विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 10, कुल 493 में से
संदर्भ में पढ़ेंप्रकृतस्य महाकाव्यस्य सर्वप्रथमं तावच्छार्मण्य (Germany) देशीयो विद्वद्वरो डा० जॉर्ज बूह्लर महोदय स्वमित्रेण डा० एच्० याकोबीमहाशयेन साकं राजस्थानप्रदेशे पर्यटन् १८७४ तमे खृष्टाब्दे जैसलमेरस्थित-जैनवृहज्ज्ञानकोश- भान्डारेऽतिप्राचीनां प्रतिलिपिमासादितवान् । स च काव्यस्यास्यानितरसाधा- रणतामाकलयन्नात्मसमुत्साहाय्येन दिवससप्तकाभ्यन्तर एवास्य प्रतिलिपिं विधाय तस्मिन्नेव हायनान्तरे चाऽऽङ्ग्लभूमिकया समं महाकाव्यमिदं सर्वसुलभञ्चकार । इत्थञ्चाऽस्य महाकाव्यस्यैकस्या एव प्रतिलिपेरवाप्त्या बह्वोंऽशा अशुद्धिग्रस्ता । तदनन्तरं डा० रामकृष्णभाण्डारकर-वेङ्कटराममहोदयादयश्चालुक्यवंशेतिहासे प्रकृतकृतौ विक्रमाङ्कदेवचरिते च नवन्वान्बहून्विषयान्प्रकाशपथमासादयामासु । एवं सत्यपि काव्यमूलरूपं तदवस्थमेव (अशुद्धिबहुलम्) आसीत् । कालक्रमाद्बूह्लरसंस्करणे समाप्तिमासादिते काशीस्थज्ञानमण्डलमुद्रायन्त्रालया- न्महामहोपाध्याय-पण्डितप्रवर-गुरुवर-श्रीरामावतारशर्मणान्ना सम्पादितं प्रकृत- महाकाव्यस्य संस्करणान्तरञ्च प्रकाशभावमानीयत । परमत्र संस्करणेऽपि पूर्व- संस्करणाशुद्धीनां निराकरणस्य का कथा ? नवन्वान्यशुद्धयन्तराण्यपि लोचन- पथमतिथितां प्रयान्ति, यत् सहृदयानां खेद्यते चेत् । अत्र धीमतां गुरुवर्याणां नाऽल्पसुयोगो मनसि विचिकित्सामुत्पादयति । समाप्तेप्रायेदस्मिन्नपि संस्करणेऽस्य काव्यस्य महत्त्वं लोकप्रियताञ्च निरीक्ष्य शास्त्रिमुरारिलालनागर एम्० ए० साहित्याचार्यमहोदयं परिश्रमातिशयेन जैसलमेरवृहज्ज्ञानकोशभाण्डारात्, पुण्यपत्तनस्थ-भाण्डारकरप्राच्यगवेषणासंस्थात (Bhandarkar Oriental Research Institute Poona), अन्यतश्च प्रस्तुनयस्य पञ्चषड्ढस्तलिखितानि पुस्तकान्यासाद्य शुद्धपाठनिर्धारणे श्लाघ्यं प्रयासं कृत्वा महाकाव्यमिदं काशीस्थसरस्वतीभवनत (Princess of Wales Saraswati Bhavana Text Series) प्रकाशितम् । परञ्चात्राऽपि यत्र तत्र सम्पादनप्रमादादपभ्रंशपाठाः पाठभेदनिर्णय प्रमादो जात इय दृश्यते यथा— अरमदर्शितदन्तवारिणा तेन वारिनिधिराविलीकृतः । इत सन्ततमदस्य विधामातश्चमुश्रियतमस्य दतिनः ॥ (सर्ग ५ श्लो० १६) इत्यत्र तेनेति पाठात्सतीति पाठः साधुतरः प्रतिभाति । एवमेव हस्तद्वयोपाद्गृहीतलील-दोलागुणानां जघने वधूनाम् । अस्युतस्तम्नुकूलबध विश्वप्यभूद्बुद्धयसितो मनोभूः ॥ (सर्ग ७ श्लो २९)