विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 86, कुल 493 में से
संदर्भ में पढ़ें( ६३ ) धरित्री पृथ्व्याऽऽक्रन्दनेन पृथिवी-सञ्चलनजन्य-सङ्घर्षणोत्पन्ननूतनव्रणेनाऽधिष्ठितं युक्तं पृष्ठपीठं पृष्ठभागो यस्य तं कूर्माणां पतिं श्रेष्ठं विष्णुद्वितीयावतारं पृथिव्या आधारभूतेन स्थितं कच्छपपतिमकर्मठं निष्क्रियं 'कर्मशूरस्तु कर्मठः' इत्यमरः । किं-कर्त्तव्यता-विमूढं चकार कृतवती । भाषा जिस राजा जयसिंहदेव की युद्धयात्राओं में, चली सेना के बोझ से डगमगाने वाली समग्र पृथ्वी ने, (अपनी रगड़ से उत्पन्न) ताजे घावों से भरी पीठवाले विष्णु भगवान् के दूसरे अवतार कच्छपराज को घबड़ाहट में डाल दिया। किरीटमाणिक्यमरीचीवीचि-प्रच्छादिता यस्य विपक्षभूपाः । चिताग्निभीत्या समराङ्गनेषु न संगृहीताः सहसा शिवाभिः ॥८३॥ अन्वयः यस्य किरीटमाणिक्यमरीचीचीचिप्रच्छादिताः विपक्षभूपाः समराङ्गनेषु शिवाभिः चिताग्निभीत्या सहसा न संगृहीताः । व्याख्या यस्य राज्ञः, किरीटेषु मुकुटेषु माणिक्यानि मणयस्तेषां मरीचीनां किरणानां वीचिभिस्तरङ्गैः प्रच्छादिता आवृता विपक्षभूपा विपक्षनृपाः समराङ्गनेषु युद्ध- भूमिषु शिवाभिः शृगालीभिः देदीप्यमानत्वाच्चिताग्निभीत्या चिताग्निबुद्ध्या भयेन सहसा झटिति न संगृहीता न भक्षणार्थं परिगृहीताः । माणिक्यमरीचिषु चिताग्निप्रतिपादनाद्भ्रान्तिमानलङ्कारो व्यङ्ग्यः । भाषा किरीट में लगे हुए मणियों की किरणों की लहरों से आच्छादित, उस जयसिंह देव राजा के विपक्षी मृत राजाओं को, युद्धभूमि में सियारियों ने, उस चमक को चिता की आग समझ कर, डर से शीघ्र ग्रहण नहीं किया अर्थात् नहीं खाया । यात्रासु दिक्पालपुरीं विलुण्ठ्य न दिग्गजान्केवलमंग्रहीद्यः । पलायितास्ते जयसिन्धुराणां गन्धेन सप्तच्छदवान्धवेन ॥८४॥