विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 87, कुल 493 में से
संदर्भ में पढ़ें( ६४ ) अन्वयः यः यात्रासु दिक्पालपुरीं विलुण्ठय दिग्गजान् केवलं न अग्रहीत्। (यतः) ते जयसिन्धुराणां सप्तच्छदगान्धवेन गन्धेन पलायिताः। व्याख्या यो नृपो जयसिंह देवो यानासु युद्धयात्रासु दिक्पालानां दिगीशानां पुरीं नगरीं, अत्र वचनमविवक्षितम्। विलुण्ठ्य लुण्ठयित्वा दिग्गजान् केवलं नाऽग्रहीत्। दिग्गजान्विहाय सर्वाणि वस्तुजातान्यग्रहीदित्यर्थः । यतस्ते दिग्गजा जय- सिन्धुराणां विजयहस्तिनां सप्तच्छदस्य वृक्षविशेषस्य 'सप्तपर्णो विशालत्वक् शारदो विषमच्छदः' इत्यमरः । बान्धवस्समानस्तेन गन्धेन मदगन्धेन पलायिताः कान्दिशीका जाताः । जयसिन्धुराणा मदगन्धसहनेऽसमर्था दिग्गजा दूरत एव पलायिता इति भावः । भाषा वह राजा अपनी दिगन्त युद्ध यात्राओ में दिक्पालो की पुरियो को लूटकर केवल दिग्गजो को नही पा सका । क्योकि वे दिग्गज इस राजा के विजयी हाथियो के सप्तपर्ण वृक्ष के समान गन्धवाले मद की गन्ध से डरकर भाग गये थे । अपारवीरव्रतपारगंस्य पराङ्मुखा एव सदा विपक्षाः । अधिज्यचापस्य रणेषु यस्य यशः परं सम्मुखमाजगाम ॥८५॥ अन्वयः अपारवीरव्रतपारगस्य अधिज्यचापस्य यस्य रणेषु विपक्षाः सदा पराङ्मुखाः एव परं यशः सम्मुखम् आजगाम । व्याख्या अपारं दुर्गमं यत् वीराणां व्रतं तस्य पारं गच्छतीत्यपारवीरव्रतपारगस्तस्य पूर्णवीरव्रतपारिणो ज्यामधिगत इति अधिज्यश्चापो धनुर्यस्य स तस्य यस्य राज्ञो जयसिंहदेवस्य रणेषु युद्धेषु विपक्षाः शत्रवस्सदा नित्यं पराङ्मुखा एव जाताः पराजिता एवेति न सम्मुखा जाता इति भावः । परं किन्तु यशः कीर्तिः सम्मुख- माजगाम । केवलं कीर्तिस्तु सम्मुखा शत्रवस्तु पराङ्मुखा एव ।