विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 64, कुल 168 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः। ५७ देवी—णत्थि भवदो अवराहो । अह एव्व अवरद्धा । जा पडिकूलदसणा भविअ अग्गदो चिट्ठामि । इदो गमिस्सम् । (इति कोपं नाटयित्वा प्रस्थिता ।) राजा— अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥ २० ॥ (इति पादयोः पतति ।) देवी—(आत्मगतम् ।) मा खु लहुहिअआ अणुणअं बहु मण्णे । किं दु दक्खिण्णकिदपच्छादावस्स भाएमि । (इति राजानमपहाय सपरिवारा निष्क्रान्ता ।) विदूषकः—पाउसणदी विअ अप्पसण्णा गदा देवी । णं उट्ठेहि । राजा—(उत्थाय ।) वयस्य, नेदमुपपन्नम् । पश्य । प्रियवचनशतेऽपि योषितां दयितजनानुनयो रसाहते । १ नास्ति भवतोऽपराधः । अहमेवापराद्धा । या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतो गमिष्यामि । २ मा खलु लघुहृदया अनुनयं बहु मन्ये । किं तु दाक्षिण्यकृत- पश्चात्तापस्य बिभेमि । ३ प्रावृण्नदीवाप्रसन्ना गता देवी । ननूत्तिष्ठ । आचरितो वयस्याऽप्रभाजनम्॥देवी॥नास्तिभवतोऽपराधः। अहमेवापराद्धा। या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतो गमिष्यामि। अपराधा नाम- ति। संरम्भात्क्रोधतः। स्वापराद्धमेव दर्शयति-सेव्यःप्रभुर्भाव्यः जनः कुपितः । कश्चि- दापराधाऽस्यापि कुपितः शोभत इति भावः । तदस्मत्प्रभुत्वात्त्वन्नीति शोभत इति । तदप्य- निरपराधः क नु। तस्यापराधानुगुणमेव युक्तं स्यान्न त्वागताऽस्तीति भावः ॥ २० ॥ देवी। म खलु लघुहृदया अनुनयं बहु मन्ये । किन्तु दाक्षिण्यकृत पश्चात्तापस्य बिभेमि ॥ विदूषकः । प्रावृण्नदीवाप्रसन्ना गता देवी। ननूत्तिष्ठ ॥ प्रियवचनशत इति । प्रियवचनशतेऽपि योषितां दयितजनानुनयः प्रियजन-