भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 107, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 107

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । १०९ ध्रु॒वन्त॒ इन्द्रे॒श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥ ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सो॒मं मृ॑शामसि । अथो॒ त इन्द्रः॒ केव॑लीर्विशो॑ ब॒लिहृत॑स्करत् ॥ आत्वेति प्रथमा । हे राजन् त्वा त्वाम्, अस्मद्राष्ट्रस्य स्वा- मित्वेनाहार्ष, स त्वमस्मासु अन्तः मध्ये, एधि स्वामी भव, ध्रुवः नित्यः सन्, आविचाचलिः चलनराहितश्च सन्, तिष्ठ राष्ट्रम- धितिष्ठ । सर्वा विशः प्रजाः। त्वा त्वाम्। वाञ्छन्तु, अयमेव सर्व- दाऽस्माकं राजाऽस्त्वितीच्छन्तु । त्वत्, त्वत्तः सकाशात् । राष्ट्रं राज्यम् । माऽधिभ्रशत्, मा भ्रश्यतु, मा वियुक्तं भवतु । इहैवेति द्वितीया । हे राजन्, इहैव अस्मिन्नेव राज्ये। एधि, सदा स्वामी भव । मा पच्योष्ठाः, अपच्युतो मा भूः । पर्वत इव चलनराहितो भव । इह राष्ट्रमुधारय, इह लोके राष्ट्रं च स्वे स्वे कर्मण्यवस्था- पय । इममिन्द्र इति तृतीया।इमम्, अभिषिक्तम् । ध्रुवेण स्थिरेण, हविषा तप्यमानं, ध्रुवं स्थिरम्, इन्द्रः अदीधरत् धारयतु । तस्मै राज्ञे, सोमो ब्रह्मणस्पतिर्मन्त्रप्रतिपालको देवश्च, अधिब्रवत्, मदी- योऽयमिति ब्रवीतु । ध्रुवा द्यौरिति चतुर्थी । यथा द्यौरादयो ध्रुवाः स्थिराः । विश्वं सर्वम् । एवं विशां प्रजानां, राजा, ध्रुवः, स्थिरो भवतु । पञ्चमी ध्रुवं त इति। हे राजन् ते तव राष्ट्रं राजा वरुणो बृहस्पत्यादयश्च धारयन्तु । षष्ठी ध्रुवमिति । वयमृत्विजो यागार्थं, ध्रुवं सोमं, ध्रुवेण, हविषा पुरोडाशादिना युक्तम्। अ- भिमृशामसि संस्पृशाम । अथो अथ, इन्द्रस्ते विशः प्रजाः, केवलीः असाधारणाः, बलिहृतः कामदात्रीः, करत् करोतु । पतङ्गमिति तृचस्य सूक्तस्य प्राजापत्यः पतङ्ग ऋषिः आद्याया जगतीच्छन्दः द्वयोस्त्रिष्टुप्छन्दः मायाभेदनं देवता