वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 110, कुल 490 में से
संदर्भ में पढ़ें११२ वीरमित्रोदयस्य राजनीतिप्रकाशे ष्टां तां वाचं, कवयः, क्रान्तदर्शिनो देवाः, ऋतस्य सत्यस्य ब्र- ह्मणः, पदे स्थाने, निपान्ति निभृतं रक्षन्ति । तृतीया अपश्यं गोपामिति । गोपां गोपायितारमादित्यम् । अपश्यम् अज्ञासिषम्। एष हि सर्वाणि भूतानि उदयास्तमयादिकर्मणा गोपायति । की- दृशम्, अनिपद्यमानम् उच्चैर्गच्छन्तम्, पथिभिराकाशमार्गैः, पूर्वाह्ने आचरन्तं सम्मुखमागच्छन्तं, सायं पराङ्मुखं गच्छन्तम् । प्रका- रद्वयसमुच्चयार्थौ चशब्दौ । स सूर्यः, सध्रीचीः प्राच्यादिमहादि- शः, सविषूचीराग्नेय्याद्यवान्तरदिशो, वसानः प्रकाशयन्, भुव- नेषु, अन्तर्मध्ये, आवरीवर्त्ति उद्यन्नस्तङ्गच्छन्नावर्तते । यद्वा, गोपां शरीरस्य गोपायितारम् । अनिपद्यमानम् अविनाशिनम् । पथिभिः नाडीमार्गैः,