वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 127, कुल 490 में से
संदर्भ में पढ़ेंविहिता राजधर्माः । १२९ द्यदिति । येषां येभ्य इत्यर्थः । तेषां वंश्यान् । स्ववंश्यांश्चेति क्वचि- त्पाठः । दानच्छेदोपवर्णनम्, दानच्छेदे उपवर्णनं, नरकस्येति शेषः । अथ वा दानच्छेदो दत्तभूमिसिमापरिच्छेदः । तथाच- याज्ञवल्क्यः, दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥ पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनम् । स्वहस्तकालसम्पन्नं शासनं कारयेत्स्थिरम् ॥ इति । व्यासः, स्थानं वंशानुपूर्वी च देशं ग्राममुपागतान् । ब्राह्मणांस्तु तथा चान्यान् याज्यानाधिकृतानपि ॥ कुटुम्बिनोऽथ कायस्थान् दूतवैद्यमहत्तरान् । मेदचण्डालपर्यन्तान् सर्वान् सम्बोधयन्निति ॥ मातापित्रोरात्मनश्च पुण्यायामुकसूनवे । दत्तं मयाऽमुकायाद्य दानं सब्रह्मचारिणे ॥ अनाच्छेद्यमनाहार्यं सर्वभोगविवर्जितम् । चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयागतम् ॥ दातुः पालयितुः स्वर्गं हर्तुर्नर कमेव च । षष्टिवर्षसहस्राणि दानच्छेदे फलं लिखेत् ॥ स्वमुद्रावर्षमासार्द्धदिनाध्यक्षाक्षरान्वितम् । एवंविधं राजकृतं शासनं समुदाहृतम् ॥ इति । स्थानं राजधानी। उपागतान् आगन्तुकान्। महत्तरो ग्रा- १७