भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

११० वीरमित्रोदयस्य राजनीतिप्रकाशे मायाभेदने विनियोगः । तदुक्तम्-पतङ्गः प्राजापत्यो मायाभेदे जगत्यादीति । पत॒ङ्गम॑क्तमसुर॑स्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चित॑ः। स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑क्षते मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑ः ॥ पत॒ङ्गो वाचं॒ मन॑सा बिभर्त्ति तां ग॑न्ध॒र्वोऽव॑दद्गर्भे॑ अ॒न्तः। तां द्योत॑मानां स्व॒र्यं मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति ॥ अप॑श्यङ्गो॒पामनि॑पद्यमानमा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॑ः स॒विषू॑ची॒र्वसा॑न आ॒वरी॑वर्त्ति॒ भुव॑नेष्व॒न्तः ॥ प्रथमा पतङ्गमिति । असुरस्य सर्वोपाधिरहितस्य परब्रह्म- णः सम्बन्धिन्या, मायया त्रिगुणात्मिकया, अक्तम् अभिव्यक्तं, पतङ्गं सूर्य्यं, विपश्चितो विद्वांसो, हृदा मनसा, हृत्स्थेन मनसा, प- श्यन्ति जानन्ति। कवयः क्रान्तदर्शिनः, समुद्रे, समुद्द्रवन्त्यस्माद्र- श्मय इति समुद्रः सूर्य्यमण्डलं तस्मिन्, अन्तः, मध्ये, विचक्षते विपश्यन्ति । मण्डलान्तर्वर्त्तिनं हिरण्मयं पुरुषमपि जानन्ती- त्यर्थः । अयमेवार्थः- आदित्यपुराणे, ध्येयः सदा सवितृमण्डलमध्यवर्त्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान्मकरकुण्डलवान किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ एवंविधा वेधसो विधातारः सूर्योपासनकर्त्तारो, मरीचीनां रश्मीनां, पदं, स्थानं सूर्य्यमण्डलम्, इच्छन्ति प्राप्नुवन्ति । यद्वा मायया प्रज्ञया, अक्तं जीवरूपेणाभिव्यक्तं, विपश्चितो वेदान्त-

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । १११

भिज्ञाः, हृत्स्थेनान्तर्मुखेन मनसा, पतङ्गं परमात्मानं, पश्यन्ति, उपाधिपरित्यागेन जीवात्मनः परमात्मना तादात्म्यं साक्षा- त्कुर्वन्ति । अपिच, ते कवयो वेदान्ताभिज्ञाः, समुद्रद्रवन्त्यस्मि- न्निति समुद्रः परमात्मा तस्मिन्नधिष्ठानभूते, अन्तर्मध्ये, सर्वं दृश्य- मध्यस्तत्वेन पश्यन्ति । अतो दृश्यातिरिक्तस्य मिथ्यात्वात्, वे- धसो विधातारो, मरीचीनां वृत्तिज्ञानानाम्, पदम्, अधिष्ठानभूतं सच्चित्सुखात्मकं यत् परं ब्रह्म, तदेवेच्छन्ति, तद्भावप्राप्तिमेव कामयन्ते । द्वितीया पतङ्गो वाचमिति । पतङ्गः सूर्यः, वाचं त्र- यीरूपां, मनसा प्रज्ञया, बिभर्त्ति धारयति । श्रूयते हि— ऋग्भिः पूर्वाह्ने दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते वेदैरशून्यैस्त्रिभिरेति सूर्यः ॥ इति । तामेव वाचं, गर्भे, शरीरस्य मध्ये, वर्त्तमानो, गन्धर्वः, गाः शब्दान् धारयतीति गन्धर्वः प्राणवायुः, अन्तः मध्ये, अवदत्, वदति, प्रेरयति । “मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम्” इतिस्मरणात् । द्योतमानां, स्वर्यं स्वर्गमयित्रीं, स्वर्गाय हितां वा । मनीषां मनस ईषाम् । तां त्रयीरूपां वाचम् । ऋतस्य यज्ञस्य, सत्यभूतस्य सूर्यस्य वा । पदे स्थाने, कवयो, मेधाविन ऋषयः । निपान्ति, अध्ययनेन नितरां रक्षन्ति । यद्वा पतङ्गः, सर्वोपाधि- शून्यो व्याप्तः परमात्मा, सृष्ट्यादौ वाचं मनसा बिभर्त्ति, कानि कानि सृष्टव्यानीति पर्यालोचनया मनसा सर्वार्थप्रतिपादकं वे- दं परामृष्टवानित्यर्थः । स्मर्यते हि— वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः । इति । गर्भे, हिरण्मये ब्रह्माण्डे, अन्तर्वर्त्तमानो गन्धर्वो हिरण्यगर्भः, तां वाचमवदत्, प्रथममुच्चारितवान् । द्योतमानत्त्वादिगुणविशि-

११२ वीरमित्रोदयस्य राजनीतिप्रकाशे ष्टां तां वाचं, कवयः, क्रान्तदर्शिनो देवाः, ऋतस्य सत्यस्य ब्र- ह्मणः, पदे स्थाने, निपान्ति निभृतं रक्षन्ति । तृतीया अपश्यं गोपामिति । गोपां गोपायितारमादित्यम् । अपश्यम् अज्ञासिषम्। एष हि सर्वाणि भूतानि उदयास्तमयादिकर्मणा गोपायति । की- दृशम्, अनिपद्यमानम् उच्चैर्गच्छन्तम्, पथिभिराकाशमार्गैः, पूर्वाह्ने आचरन्तं सम्मुखमागच्छन्तं, सायं पराङ्मुखं गच्छन्तम् । प्रका- रद्वयसमुच्चयार्थौ चशब्दौ । स सूर्यः, सध्रीचीः प्राच्यादिमहादि- शः, सविषूचीराग्नेय्याद्यवान्तरदिशो, वसानः प्रकाशयन्, भुव- नेषु, अन्तर्मध्ये, आवरीवर्त्ति उद्यन्नस्तङ्गच्छन्नावर्तते । यद्वा, गोपां शरीरस्य गोपायितारम् । अनिपद्यमानम् अविनाशिनम् । पथिभिः नाडीमार्गैः,

आथर्वणपरिशिष्टोक्तपुष्याभिषेकः । ११३ अभिषेकाय राज्ञस्तु तोयमाहृत्य यत्नतः ॥ एकद्वित्रिचतुर्णां वा सागरस्य तु पञ्चमम् । औषधीस्तेषु सर्वेषु कलशेषूपकल्पयेत् ॥ सहा च सहदेवी च <sup>....</sup>वला तथा । मदयन्ती वचा श्वेता व्याघ्रदन्ती सुमङ्गला ॥ शतावरी जयन्ती च शतपुष्पा सचन्दना । प्रियङ्गुरोचनोशीरममृता च ससारिवा ॥ अश्वत्थप्लक्षबिल्वानां न्यग्रोधपनसस्य च । शिरीषाम्रकपित्थानां पल्लवैः समलङ्कृतान् ॥ हेमरत्नौषधीबिल्वपुष्पगन्धाधिवासितान् । आच्छादितान् सितैर्वस्त्रैरभिमन्त्र्य पुरोहितः ॥ सावित्र्युभयतः कृत्वा शन्नोदेवीस्तथैव च । हिरण्यवर्णासूक्तं च अनुवाकाद्यमेव च ॥ धरणी पादपीठं स्याद्दूर्वामूलाङ्कुराञ्छुभान् । तस्योपरि भवेत्पीठं हैमं रौप्यमथापि वा ॥ अनडुद्याघ्रसिंहानां मृगस्य च यथाक्रमम् । चत्वारि चर्माण्येतानि पूर्वादारभ्य विन्यसेत् ॥ चातुर्होत्रविधानेन जुहुयाच्च पुरोहितः । चतुर्दिक्षु स्थितैर्विप्रैर्वेदवेदाङ्गपारगैः ॥ बिल्वाहारः फलाहारः पयसा वापि वर्त्तयेत् । सप्तरात्रं घृताशी वा ततो होमं प्रयोजयेत् ॥ गव्येन पयसा कुर्यात्सौवर्णेन स्रुवेण तु । वेदानामादिभिर्मन्त्रैर्महाव्याहृतिपूर्वकैः ॥ शर्मवर्मगणश्चैव तथा स्यादपराजितः । आयुष्यश्चाभयश्चैव तथा स्वस्त्ययनो गणः ॥ १५

११४ वीरमित्रोदयस्य राजनीतिप्रकाशे एतान् पञ्च गणान् हुत्वा वाचयेत्तु द्विजोत्तमान् । हिरण्यैनाक्षताढ्येन फलैश्च मधुसर्पिषा ॥ पुण्याहं वाचयित्वास्य प्रारम्भं कारयेद्बुधः । तिथिनक्षत्रसंयुक्ते मुहूर्त्ते करणे शुभे ॥ उच्चैर्घोषयते तूर्याण्यभिमन्त्र्य पुरोहितः । सर्वतूर्यनिनादेन अभिषिक्तो ह्यलङ्कृतः ॥ सिंहासनं समारुह्य पीठकं वा क्रमागतम् । चामरच्छत्रसंयुक्तं प्रतीहारविभूषितम् ॥ मत्तद्विपचतुष्कं च चतुर्दिक्षु प्रकल्पयेत् । उपविष्टस्ततो राजा प्रजानां कारयेद्धितम् ॥ अकरा ब्राह्मणा गावः स्त्रीबालजडरोगिणः । ततस्तु दर्शनं देयं ब्राह्मणानां नृपेण तु ॥ श्रेणीप्रकृतिमुख्यानां स्त्रीजनं च नमस्करोत् । आशिपस्ते हि दास्यन्ति तुष्टा जनपदा भुवि ॥ एवं प्रजाऽनुरज्येत पृथिवी च वशा भवेत् । पुरोहितं मन्त्रिणं च सेनाध्यक्षं तथैव च ॥ अश्वाध्यक्षं गजाध्यक्षं कोष्ठागारपतिं तथा । भाण्डागारपतिं वैद्यं दैवज्ञं च यथाक्रमम् ॥ यथार्हेण च योगेन सर्वान् सम्पूजयेन्नृपः । राज्यं पुरोहिते न्यस्य शेषाणां च यथाक्रमम् ॥ स्थानान्तराणि चान्यानि दत्त्वा सुखमवाप्नुयात् । दूर्वासिद्धार्थकान् सर्पिः शमी व्रीहियवाँ तथा ॥ शुक्लानि चैव पुष्पाणि मूर्ध्नि दद्यात्पुरोहितः । अथर्वविहितो ह्येष विधिः पुष्याभिषेचने ॥ राजा स्नातो महीं भुङ्क्ते शक्रलोकं स गच्छति । इति पुष्याभिषेकः ।

प्रतिमासप्रतिसंवत्सराभिषेकौ । ११५ अथ राज्ञो जन्मनक्षत्रे प्रतिमासमभिषेक उक्तो— विष्णुधर्मोत्तरे, पुष्कर उवाच । राजा तु जन्मनक्षत्रे प्रतिमासं समाचरेत् । जन्मनः क्षालकं कर्म यत्तत्पूर्वं मयेरितम् ॥ पुष्यस्नानं तथा कुर्यात्प्रतिमासं नराधिप । सङ्क्रान्तं पूजयेत्सूर्यं बालमिन्दुं तथैव च ॥ ग्रहं सम्पूजयेद्राजा निर्गतं रविमण्डलात् । निर्गतम् उदितम् । अगस्त्यस्योदये कार्या तथा पूजा नराधिपैः ॥ इति प्रतिमासं जन्मनक्षत्रे अभिषेकः । अथ संवत्सराभिषेकः । विष्णुधर्मोत्तरे, राम उवाच । सम्वत्सराभिषेकं च कथयस्व महीक्षितः । तत्र मे संशयो देव त्वं हि सर्वविदुच्यसे ॥ पुष्कर उवाच । राजाभिषेकनक्षत्रे प्रतिसंवत्सरं द्विजैः । पूर्वाभिषेकविधिना कर्त्तव्यमभिषेचनम् ॥ धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पुष्टिविवर्द्धनं च । वर्षाभिषेकं नृपतेः प्रदिष्टं सौख्यावहं राज्यविवृद्धिदं च ॥ इति। ब्रह्मपुराणेऽपि— राजाभिषेकमुक्त्वा, अनेन विधिना यस्तु कुर्याद्वर्द्धापनं सदा ।

११६ वीरमित्रोदयस्य राजनीतिप्रकाशे अभिषेकाह्नि यत्नेन प्रतिसंवत्सरं नृपः ॥ इति । इति संवत्सराभिषेकः । अथाभिषिक्तस्य राज्ञो गुणवतो जनपदपरिपालनादीन् धर्मान् वक्तुं यैर्गुणैः प्रजापालनयोग्यो भवति ते गुणा उच्यन्ते । तत्र— शङ्खलिखितौ, राजा दीर्घदर्शी महोत्साहः शक्तिमाननस्र्- युर्भक्तबलस्त्यागी शरण्यः सर्वभूतानां संविभक्तः सत्यवा- ग्मत्सरी गम्भीरो ऽमर्षणो बुधस्तेजस्वी प्रतिविधानकुशलो- ऽदीर्घसूत्रो दक्षः क्षमावान् लक्ष्यज्ञो देशकालद्रव्यप्रयोगस- ङ्ग्रहनिमित्तज्ञानकुशलो गूढमन्त्रप्रचारसंवृतरन्ध्रः पररन्ध्रज्ञो दृढ- प्रहारी लघुहस्तो जितस्थानासनहिमानपो जितकामरागद्वेषलो- भमत्सरः प्रजाभिरामो दीनानुग्रहकर्त्ता ब्राह्मणेष्वन्नप्रदाता श्रीयशोऽर्थी । अस्यार्थः। दीर्घदर्शी अनागतकार्यतत्त्वज्ञः। महोत्साहः, पु- रुषार्थसाधनकर्माध्यवसाय उत्साहः स महान् यस्य सः। बहुवि- षयत्वमविहन्यमानत्वं चोत्साहस्य महत्त्वम् । शक्तिमान् प्रभावो- त्साइमन्त्रशक्तित्रययुक्तः। अनसूयुः, असूया परगुणेषु दोषारो- पस्तद्रहितः । गम्भीरः अनुपलेखितक्रोधहर्षाद्याकारः । अमर्षणः परसमृद्धेरसोढा । प्रतिविधानम्, उपस्थितानिष्टप्रतीकारः, तत्र कुशलः । अदीर्घसूत्रः, अचिराक्रियः, अवश्यकार्याणां कर्मणां प्रारम्भे प्रारब्धानां च परिसमाप्तौ यो न विलम्बते । दीर्घसू- त्रस्य कर्महानिरुक्ता- मत्स्यपुराणे, अदीर्घसूत्रश्च भवेत्सर्वकर्मसु पार्थिवः । दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ॥ इति

राजगुणाः । ११७ कार्यविशेषे दीर्घसूत्रतापि कर्त्तव्येत्युक्तम्- तत्रैव, दोषे दर्पे च माने च द्रोहे पापे च कर्मणि । अप्रिये चैव कर्त्तव्ये दीर्घसूत्रः प्रशस्यते ॥ इति । लक्ष्यज्ञः तत्कालकर्त्तव्यज्ञः। गूढमन्त्रप्रचारः फलानुमितम- न्त्रतत्त्वः । संवृतरन्ध्रः, रन्ध्रं यत्र परे प्रभवन्ति, तत्संवृतं यस्य। तथा च मनुः, नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ इति । तथा यत्नातिशयं कुर्याद्यथाऽस्य छिद्रं शत्रुर्न जानाति, शत्रोस्तु छिद्रं प्रकृतिभेदादिकं चारैर्जानीयात् । यथा कूर्मो मुखचरणादीन्यङ्गानि आत्मदेहे गोपायति, एवममात्यादीनि राज्याङ्गानि दानमानसत्कारैरात्मसात्कुर्यात् । दैवात्प्रकृतिभेदे जाते यत्नतः प्रतीकारं कुर्यात् । जितमत्सर इति पुनर्ग्रहणम् उत्पन्नस्यापि मत्सरस्याप्रकाशनार्थम् । प्रजाभिरामः प्रजानाम- भिरमयिता । गौतमः, राजा सर्वस्येष्टे ब्राह्मणवर्जं साधुकारी साधुवा- दी त्रय्यामान्वीक्षिक्यां चाभिविनीतः शुचिर्जितेन्द्रियो गुणव- त्सहायोपायसम्पन्नः समः प्रजासु स्यात् हितं चासां कुर्वीत । सर्वस्य जनपदस्य, इष्टे, अधिपतिर्भवति निग्रहानुग्रहादिषु, ब्राह्मणवर्जम्, ततस्ते स्वधर्मात् च्यवन्तोऽपि सान्त्वेन धर्मेऽव- स्थाप्याः । सर्वक्रियासु स्वतन्त्रताख्यापनार्थं वचनम् । तथाह- नारदः, अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः । इति ।

११८ वीरमित्रोदयस्य राजनीतिप्रकाशे साधुकारी शास्त्राविरुद्धचरणशीलः। साधुवादी, व्यवहा- रकाले सत्यवादी । त्रयी ऋग्यजुःसामवेदाः । अथर्वणस्तु वेद एतेष्वेवान्तर्भवति । ऋग्यजुरात्मकत्वात्तस्य । भेदव्यवहा- रस्तु प्रवचननिमित्तः शान्तिकपौष्टिकप्रमेयभेदनिबन्धनेा वा। आ- न्वीक्षिकी, वेदाद्यविरुद्धा आत्मज्ञानोपयोगिनी न्यायविद्या। तयोरभिविनीतो गुरुभिः सम्यक् शिक्षितः । मनुस्तु, त्रैविद्येभ्यस्त्रयीं विद्याद्दण्डनीतिं च तद्विदः । आन्वीक्षिकीं चात्मविद्भ्यो वार्त्तारम्भांश्च लोकतः ॥ इति। विद्यामिति द्वितीयान्तपाठे पूर्वोक्तमनुश्लोकादधिगच्छेदि- त्यनुषञ्जनीयम् । शुचिः, अन्तः परद्रव्यादिष्वस्पृहः, बहिः स्नानादिपरः । जितेन्द्रियः इन्द्रियजयवान् । अस्य फलमाह- मनुः, इन्द्रियाणां जये योगं समातिष्ठेदिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ इति । गुणवत्सहायः, चारित्रादिमन्तोऽमात्याः, उपायाः, सा- मादयः सप्त वक्ष्यन्ते, तैरुपसम्पन्नो युक्तः । समः प्रजासु, प्रिये द्वेष्ये च । हितं, तडागखननादिना । आसां प्रजानाम् । याज्ञवल्क्यः, महोत्साहः स्थूललक्ष्यः कृतज्ञो वृद्धसेवकः । विनीतः सत्त्वसम्पन्नः कुलीनः सत्यवाक् शुचिः ॥ अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा । धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥ स्वरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च । विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥

राजगुणाः ११९ स्थूललक्ष्यः बहुदेयार्थदर्शी । तस्य च सर्वा पृथिवी वश्या भवतीत्युक्तम्— मत्स्यपुराणे, भाव्यं धर्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभृता । स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी ॥ इति । परकृतोपकारापकारौ न विस्मरतीति कृतज्ञः । वृद्धसेवकः, विनयशिक्षार्थं तपोज्ञानादिवृद्धानां सेवकः । तदुक्तम् — मनुना, वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् । वृद्धान्, वयस्तः, ब्राह्मणानब्राह्मणान् वा । विप्रानित्यादि व्याख्यातप्रायम्। शुचीन् निरुपधीन् । एतदप्यपूर्वमिति मेधाति- थिः । कुल्लूकभट्टस्तु विप्रानित्यस्य सर्वाणि विशेkey: विशेkey? -> विशेkey? No: विशे- षाणा- (विशेषणा-) Wait, let me transcribe exactly as in the print: थिः । कुल्लूकभट्टस्तु विप्रानित्यस्य सर्वाणि विशेषणा- नीत्याह । वृद्धसेवी च सततं रक्षोभिरपि पूज्यते । रक्षांसि, निर्दयानि महाबलानि सर्वधर्मशून्यानि, तैरपि पूज्यते किमुत मनुष्यैरिति कैमुतिकन्यायद्योतनार्थमिदम् । वृद्धसेवायाः फलमाह— तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः । विनीतात्मापि पाटवातिशयजननार्थं विनयमधिगच्छेत् । विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् । बहवोऽविनयाद्भ्रष्टा राजानः सपरिच्छदाः ॥ वनस्थाश्चैव राज्यानि विनयात्प्रतिपेदिरे । वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः ॥ सुदासः पैजवनश्च सुमुखो निमिरेवच । सुदासनामा पैजवनस्य पुत्रः । तथा च-

१२० वीरमित्रोदयस्य राजनीतिप्रकाशे ब्राह्मणम्, तस्मादु सुदासः पैजवन इति । पृथुश्च विनयाद्राज्यं प्राप्तवान्मनुरेव च । कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ इति । महाभारते, न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् । श्रियं ह्यविनयो हन्ति जरारूपमिवोत्तमम् ॥ विनीतो विनययुक्तः । विनयशब्देनाविरुद्धः पूर्वो- क्तः स्नातकधर्मकलाप उच्यते । " न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् " इत्यादिनोक्तः । सत्त्वसम्प- न्नः सम्पदापदोर्हर्षविषादरहितः । दुर्दशामापन्नोऽपि न न्यायादपैति स सत्त्वसम्पन्न इत्यपरार्कः । मातृतः पितृ- तश्चाभिजनवान् कुलीनः । अवगताविस्मरणशीलः स्मृतिमान्। अनल्पहृदयः, योऽल्पापकारोपकाराभ्यां कोपप्रसादवान् सो- ऽल्पहृदयः, तथा न भवतीत्यर्थः । अपरुषः अकठोरवाक् । धा- र्मिकः प्रसिद्धवर्णाश्रमधर्मान्वितः । पुरुषार्थविक्षेपकं द्यूतादि व्य- सनं तद्रहितोऽव्यसनः । व्यसनानि वक्ष्यन्ते । प्राज्ञो गम्भी- रार्थावधारणक्षमः । शूरो निर्भयः । रहस्यवित् गोपनीयगोपन- चतुरः । स्वरन्ध्रगोप्ता, स्वस्य सप्तसु राज्याङ्गेषु यस्य वैकल्ये परप्रवेशस्तस्य गोप्ता रक्षकः । कात्यायनः, विनीतः शास्त्रसम्पन्नः कोशशौर्यसमन्वितः । ब्रह्मण्यो दानशीलः स्याद्धर्मसत्यपरो नृपः ॥ स्तम्भोपतापपैशुन्यचापलक्रोधवर्जितः । प्रगल्भः सन्नतोदग्रः सम्भाषी प्रियदर्शनः ॥ वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु ।

विहिता राजधर्माः । १२१ परीक्ष्य कारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ स्तम्भः पराप्रणतिः । उपतापोऽत्र प्रजापीडनम् । पैशुन्यं परदोषाविष्करणम् । प्रगल्भः अपरिषद्भीरुः । सन्नतोदग्रः, सत्सु नतोऽसत्सु अधृष्यः । सम्भाषी स्मितपूर्वाभिभाषी । तदुक्तम्- मत्स्यपुराणे, स्मितपूर्वाभिभाषी स्यात्सर्वस्यैव महीपतिः । वध्येष्वपि महाभाग भ्रुकुटिं न समाचरेत् ॥ इति । विष्णुरपि राजेत्यनुवृत्तौ, स्मितपूर्वाभिभाषी स्याद्वध्येष्वपि न भ्रुकुटिमाचरेदिति । एतेषु गुणेषु केषां चिद्व्यवस्थामप्याह- मनुः, स्वराष्ट्रे न्यायवृत्तः स्याद्भृशं चण्डश्च शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ [L15

१२२ वीरमित्रोदयस्य राजनीतिप्रकाशे वर्णाश्रमपदे सङ्करपाखण्डादीनामप्युपलक्षके । सङ्कराणां वर्णमूलत्वात्, पाखण्डानामाश्रममूलत्वात् । तथा च- विष्णुपुराणे, यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राडपि मैत्रेय स नग्नः पापकृन्नरः ॥ इति । स्वे स्वे धर्म इति वीप्सया सामयिकधर्माणामपि सङ्ग्रहः । देवब्राह्मणगोसाध्वीसाधूनामपि पूजनम् । समता व्यवहारेषु स्वयं चैवान्ववेक्षणम् ॥ व्यवहाराणामिति शेषः । तदुक्तम्- याज्ञवल्क्येन, व्यवहारान्नृपः पश्येत्-इति । राज्ञां धर्मं परं विद्यात्तथा वै चरदृष्टिता । स्वदेशपालनं धर्मः परराष्ट्राभिमर्दनम् ॥ यज्ञदानक्रिया चैव सङ्ग्रामे चापलायनम् । कामादीनामाभ्यन्तराणां स्वविषयवासित्वेनाऽऽभ्यन्तरा- णां भृत्यादीनां च जय उक्तः— तत्रैव, कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च । जेतव्यो रिपुषड्वर्ग आन्तरः पृथिवीक्षिता ॥ स्वस्वविषये व्यवस्थापनं जयः । एतेषां विजयं कृत्वा कार्यों भृत्यजयस्तथा । कृत्वा भृत्यजयं राजा पौरान् जानपदान् जयेत् ॥ कृत्वा च विजयं तेषां शत्रून् बाह्यांस्ततो जयेत् । अन्तिमो जयः पराभवः । बाह्यास्त्रिविधा उक्ताः— तत्रैव,

विहिता राजधर्माः । १२३ बाह्याश्च त्रिविधा ज्ञेयास्तुल्याभ्यन्तरकृत्रिमाः ॥ गुरवस्ते यथापूर्वं तेषु यत्नः सदा भवेत् । अमात्यादिभी राजा रक्ष्यो राज्ञा च ते रक्ष्या इत्युक्तम्- तत्रैव, स्वाम्यमात्यो जनपदो दुर्गं दण्डस्तथैव च । कोशो मित्रं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥ दण्डो बलम् । सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्त्तितः । मूलं प्रधानम् । तन्मूलत्वात्तथाङ्गानां स तु रक्ष्यः प्रयत्नतः ॥ अमात्यादिभिरिति शेषः । षडङ्गरक्षा कर्त्तव्या तथा तेन प्रयत्नतः । षडङ्गानि अमात्यादयः । तेन राज्ञा । अङ्गेभ्यश्च तथैकस्तु द्रोहमाचरतेऽल्पधीः ॥ एकः, अङ्गमध्यस्थः कश्चित् । वधस्तस्य तु कर्तव्यः शीघ्रमेव महीक्षिता ॥ तथा, एकस्यैव महीभर्तुर्भूयः कार्ये सुनिश्चिते । ब्राह्मणान् पर्युपासीत त्रय्यां राम सुनिश्चितान् ॥ नासच्छास्त्ररतान्मूढांस्ते हि लोकस्य कण्टकाः । सुनिश्चिते, उपस्थित इति शेषः । उपासीत नियुञ्जीत । तथा, यजेत राजा बहुभिः क्रतुभिः स्वाप्तदक्षिणैः ॥ स्वाप्तदक्षिणैः, ऋत्विग्भिः प्राप्ता दक्षिणा येषु तैः । धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ।

१२४ वीरमित्रोदयस्य राजनीतिप्रकाशे स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु ॥ आवृत्तानां गुरुकुलाद्द्विजानां पूजनं भवेत् । आवृत्तानां कृतसमावर्तनानाम् । नृपाणामक्षयो ह्येष निधिर्ब्राह्मो विधीयते ॥ हिः प्रसिद्धः । तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः । तथा, सङ्ग्रामेष्वनिवर्त्तित्वं प्रजानां परिपालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां निःश्रेयसं परम् ॥ कृपणानाथवृद्धानां विधवानां च योषिताम् । योगक्षेमं च वृत्तिं च तथैव परिकल्पयेत् ॥ योगः अलब्धलाभः । क्षेमं सिद्धस्य परिपालनम् । वृत्ति- र्जीवनोपायः । तथा, आश्रमेषु यथाकालं तैलं भाजनभोजनम् । स्वयमेव नयेद्राजा सत्कृतानवमन्य च ॥ आश्रमेषु स्थानेषु । सत्कृतान्, कार्येषु नियुक्तान् । अवम- त्य उपेक्ष्य । अनेनादरातिशय उच्यते । तथा, तापसे सर्वकार्याणि राज्यमात्मानमेव च । निवेदयेत्प्रयत्नेन देववच्चैनमर्चयेत् ॥ मनुः, न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ १ अयं सार्धश्लोको मुद्रितमनुपुस्तके नोपलभ्यते ।

विहिता राजधर्माः । १२५ विश्वासयेच्चापि परं तत्त्वभूतेन हेतुना । बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् । वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ यथा वृको मेषादिरक्षकानवधानमासाद्य मेषं हन्ति, एवं शत्रुरक्षकानवधाने शत्रुं हन्यात् । विनिष्पतेत्, शत्रुभिरभिभूत आश्रयान्तरं गच्छेत् । विष्णुधर्मोत्तरे तु, दृढप्रहारी च भवेत्तथा सूकरवन्नृपः । चित्राकारश्च शिखिवद्दृढभक्तस्तथा श्ववत् ॥ भवेच्च मधुराभाषी तथा कोकिलवन्नृपः । काकशङ्की भवेन्नित्यमज्ञातवसतिं वसेत् ॥ काकशङ्की, काकवन्न कमपि विश्वसेत् । विष्णुः, आयद्वाराणि नोच्छिन्द्यान्नापात्रवर्षी स्यात् । आयद्वाराणि, द्रव्योत्पत्तिस्थानानि खानिशुल्कप्रभृतीनि । महाभारते तु विशेषः । चरेद्धर्माणि कटुको मुञ्चेत्स्नेहं न नास्तिकः । आनृशंस्यश्चरेदर्थं चरेत्काममनुद्धतः ॥ प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः । दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥ सन्दधीत न चानार्यैर्विगृह्णीयान्न च बन्धुभिः । नाभक्तं चारयेच्चारं कुर्यात्कार्यमपीडया अर्थं ब्रूयान्न चासत्सु गुणान् ब्रूयान्न चात्मनः । आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥ नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् । विसृजेन्न च लुब्धेभ्यो विश्वसेनापकारिषु ॥

१२६ वीरमित्रोदयस्य राजनीतिप्रकाशे अनीर्षुर्गुप्तदारः स्यादृजुः स्यादघृणी नृपः ॥ स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् । अस्तब्धः पूजयेन्मान्यान् गुरून् सेवेदमयया ॥ अर्चेद्देवानदम्भेन श्रियमिच्छेदकुत्सिताम् । सेवेत प्रणयं हित्वा १ दक्षः स्यान्न त्वकालवित् ॥ सान्त्वयेत्तन्न २ मोघाशमनुगृह्णन् च क्षिपेत् । प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शोचयेत् ॥ क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु । तथा, ऊखरेष्वपि वर्षन्तं पात्रेषु मृदु वर्षिणम् । पर्जन्यमपि निन्दन्ति किम्पुनर्वसुधाधिपम् ॥ इति । विष्णुधर्मोत्तरे बालकादीनां धनं राज्ञैव रक्ष्यमित्युक्तम्। बालदायादकं रिक्थं तावद्राजाऽनुपालयेत् । यावत्स स्यात्समावृत्तो यावद्वाऽतीतशैशवः ॥ बालपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । तान् शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ तथा चौरैरपहृतं प्रजाद्रव्यं राज्ञा स्वकोशाद्दातव्यमित्युक्तम्— तत्रैव, सर्वेषामेव वर्णानां चौरैरपहृतं धनम् । तत्प्रमाणं स्वकात्कोशाद्दातव्यमविचारयन् ॥ ततस्तु पश्चात्कर्त्तव्यं चौरान्वेषणमञ्जसा । चौररक्षाधिकारिभ्यो राजाऽपि तदवाप्नुयात् ॥ १ धृत्वा, धाञो रूपमिदम् । २ न च मोक्षायेत्यपि पाठः।

विहिता राजधर्माः १२७ आहृते च तथा वित्ते हृतमित्येव वेदिनम् । निर्द्धनं पार्थिवः कृत्वा विषयात्स्वाद्विवासयेत् ॥ आहृते, चौरान्वेषिभिरितिशेषः । हृतमित्येव वेदिनम्, चौरैरपहृतं न मया प्राप्तमिति निवेदयितारं चौरान्वेषिणं मि- थ्यावादितया प्रमाणैर्निर्णीय निर्द्धनं कृत्वा स्वदेशाद्विवासये- दिति व्याख्येयम् । अपहृतस्यादाने राज्ञो दोषमाह— याज्ञवल्क्यः, देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ इति । यत्तु धनस्वामिन एव परिचारकैर्नीतं तत्त राज्ञा न देयमित्युक्तम्— विष्णुधर्मोत्तरे, न तद्राज्ञा प्रदातव्यं गृहे यत्परिचारकैः । प्रचरद्भिर्हृतं द्रव्यं कार्यं तत्रान्ववेक्षणम् ॥ अन्ववेक्षणम्, तर्जनताडनादिना तत्परिचारकेभ्यो दाप- नीयं, न तु स्वयं दातव्यमित्यर्थः । स्वविषये क्षुधाऽवसद्यमानस्य श्रोत्रियस्य वृत्तिकल्पनमपि राज्ञ आवश्यकमित्युक्तम्— तत्रैव, न च क्षुधाऽवसीदेत श्रोत्रियो विषये वसन् । यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥ तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः । श्रुतवित्ते तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ॥ रक्षेच्च सर्वतस्त्वेतान् पिता पुत्रमिवौरसम् । संरक्ष्यमाणो राज्ञा यः कुरुते धर्ममन्वहम् ॥ तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च । इति ।

१२८ वीरमित्रोदयस्य राजनीतिप्रकाशे देवतारामादेः पालनं तत्पूजनं चावश्यकमित्युक्तम्- तत्रैव, स्वदेशदेवतार्चायाः कृतारामं पुरातनैः । दायं वित्तं जनं तासां प्रयत्नात्परिपालयेत् ॥ पालयन्ति महीं देवाः पालिताः पृथिवीक्षिता । देवायत्तमिदं सर्वं भूतलं द्विजपुङ्गव ॥ धूपदीपनमस्कारपुष्पमाल्यानुलेपनैः । रत्नानां सम्प्रदानैश्च पूजनीयाः सुरोत्तमाः ॥ पूजिताः पूजयन्त्येते आयुषा यशसा श्रिया । प्राप्यते देवताभक्त्या मनुष्येण महत्पदम् ॥ पूजिताः सम्प्रयच्छन्ति कामान्नृणां मनोगतान् । एकमप्याश्रितो देवं राजा भार्गवनन्दन ॥ सर्वासां पूजनं कुर्याद्देवतानामसंशयम् । ब्राह्मणाश्च नियोक्तव्या वेदोक्तसुरपूजने ॥ ब्राह्मणस्य पूजनं पालनं चोक्तम्- तत्रैव, ब्राह्मणान् पूजयेद्राजा ब्राह्मणान् पालयेत्सदा । ब्राह्मणा हि महाभागा देवानामपि देवताः ॥ ब्राह्मणानां क्षितिं दद्याद्भोगानन्यांश्च पार्थिव । ब्राह्मणानामिति षष्ठी चतुर्थ्यर्थे । ब्राह्मणानां क्षितिं दत्त्वा- स्वमुद्राङ्कितं पत्रमपि दद्यात् । तदुक्तम्— विष्णुना, ब्राह्मणेभ्यो भुवं दद्याद्येषां च प्रतिपादयेत् तेषां स्ववंश्यान् भुवः प्रमाणं दानच्छेदोपवर्णनं च पटे ताम्र- पट्टे वा लिखितं स्वमुद्राङ्कितं चागामिनृपतिपरिज्ञानार्थं द-

विहिता राजधर्माः । १२९ द्यदिति । येषां येभ्य इत्यर्थः । तेषां वंश्यान् । स्ववंश्यांश्चेति क्वचि- त्पाठः । दानच्छेदोपवर्णनम्, दानच्छेदे उपवर्णनं, नरकस्येति शेषः । अथ वा दानच्छेदो दत्तभूमिसिमापरिच्छेदः । तथाच- याज्ञवल्क्यः, दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥ पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनम् । स्वहस्तकालसम्पन्नं शासनं कारयेत्स्थिरम् ॥ इति । व्यासः, स्थानं वंशानुपूर्वी च देशं ग्राममुपागतान् । ब्राह्मणांस्तु तथा चान्यान् याज्यानाधिकृतानपि ॥ कुटुम्बिनोऽथ कायस्थान् दूतवैद्यमहत्तरान् । मेदचण्डालपर्यन्तान् सर्वान् सम्बोधयन्निति ॥ मातापित्रोरात्मनश्च पुण्यायामुकसूनवे । दत्तं मयाऽमुकायाद्य दानं सब्रह्मचारिणे ॥ अनाच्छेद्यमनाहार्यं सर्वभोगविवर्जितम् । चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयागतम् ॥ दातुः पालयितुः स्वर्गं हर्तुर्नर कमेव च । षष्टिवर्षसहस्राणि दानच्छेदे फलं लिखेत् ॥ स्वमुद्रावर्षमासार्द्धदिनाध्यक्षाक्षरान्वितम् । एवंविधं राजकृतं शासनं समुदाहृतम् ॥ इति । स्थानं राजधानी। उपागतान् आगन्तुकान्। महत्तरो ग्रा- १७