वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 108, कुल 490 में से
संदर्भ में पढ़ें११० वीरमित्रोदयस्य राजनीतिप्रकाशे मायाभेदने विनियोगः । तदुक्तम्-पतङ्गः प्राजापत्यो मायाभेदे जगत्यादीति । पत॒ङ्गम॑क्तमसुर॑स्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चित॑ः। स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑क्षते मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑ः ॥ पत॒ङ्गो वाचं॒ मन॑सा बिभर्त्ति तां ग॑न्ध॒र्वोऽव॑दद्गर्भे॑ अ॒न्तः। तां द्योत॑मानां स्व॒र्यं मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति ॥ अप॑श्यङ्गो॒पामनि॑पद्यमानमा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॑ः स॒विषू॑ची॒र्वसा॑न आ॒वरी॑वर्त्ति॒ भुव॑नेष्व॒न्तः ॥ प्रथमा पतङ्गमिति । असुरस्य सर्वोपाधिरहितस्य परब्रह्म- णः सम्बन्धिन्या, मायया त्रिगुणात्मिकया, अक्तम् अभिव्यक्तं, पतङ्गं सूर्य्यं, विपश्चितो विद्वांसो, हृदा मनसा, हृत्स्थेन मनसा, प- श्यन्ति जानन्ति। कवयः क्रान्तदर्शिनः, समुद्रे, समुद्द्रवन्त्यस्माद्र- श्मय इति समुद्रः सूर्य्यमण्डलं तस्मिन्, अन्तः, मध्ये, विचक्षते विपश्यन्ति । मण्डलान्तर्वर्त्तिनं हिरण्मयं पुरुषमपि जानन्ती- त्यर्थः । अयमेवार्थः- आदित्यपुराणे, ध्येयः सदा सवितृमण्डलमध्यवर्त्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान्मकरकुण्डलवान किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ एवंविधा वेधसो विधातारः सूर्योपासनकर्त्तारो, मरीचीनां रश्मीनां, पदं, स्थानं सूर्य्यमण्डलम्, इच्छन्ति प्राप्नुवन्ति । यद्वा मायया प्रज्ञया, अक्तं जीवरूपेणाभिव्यक्तं, विपश्चितो वेदान्त-