विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 63, कुल 168 में से
संदर्भ में पढ़ें५६ विक्रमोर्वशीये देवी—१दुग्गदं दाणिं संवृत्तम् । राजा—(जनान्तिकम् ।) वयस्य, किमत्र प्रतिविधानम् । विदूषक—(जनान्तिकम् ।) २लोप्तेण सुइदस्स कुम्भिलअस्स अत्थि वा पडिवअणम् । राजा—(अपवार्य ।) मूढ, नायं परिहासकालः । (प्रकाशम् ।) नेदं पत्रं मया मृग्यते । तत्खलु मन्त्रपत्रं यदन्वेषणाय ममायमारम्भः । देवी—३जुज्जदि अत्तणो सोहग्गं पच्छादेदुम् । विदूषक—४भोदि, तुवरेहि से भोअणम् । पित्तोवसमणेन सुत्थो होदु । देवी—५णिउणिए, सोहणं खु बह्मणेण आसासिदो वअस्सो । विदूषक—६ण पेक्ख । आसासिदो वअस्सो चित्तभोअणेण । राजा—मूर्ख, बलादपराधीन मामापादयसि । १ दुरागतमिदानीं संवृत्तम् । २ लोप्त्रेण सूचितस्य कुम्भीरकस्यास्ति वा प्रतिवचनम् । ३ युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् । ४ भवति, त्वरयस्यास्य भोजनम् । पित्तोपशमनेन स्वस्थो भवतु । ५ निपुणिके, शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः । ६ ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन । च जीर्यत नाध साध्वाह वसनम् ॥ इति सागरोक्तम् ॥ देवी । दुरागतमिदानीं संवृत्तम् ॥ प्रतिविधानं प्रतीकारः ॥ विदूषकः । लोप्त्रेण सूचितस्य कुम्भीर- कस्यास्ति वा प्रतिवचनम् । लोप्त्रं चोरितद्रव्यादिभूतं वस्तु । दासी इति भाषायां प्रसिद्धम् । स्तेयद्रव्यं तु यद्द्रव्यम् इति त्रिकाण्डी । कुम्भीरकश्चोरः । कुम्भीरको गण्डपदस्तस्कराद्यमात्स्यु च । इति चौरः ॥ युज्यतऽत्र वध्यताम् आरम्भ उद्योगः ॥ देवी । युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् ॥ विदूषकः । भवति त्वरयस्यास्य भोजनम् । पित्तोपशमनेन स्वस्थो भवतु ॥ देवी । निपुणिके शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः । वयस्यो राजा ॥ विदूषकः । ननु प्रेक्षस्व ।