विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 81, कुल 493 में से
संदर्भ में पढ़ें( ५८ ) अवन्ध्यपातानि रणाङ्गणेषु सलीलमाकृष्टधनुर्गुणस्य । यस्यानमत्कोटितया व्यराज-च्छस्त्राणिचुम्बन्निव चापदण्डः ॥७६॥ अन्वयः रणाङ्गणेषु सलीलम् आकृष्टधनुर्गुणस्य यस्य चापदण्डः आनमत्कोटि- तया अवन्ध्यपातानि शस्त्राणि चुम्बन् इव व्यराजत् । व्याख्या रणा एव युद्धान्येवाऽङ्गणान्यजिराणि 'अङ्गणं चत्वराजिरे' इत्यमरः । तेषु युद्धाजिरेषु लीलया विलासेन सहितं सलीलमाकृष्टो धनुषश्चापस्य गुणो ज्या येन सः तस्य यस्य सत्याश्रयनृपस्य चापदण्डो धनुर्दण्डः 'धनुश्चापो धन्वशरासन कोदण्डकार्मुकम्' इत्यमरः । आनमन्तावन्नन्त्यौ कोटी प्रान्तभागौ 'स्त्रियः पाल्याधिकोटयः' इत्यमरः । यस्य तस्य भावस्तत्ता तया प्रह्वीभूतप्रतयाऽवन्ध्योऽ- मोघः पातो घातो येषां तानि सफलसञ्चलनान्यस्त्राणि चुम्बन्निव प्रेम्णा स्पृशन्निव रराज शुशुभे । चापदण्डेऽस्त्रचुम्बन रूप क्रियाया उत्प्रेक्षणा- त्क्रियोत्प्रेक्षा । भाषा युद्धरूपी आगनों में सरलता से धनुष की डोरी को खींचने वाले उस सत्याश्रय राजा का धनुष दोनों नोकों के झुक आने से मानो अमोघ मार वाले अस्त्रों का चुम्बन करता हुआ शोभित होता था । भूभृत्सहस्रार्पितदेहरन्ध्रैः ¹क्रौञ्चाचलच्छिद्रविशारदानाम् । सेहे न गर्वः पृथुसाहसस्य यस्येषुभिर्भार्गवमार्गणानाम् ॥७७॥ अन्वयः पृथुसाहसस्य यस्य भूभृत्सहस्रार्पितदेहरन्ध्रैः इषुभिः क्रौञ्चाचलच्छिद्र- विशारदानां भार्गवमार्गणानां गर्वो न सेहे । १ हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रमिति मेघदूते कालिदास ।