वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 128, कुल 490 में से
संदर्भ में पढ़ें१३० वीरमित्रोदयस्य राजनीतिप्रकाशे मदाता । अर्द्धं पक्षः । दिनाध्यक्षो वारः । तत्र पत्रेऽन्यानपि स्मृत्यन्तरोक्तान् श्लोकान् लिखेत् । ते च श्लोकाः- पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष्युधिष्ठिर । महीं मतिमतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ षष्टिवर्षसहस्राणि स्वर्गे मोदति भूमिदः । आक्षेप्ता चावमन्ता च तान्येव नरकं वसेत् ॥ अपानीयेष्वरण्येषु शुष्ककोटरवासिनः । कृष्णाहयोऽभिजायन्ते पूर्वदायं हरन्ति ये ॥ इति । स्मृत्यन्तरे, सन्धिविग्रहकारी तु भवेद्यस्तस्य लेखकः । स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम् ॥ इति । विष्णुधर्मोत्तरे, ब्राह्मणेपु तु यद्दत्तं विधिवत्पारलौकिकम् । वेदलाङ्गलकृष्टेषु द्विजक्षेत्रेषु भार्गव ॥ उप्तस्य दानबीजस्य फलस्यान्तो न विद्यते । तस्मात्पूज्या नमस्कार्याः संविभाज्यास्तथा द्विजाः ॥ राज्ञा सर्वप्रयत्नेन लोकद्वयमभीप्सता । यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति । तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ इति । तथा साध्वीनामपि पालनमुक्तम्- तत्रैव, साध्वीनां पालनं कुर्यात्पूजनं च महीपतिः । एकपत्न्यः स्त्रियः सर्वा धारयन्ति जगत्त्रयम् ॥