विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 148, कुल 168 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः। १२७ विदूषक — १न क्खु एसो खत्तिअकुमारो जस्स णामाङ्किदो गिद्धवक्खवेही णराचो उदन्तो तत्तभवदो बहु अणुकरेदि । राजा—एवमेतत् । बाष्पायते निपतिता मम दृष्टिरस्मि- न्वात्सल्यबन्धि हृदयं मनसः प्रसादः । संजातवेपथुगिरञ्चितधैर्यवृत्ति- रिच्छामि चैनमदयं परिरब्धुमङ्के ॥ ९ ॥ कञ्चुकी—भगवति, एवं नीयताम् । (तापसीकुमारौ यथोचितं स्थितौ ।) राजा—(दृष्ट्वा ।) भगवति, अभिवादये । तापसी—२महाराअ, सोमवंसं धारअन्तो होहि । (आत्मगतम् ।) भो, अणाचक्खिदो वि विण्णादो एव्व एस्स राएसिणो आवसो अ ओवसो संवन्धो । (प्रकटम् ।) जाद, पणम गुरुम् । (कुमारो बद्धाञ्जलिः प्रणमति ।) राजा—वत्स, आयुष्मान्भव । कुमार —(स्वगतम् । सगतम् ।) यदि हार्दमिदं श्रुत्वा पिता ममायं सुतोऽहमस्येति । उत्सङ्गे हृदयानां गुरुषु भवेत्कीदृशः स्नेहः ॥ १० ॥ १ ननु खल्वेष क्षत्रियकुमारो यस्य नामाङ्कितो गृध्रपक्षवेधी नाराच उपदन्तस्तत्रभवतो बहनुकगेति । २ महाराज, सोमवंश धारय भव । भो, अनाख्यातोऽपि विज्ञात एव तस्य राजर्षेरायुष्मतोश्च संबन्धः । जात, प्रणम गुरुम् । (सारथी लक्षं । विदूषकं । ननु खल्वेष क्षत्रियकुमारो यस्य नामाङ्कितो गृध्रपक्षवेधी नाराच उपलभ्य । नाराचो बाण । तत्रभवतो बहनुकरोति । तत्र भवन्तं पूज्यम्। बाष्पायते निपतितति। बाष्पयुक्तमिति बाष्पायते अश्रुसंयुता भवति। वात्सल्यबन्धि प्रभातिशयोयुक्तम्। वपयु कम्प । परिरब्धुमालिङ्गितुम् ॥९॥ तापसी। महाराज सोमवंशं धारयं भव । भो अनाख्यातोऽपि विज्ञात एव तस्य राजर्षेरायुषधीतस्य संबन्ध । जात प्रणम गुरुम्। आवेहि। युष्मानभवन्मून यदि हार्दमिति। अयं मम जनयिता। अहमस्य सुत इति श्रुत्वा यदि वि १२