भारतकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 4, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 4

उत्तर-विभाग होटल ॥ श्री ॥ विक्रमोर्वशीयम् । प्रथमोऽङ्कः । वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥ १ ॥ (नान्द्यन्ते प्रविशति सूत्रधारः ।) सूत्रधारः - अलमतिविस्तरेण । (नेपथ्याभिमुखमवलोक्य) मारिष इतस्तावत् । (प्रविश्य पारिपार्श्विकः) पारिपार्श्विकः - भाव अयमस्मि । सूत्रधारः - मारिष, बहुशः किल कालिदासग्रथिता वस्तु- बन्धा नवरचनाप्रयुक्ता पूर्वैरस्माभिः परिषत् । तदस्यां विक्रमोर्वशीयं नाम नाटकं प्रयोक्तु- मिच्छामः । तदुपचर्यन्तां सर्वे पात्राः । पारिपार्श्विकः - यदाज्ञापयति भावः । (नेपथ्ये) परित्ताअध परित्ताअध । सूत्रधारः - (आकर्ण्य) अये किमिदं क्रन्दितम् । पारिपार्श्विकः - भाव, दिव्यानन्दकारिण्यां दिशि त्रासोत्थः क्रन्दितध्वनिः श्रूयते । सूत्रधारः - भवतु, पश्यावः । (इति निष्क्रान्तौ) ॥ प्रस्तावना ॥ (ततः प्रविशन्ति अप्सरसः ।) सर्वाः - परित्ताअध परित्ताअध । रम्भा - हला मेनके ...