विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 85, कुल 493 में से
संदर्भ में पढ़ें( ६२ ) प्रतापभानौ भजति प्रतिष्ठां यस्य प्रभातेष्विव संयुगेषु । सूर्योपलानाभिव पार्थिवानां केषां न तापः प्रकटीबभूव ॥८१॥ अन्वय प्रभातेषु इव संयुगेषु यस्य प्रतापभानौ प्रतिष्ठां भजति (सति) सूर्योप- लानाम् इव केषां पार्थिवानां तापः न प्रकटीबभूव । व्याख्या प्रभातेषु प्रत्यूषेषु प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसोऽपि प्रभातं चेत्यमरः । इव संयुगेषु युद्धेषु यस्य राज्ञो जयसिंहदेवस्य प्रताप एव भानुस्सूर्यस्तस्मिन् प्रतिष्ठां भजति विद्योतमाने सति सूर्योपलानाभिव सूर्यकान्तमणीनामिव केषां पार्थिवानां विपक्षिनृपाणां तापस्सन्तापः सञ्ज्वलनं न प्रकटीबभूव किन्तु सर्वेषां विपक्षिणां सन्तापो जात एव । अत्र प्रतापे भानुत्वारोपाद्रूपकम् । प्रभात संयुगयोः सूर्योपलपार्थिवयोश्चोपमा । केषां न प्रकटीबभूवेत्यर्थापत्तिश्चेति परस्परसापेक्षत्वादेतेषां सङ्करः । भाषा प्रातःकाल के सदृश युद्ध में, सूर्य के सदृश उस राजा जयसिंहदेव के प्रताप के विद्यमान होने पर सूर्य मणियों के समान किन राजाओं में सन्ताप प्रकट न हुआ ? अर्थात् सब राजा इसके प्रताप से सन्तप्त हो गये । यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री । आर्द्रव्रणाधिष्ठितपृष्ठपीठ-मकर्मठं कूर्मपतिं चकार ॥८२॥ अन्वय. यस्य यात्रासु ध्वजिनीभरेण दोलायमाना सकला धरित्री आर्द्रव्रणा- धिष्ठितपृष्ठपीठं कूर्मपतिं अकर्मठं चकार । व्याख्या यस्य राज्ञो जयसिंहदेवस्य यात्रासु युद्धयात्रासु ध्वजिन्याः सेनाया ‘ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमू' इत्यमरः । भरेण भारेण दोला इवाऽऽ- चरतीति दोलायमाना सञ्चालिता सकला समग्रा ‘समग्रं सकलं पूर्णम’ इत्यमरः ।