विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 78, कुल 493 में से
संदर्भ में पढ़ें( ५४ ) व्याख्या सर्व्वेषु युद्धेषु शूरस्य भाव शौर्यं तद्रूपेणोष्मणा पराक्रमोष्मणा स्विन्नं स्वेदेनार्द्रं करो हस्तो यस्य तस्य यस्य श्री संल्पस्य प्रतिपक्षाणा शत्रूना काल यमरूपो नाशकस्तल्लङ्ग पुरन्दरेणेन्द्रेण ‘पुरुहूत पुरन्दर’ इत्यमर । प्रेरिता वृता या पुष्पाणा कुसुमाना वृष्टिर्यथं तस्या परागस्य सुमनोरजस ‘पराग सुमनोरज’ इत्यमर । सङ्गात्सम्पर्कात्त्रिविधत्व घनत्वमाप प्राप। परागसम्पर्कत्स्विङ्गे स्वेदजलार्द्रत्वस्य निवारणादृढतया हस्तेन खड्गधारण जातमत्त खड्गहस्तयोवि- र्तुसम्बन्धस्याभावाद् घनसम्वन्धो जात इति भाव । शौर्य ऊष्माभेदालङ्गे प्रतिपक्षकालाभेदाच्च रूपकम् । भाषा युद्धो में पराक्रमरूपगर्मी से पसीने से भरे हाथ वाले राजा का, शत्रुओ का कालरूप सङ्ग इन्द्र द्वारा की हुई पुष्पवृष्टि वे पराग के सम्बन्ध से गाढापन आ जाने से हाथ मे अधिक दृढ हो गया। अर्थात् हाथ में पसीना आ जाने से कोई वस्तु दृढता से नही पकडी जा सकती। मिट्टी लगा लेन से फिर दृढता आ जानी है। यस्याञ्जनश्यामलखङ्गपट्ट-जातानि जाने धवलत्वमापुः । अरातिनारीशरकाण्डपाण्डु-गण्डस्थलीनिर्लुठनाद्यशांसि ॥७१॥ अन्वयः यस्य अञ्जनश्यामलखङ्गपट्टजातानि यशांसि अरातिनारीशरकाण्ड- पाण्डुगण्डस्थलीनिर्लुठनात् धवलत्वम् आपुः (इति) जाने । व्याख्या यस्य राज्ञस्तैल्पस्याञ्जनवत्कज्ज्वल्यक्छदामल कृष्ण खड्ग एव पट्टस्त- स्माज्जातानि प्रादुर्भूतानि यशांसि कीर्त्तय अरातीनां शत्रूणां नाय स्त्रियस्तत्सं दारकाण्डवत् गुन्द्रदण्डवत् गुन्द्रस्तेजनक शर' इत्यमर । ‘सरहो’ इति भाषायां प्रसिद्धम् । पाण्डुवर्णा श्वेता गण्डस्थल्य कपोलास्तासु निर्लुठनात्तत्सं र्काद्धवलत्वं शुक्लत्वमापुर्जग्मु । इति जाने तर्कयामि। अञ्जनेन सह खड्गस्य श्यामरूपेण सादृश्य दशनाङ्कगण्डस्थल्या पाण्डुत्वेन शरकाण्डेन सादृश्याच्चोपमा ।