विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 82, कुल 493 में से
संदर्भ में पढ़ें( ५९ ) व्याख्या पृथुविशालस्साहसः पराक्रमो यस्य तस्य यस्य राज्ञः सत्याश्रयस्य भूभृतां राज्ञां पक्षे पर्वतानां सहस्राणि तेभ्योऽधिकानि कृतानि देहेषु शरीरेषु रन्ध्राणि- च्छिद्राणि यैस्तैरिषुभिर्बाणैः क्रौञ्चाचलस्य क्रौञ्चपर्वतस्य छिद्रे बिले बिलकरणे वा विशारदा निपुणास्तेषां भार्गवस्य परशुरामस्य मार्गणा बाणास्तेषां गर्यो दर्पो 'गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः । दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः' इत्यमरः । न सेहे न सोढः । भार्गवेण केवलमेकस्मिन्क्रौञ्चभूभृति छिद्रं कृतमनेन तु बहुषु भूभृत्स्विति भार्गवादस्य वैशिष्ट्यम् । तस्माद्व्यति- रेकध्वनिः । भाषा उस बड़े साहसी राजा सत्याश्रय के हजारो भूभृतो (राजाओ) पक्ष में (पहाडो) के शरीरो में छिद्र करने वाले बाणो ने क्रौञ्च भूभृत् (पर्वत) में छिद्र करने में प्रवीण परशुराम के बाणो का घमण्ड नही सहन किया । अर्थात् परशुराम के बाणो ने केवल एक क्रौंच पर्वत में छेद किया था किन्तु इसके बाणो ने हजारो भूभृतो (राजाओ) को छेदा था इसलिए इनका कार्य उनसे अधिक महत्त्व का था । दृप्तारिदेहे समरोपमर्द-सूत्रावशेषस्थितहारदाम्नि । यज्ञोपवीतभ्रमतॊ बभूव यस्य प्रहर्तुः क्षणमन्तरायः ॥७८॥ अन्वयः प्रहर्तुः यस्य समरोपमर्दसूत्रावशेषस्थितहारदाम्नि दृप्तारिदेहे यज्ञो- पवीतभ्रमतः क्षणम् अन्तरायः बभूव । व्याख्या प्रहर्तुः प्रहार कुर्वतो यस्य राज्ञः सत्याश्रयस्य समरे रणे 'अस्त्रियाः समरानी- ककरणाः कलहविग्रहौ' इत्यमरः । य उपमर्दो जनाना परस्परसङ्घट्टस्तेन सूत्रमेव तन्तुरेवावशेषस्थितो मौक्तिकादीना भग्नत्वात्सूत्रमेवावशिष्ट यस्यैवंभूत हार एव दाम माला यस्मिन् तस्मिन् दृप्ता मदान्धा अरयः शत्रवस्तेषां देहे शरीरे यज्ञो- पवीतस्य भ्रमतो भ्रान्त्याऽयं यज्ञोपवीती ब्राह्मणः किमिति धिया, क्षण क्षणमात्र-