विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 80, कुल 493 में से
संदर्भ में पढ़ें( ५७ ) कुतानि स चालुक्यहय यश कुलमेव वंशोवेणुस्तस्याऽमलं विशुद्धं मौक्तिकं तस्य श्री शोभा यस्मिन्स सत्याश्रयो नाम भूमिपालो राजाऽभूत् । खङ्गोपरि भृकुटि- क्रोधस्योत्प्रेक्षणाद्गूढोत्प्रेक्षा । वंशे वेणुत्वारोपो राजनि मौक्तिकत्वारोपे कारण- मिति परम्परितरूपकम् । भाषा श्री तैलप राजा के अनन्तर चालुक्य कुल में बांस के स्वच्छ मोती की कान्ति के समान तेजस्वी सत्याश्रय नाम का राजा हुआ जिसकी क्रुद्धावस्था की भृकुटी के क्रोध स्वरूप तलवार ने शत्रुओं के मस्तकों को भी चूर २ कर दिया । यस्येषवः संयुगयामिनीषु प्रोतप्रतिच्ष्मापतिमौलिग्नाः । गृहीतदीपा इव विन्दते स्म सङ्गान्धकारे रिपुचक्रवालम् ॥७५॥ अन्वयः संयुगयामिनीषु यस्य प्रोतप्रतिच्ष्मापतिमौलिग्नाः इषवः गृहीतदीपाः इव खङ्गान्धकारे रिपुचक्रवालं विन्दते स्म । व्याख्या संयुगा युद्धान्येव यामिन्यो रात्रयस्तासु युद्धरात्रिषु 'संप्रहाराभि-सम्पातकालिक संस्फोटसंयुगा' इत्यमर । यस्य राज्ञ सत्याश्रयस्य प्रोतान्यनुस्यूतानि प्रतिच्ष्मा- पतीनां प्रतिपक्षभूपतीना मौलिना मुकुटानां रत्नानि मणयो येषु त इषवो बाणा गृहीता दीपा यैस्ते गृहीत-दीपा इव, बाणेषु शत्रूणा शिरोरत्नान्यनुस्यूतानि, रत्नकिरणैश्चान्धकाराभाव । खङ्ग एवान्धकार श्यामलत्वात्तस्मिन् रिपूणा शत्रूणा चक्रवाल मण्डलम् । 'चक्रवालन्तु मण्डलम्' इत्यमर । विन्दते स्म जानन्ति स्म अथवा विचारयन्ति स्म 'विद विचारणे' इति रुधादिस्थस्य विद धातोरात्मने पदे लटि प्रथमपुरुषस्य बहुवचने 'विन्दते' इति रूपम् । अनुस्यूत- राजमौलि रत्नेषु बाणेषु गृहीतदीपकस्य सम्भावनादुत्प्रेक्षा । भाषा युद्धरूपी रात्रियों में, उस सत्याश्रय राजा के, विपक्षी राजाओं के मस्तक के मणियों से नधे बाण, खङ्गरूपी अन्धकार में शत्रु समूह को, मानो दीपक लेकर पहचान कर रहे थे । अर्थात् उसके बाण इतने तीखे थे कि मणियों में भी छिद्र कर देते थे और ये मणी उनमें नध जात थे ।