वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 101, कुल 490 में से
संदर्भ में पढ़ेंपृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्यमभिषिषेचतुस्त- स्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वे- न च मेध्येनेज एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदौ युधांश्रौष्टिमौग्रसैन्यमभिषिषेचतुस्तस्मादु युधांश्रौष्टिरौग्रसैन्यः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एते- न ह वा ऐन्द्रेण महाभिषेकेण कश्यपो विश्वकर्माणं भौवनम- भिषिषेच तस्मादु विश्वकर्मा भौवनः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे भूमिर्ह जगावित्युदाहरन्ति न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन् भौवन मां दिदा- सिथ ॥ निमङ्क्ष्येऽहं सालिलस्य मध्ये मोघस्त एष कश्यपाया- ससङ्गर इत्येतेन ह वा ऐन्द्रेण महाभिषेकेण वसिष्ठः सुदासं पैजवनमभिषिषेच तस्मादु सुदासः पैजवनः स- मन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रेण महाभिषेकेण संवर्त्त आङ्गिरसो मरुत्त- माविक्षितमभिषिषेच तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे तदप्येष श्लोको- ऽभिगीतो— मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ॥ ( पं० ८ अ० ४ खं० २७ ) एतेन ह वा ऐन्द्रेण महाभिषेकेणोदमय आत्रेयोऽङ्गमभि- षिषेच तस्मादङ्गः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे सहोवाचालोपाङ्गो दशनागसहस्राणि दशदासी- सहस्राणि ददामि ते ब्राह्मणोपमास्मिन् यज्ञे हयस्वेति तदप्येते