भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 9, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 9

( २ ) तत्र चाऽस्य प्रस्तुतग्रन्थस्याष्टादशसर्गनिबद्धत्वान्महाकाव्यस्य१ लक्षणान्तरसद्भा- वाच्च महाकाव्यत्वमुररीक्रियते । उपजीव्यस्य कथाभागस्य भेदाच्च तत्काव्यमभिनवरुभालोचनेक्षिकया पुनर्द्वि- प्रकारकम् । यस्योपजीव्यकथाभाग पुराणाद्गृहीतस्तत्पौराणिकमेवमेव यस्य च काव्यस्य नूतनेतिहासस्तदैतिहासिकम् । एवञ्चाऽस्य विक्रमाङ्कदेवचरितस्य कथाभागो नूतनेतिहासाद्गृहीतस्तत एवेदं महाकाव्यमैतिहासिकमिति निर्विवादम् । संस्कृतसाहित्य रत्नष्वपि बहुष्वैति- हासिककाव्येषु पद्यकाव्ये विक्रमाङ्कदेवचरितं गद्यकाव्ये हर्षचरितञ्चेति काव्य द्वितयमेवैतिहासिकरूपेण सातिशयं प्रथितम् । १ महाकाव्यलक्षणं यथा साहित्यदर्पणे— सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः । सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ॥ एकवंशभवा भूपा कुलजा बहवोऽपि वा । शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥ अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः । इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ॥ चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् । आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ॥ क्वचिन्निन्दा खलादीनां सतां च गुणवर्णनम् । एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः ॥ नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह । नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ॥ सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् । सन्ध्यासूर्येन्दुरजनी—प्रदोषध्वान्तवासराः ॥ प्रातर्मध्याह्नमृगया-शैलर्तुवन-सागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ॥ रणप्रयाणोपयममन्त्रपुत्रोदयादयः । वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ॥ कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा । नामास्य सर्गोपादेयकथया सर्गनाम तु ॥ श्लोकाः ३१५-३२७

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक) · पृष्ठ 9, कुल 493 में से · BharatKosha