वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 111, कुल 490 में से
संदर्भ में पढ़ेंआथर्वणपरिशिष्टोक्तपुष्याभिषेकः । ११३ अभिषेकाय राज्ञस्तु तोयमाहृत्य यत्नतः ॥ एकद्वित्रिचतुर्णां वा सागरस्य तु पञ्चमम् । औषधीस्तेषु सर्वेषु कलशेषूपकल्पयेत् ॥ सहा च सहदेवी च <sup>....</sup>वला तथा । मदयन्ती वचा श्वेता व्याघ्रदन्ती सुमङ्गला ॥ शतावरी जयन्ती च शतपुष्पा सचन्दना । प्रियङ्गुरोचनोशीरममृता च ससारिवा ॥ अश्वत्थप्लक्षबिल्वानां न्यग्रोधपनसस्य च । शिरीषाम्रकपित्थानां पल्लवैः समलङ्कृतान् ॥ हेमरत्नौषधीबिल्वपुष्पगन्धाधिवासितान् । आच्छादितान् सितैर्वस्त्रैरभिमन्त्र्य पुरोहितः ॥ सावित्र्युभयतः कृत्वा शन्नोदेवीस्तथैव च । हिरण्यवर्णासूक्तं च अनुवाकाद्यमेव च ॥ धरणी पादपीठं स्याद्दूर्वामूलाङ्कुराञ्छुभान् । तस्योपरि भवेत्पीठं हैमं रौप्यमथापि वा ॥ अनडुद्याघ्रसिंहानां मृगस्य च यथाक्रमम् । चत्वारि चर्माण्येतानि पूर्वादारभ्य विन्यसेत् ॥ चातुर्होत्रविधानेन जुहुयाच्च पुरोहितः । चतुर्दिक्षु स्थितैर्विप्रैर्वेदवेदाङ्गपारगैः ॥ बिल्वाहारः फलाहारः पयसा वापि वर्त्तयेत् । सप्तरात्रं घृताशी वा ततो होमं प्रयोजयेत् ॥ गव्येन पयसा कुर्यात्सौवर्णेन स्रुवेण तु । वेदानामादिभिर्मन्त्रैर्महाव्याहृतिपूर्वकैः ॥ शर्मवर्मगणश्चैव तथा स्यादपराजितः । आयुष्यश्चाभयश्चैव तथा स्वस्त्ययनो गणः ॥ १५