः प्रतापी क्रमेण तद्वंशविशेषकोऽभूत् । क्षणेन यः शोणितपङ्कशेषं संख्ये द्विषां वीररसञ्चकार ॥६८॥ अन्वयः यः संख्ये द्विषा वीररस क्षणेन शोणितपङ्कशेष चकार ( एवम्भूतः ) श्री तैलपः नाम प्रतापी नृपः क्रमेण तद्वंशविशेषकः अभूत् । व्याख्या य संख्ये युद्धे 'मृधमास्कन्दन सख्य समीक साम्परायिकम्' इत्यमर । द्विषा शत्रूणाम् 'द्विड्वपक्षाहितामित्रदस्युशात्रव शत्रव ' इत्यमर । वीररसमुत्साह जलञ्च क्षणेनाल्पकालेन शोणितस्य रुधिरस्य पङ्क कर्द्दम एव शेषोऽवशिष्टाशो यस्य त चकार प्रकटयाञ्चकारैवम्भूत श्री तैलपो नाम प्रतापी प्रभाववान्नृपो राजा क्रमेण क्रमशः स चाऽसौ वंशश्च तद्वशस्तस्य विशेषकस्तिलकोऽभूत् । “तमालपत्रतिलकचित्रकाणि विशेषकम्" इत्यमर । यस्य प्रतापोष्मणा वीररस- रूपे जले शोषिते रुधिरपङ्कमेवाऽवशिष्टमिति भाव ।