विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 73, कुल 168 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । (ततः प्रविशतो भरतशिष्यौ ।) प्रथमः—सखे पेलव, उपविष्टासनग्रहणे महेन्द्रमन्दिरप्रस्थि- ध्यायिना त्वमासनं ग्राहितः । अहन्त्विदमुदककलशं साधितः । तत् पृच्छामि पुरो प्रयोगेन देवरिषदाराधिता न वेति । द्वितीयः—गालव, ण जाणे कहं आराधिदा होदि । तस्सिं उण सरस्सईकिदिकव्वबन्धे लच्छीसअंवरे उव्वसी तेसु तेसु रसांतरेसु उम्माइदा आसि । प्रथमः—सदोषवकाश इव वाक्यशेषः । द्वितीयः—आम । ताए वअणं पमादक्खलिदं आसि । प्रथमः—किमिव । द्वितीयः—लच्छीभूमिकाए वहमाणा उव्वसी वारुणीभूमिकाए वहमाणाए मेणवाए पुच्छिदा । समागदा तेलोक्कपुरिसा सकेसवा लोअपाला । कदरम्मि दे हिअआहिणिवेसो त्ति । १ गालव, न जाने कथमाराधिता भवति । तस्मिन्पुनः सरस्वतीकृत- काव्यबन्धे लक्ष्मीस्वयंवरे उर्वशी तेषु तेषु रसान्तरेषून्मादितासीत् । २ आम । तस्याः वचनं प्रमादस्खलितमासीत् । ३ लक्ष्मीभूमिकया वर्तमाना उर्वशी वारुणीभूमिकया वर्तमानया मेनकया पृष्टा । समागतास्त्रैलोक्यपुरुषाः सकेशवा लोकपालाः । कतमस्मिंस्ते हृदयाभि- निवेस इति । 'इदानीं पेलवगालवाख्यभरतमुनिशिष्ययुग्मेन राज्ञः पुनरुर्वशीसमागमसम्भावनाय तावदाह—ततः प्रविशत इति। प्रथमः। शरणं गृहम्। 'शरणं गृहरक्षित्रोः शरणं रक्षणे वधः। इति विश्वलोचनः। प्रयोगेण लक्ष्मीस्वयंवर- रूपरूपेण। परिषद्सभा। समज्याः परिषत्' इत्यमरः॥ द्वितीयः। गालव, न जाने कथमाराधिता भवती। तस्मिन्पुनः सरस्वतीकृताव्यबन्धे लक्ष्मी- स्वयंवरे उर्वशी तेषु रसान्तरेषून्मादितासीत्॥ द्वितीयः। आमेति स्मरणे। 'आमानुपूर्व्ये स्मरणे' इति त्रिकाण्डी। तस्या वचनं प्रमादस्खलितमासीत् ॥ द्वितीयः। लक्ष्मीभूमिकया वर्तमाना उर्वशी वारुणीभूमिकया वर्तमानया मेन- 1