वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 100, कुल 490 में से
संदर्भ में पढ़ें१०२ वीरमित्रोदयस्य राजनीतिप्रकाशे स्वादिष्ठयेति । हे सोम सुराद्रव्य, स्वादिष्ठया स्वादुभूतया, मदि- ष्ठया मदहेतुभूतया, धारया यजमानं पवस्व शोधय । यतः, इन्द्राय पातवे सुतः, इन्द्रस्य पानार्थमभिषुतः । यदिति । अत्र, कांस्यपात्रेषु, सुतस्याभिषुतस्य, रसिनो रसयुक्तस्य, यच्छिष्टं यः स्वल्पभागः, यच्च द्रव्यं, शचीभिः कर्मविशेषैः, संस्कृतम्, इन्द्रोऽपिबत् । तत्, अस्य द्रव्यस्य, इदं स्वरूपं, सोमं राजानं सोमसदृशं, शिवेन शा- न्तियुक्तेन, मनसा भक्षयामि । अभीति । हे वृषभश्रेष्ठ इन्द्र, त्वा त्वामभिलक्ष्य, सुतेऽस्मिन् द्रव्ये सति, पीतये पानार्थं, तत् द्रव्यं, सृजामि त्वद्धस्ते ददामि, तेन पीतेन त्वं तृम्प तृप्तो भव, मदं व्यश्नुहि, हर्षं प्राप्नुहि । पानं प्रशंसति-यो हेति । यो ह वाव, यः खलु, सोमपीथः, सोमस्य पानविशेषः, सुरायामस्मिन् द्रव्ये, प्रविष्टोऽस्ति तत्सदृशोऽस्ति, स क्षत्रियस्य भक्षितो भवति। यथैव पुत्रः पितरं शिवं सुखं यथा भवति तथा स्पृशति, आविश्वसः, देहपातपर्यन्तम्, एवं क्षत्रियस्य सुरादीनि सुखप्रदानि । एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः कावषेयो जनमेजयं पारिक्षितमभिषिषेच तस्मादु जनमेजयः पारिक्षितः समन्तं स- र्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे तदेषाभियज्ञ- गाथा गीयते — आसन्दीवति धान्यादं रुक्मिणं हरितः स्रजम् । अश्वं बन्धसारङ्गं देवेभ्यो जनमेजय इत्येतेन ह वा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गवः शार्यातं मानवमभिषिषेच त- स्मादु शार्यातो मानवः समन्तं सर्वतः पृथिवीं जयन् परीयाया- श्शवेन च मेध्येनेजे देवानां हापि सत्रे गृहपतिरासैतेन ह वा ऐ- न्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्रा- जितमभिषिषेच तस्मादु शतानीकः सात्राजितः समन्तं सर्वतः