वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 112, कुल 490 में से
संदर्भ में पढ़ें११४ वीरमित्रोदयस्य राजनीतिप्रकाशे एतान् पञ्च गणान् हुत्वा वाचयेत्तु द्विजोत्तमान् । हिरण्यैनाक्षताढ्येन फलैश्च मधुसर्पिषा ॥ पुण्याहं वाचयित्वास्य प्रारम्भं कारयेद्बुधः । तिथिनक्षत्रसंयुक्ते मुहूर्त्ते करणे शुभे ॥ उच्चैर्घोषयते तूर्याण्यभिमन्त्र्य पुरोहितः । सर्वतूर्यनिनादेन अभिषिक्तो ह्यलङ्कृतः ॥ सिंहासनं समारुह्य पीठकं वा क्रमागतम् । चामरच्छत्रसंयुक्तं प्रतीहारविभूषितम् ॥ मत्तद्विपचतुष्कं च चतुर्दिक्षु प्रकल्पयेत् । उपविष्टस्ततो राजा प्रजानां कारयेद्धितम् ॥ अकरा ब्राह्मणा गावः स्त्रीबालजडरोगिणः । ततस्तु दर्शनं देयं ब्राह्मणानां नृपेण तु ॥ श्रेणीप्रकृतिमुख्यानां स्त्रीजनं च नमस्करोत् । आशिपस्ते हि दास्यन्ति तुष्टा जनपदा भुवि ॥ एवं प्रजाऽनुरज्येत पृथिवी च वशा भवेत् । पुरोहितं मन्त्रिणं च सेनाध्यक्षं तथैव च ॥ अश्वाध्यक्षं गजाध्यक्षं कोष्ठागारपतिं तथा । भाण्डागारपतिं वैद्यं दैवज्ञं च यथाक्रमम् ॥ यथार्हेण च योगेन सर्वान् सम्पूजयेन्नृपः । राज्यं पुरोहिते न्यस्य शेषाणां च यथाक्रमम् ॥ स्थानान्तराणि चान्यानि दत्त्वा सुखमवाप्नुयात् । दूर्वासिद्धार्थकान् सर्पिः शमी व्रीहियवाँ तथा ॥ शुक्लानि चैव पुष्पाणि मूर्ध्नि दद्यात्पुरोहितः । अथर्वविहितो ह्येष विधिः पुष्याभिषेचने ॥ राजा स्नातो महीं भुङ्क्ते शक्रलोकं स गच्छति । इति पुष्याभिषेकः ।