भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

८६ वीरमित्रोदयस्य राजनीतिप्रकाशे

विशं च त एवैनमशान्ततनवोऽनभिहुता अनभिप्रीताः स्वर्गा- ल्लोकान्नुदन्ते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्चाग्निर्वा एष वैश्वानरः पञ्चमेनिर्य॑त्पुरोहितस्तस्य वाच्येवैका मेनिर्भवति पाद- योरेका त्वच्येका हृदय एकोपस्थ एका ताभिर्ज्वलन्तीभिर्दीप्य- मानाभिरुपोदेति राजानं स यदाह क्व भगवोऽवात्सीस्तृणा- न्यस्मा आहरतेति तेनास्य तां शमयति यास्य वाचि मेनिर्भव- त्यथ यदस्मा उदकमानयन्ति पाद्यं तेनास्य तां शमयति यास्य पादयोर्मेनिर्भवत्यथ यदेनमलङ्कुर्वन्ति तेनास्य तां शमयति यास्य त्वचि मेनिर्भवत्यथ यदेनं तर्पयन्ति तेनास्य तां शमयति याऽस्य हृदये मेनिर्भवत्यथ यदस्यानारुद्धो वेश्मसु वसति तेनास्य तां शमयति यास्योपस्थे मेनिर्भवति स एनं शा- न्ततनुरभिप्रीतः स्वर्गं लोकमभिवहति क्षत्रं च बलं च राष्ट्रं च विशं च स एवैनमशान्ततनुरनभिहुतोऽनभिप्रीतः स्वर्गाल्लो- कान्नुदते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्च । ( पं० ८ अ० ५ खं० २४ ) अस्यार्थः । यतः क्षत्रियस्य ब्राह्मण एव पुरोहितश्चिकी- र्षितोऽतः पुरोधाय एव पौरोहित्यस्य एव, विधिरुच्यत इति शेषः । तं विधिं दर्शयति-न ह वेत्याद्यदन्वित्यन्तेन । यस्मात्पुरोहितरहितस्य राज्ञो देवा अन्नं नादन्ति न भ- क्षयन्ति तस्माद्यक्ष्यमाणो राजा प्रजापालनादिधर्मज्ञो ब्राह्मणं पुरोहितं कुर्यात् देवा मदीयमन्नं भक्षयन्त्विति । पु- रोहितं स्तौति-अग्नीनिति पुरोहितमित्यन्तेन । यद्राजा पुरोहितं करोति तत्स्वर्गसाधकानग्नीनेव प्रज्वालयति । तानग्नीन् दर्शयति- तस्येति विशं चेत्यन्तेन । अन्वाहार्यपचनो दक्षिणाग्निः। ते अग्न- यः शान्ततनवः त्यक्तोग्ररूपाः, अभिहुता अभिप्रीताः अभी-

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । [पृ. ८७]

ष्टहोमेन प्रीताः पुरोहितादिदानेन त एव प्रीताः, क्षत्रं शौर्यं, बलं शारीरं, राष्ट्रं देशं, विशं, प्रजाम् अभिवहन्ति प्रापयन्ति। विपक्षे बाधकमाह-त एवेति विशश्चेत्यन्तेन। ते पुरोहितादयो ऽग्नयोऽभी- ष्टहोमाभावेनोग्ररूपाः स्वर्गादेर्नुदन्ते अपनूदन्ते। पुनरपि पुरोहि- तं प्रकारान्तरेण स्तौति-अग्निरिति भवत्यन्तेन । वैश्वानरः ए- तन्नामाग्निवत् । मेनिः परोपद्रवकारिणी क्रोधरूपोग्रशक्तिः ज्वा- लावत् । ज्वलन्तीभिः प्रज्वलिताभिः, दीप्यमानाभिः पर- स्परसन्तापं कुर्वतीभिः सहितो राजानमुपोदेति राजसमीपे प्राप्तो भवति । तदा स राजा यदाह हे भगवो भगवन् कै- तावन्तं कालमवात्सीः, भो परिचारका अस्मै पुरोहितायोपवे- शनार्थे तृणानि तृणनिर्मितान्यासनान्याहरतेतिप्रियोक्त्या वाचिकां मेनिं शमयति । पाद्यं पादप्रक्षालनार्हम् । अलङ्कुर्वन्ति वस्त्र- माल्यालङ्कारादिना । तर्पयन्ति धनादिदानेन । अनारुद्धो- ऽवरोधरहितः । वसति विश्रम्भेण शयनादि करोति । एतेन गृहे समागतस्य पुरोहितस्यैते पञ्चोपचाराः कर्त्त- व्या इति सूचितम् । उपचारं स्तौति-स एनमिति विशश्चेत्य- न्तेन । व्याख्या पूर्ववत् । एकखण्डः । अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितस्ताभी राजानं परिगृह्य तिष्ठति समुद्र इव भूमिमयुवमार्यस्य राष्ट्रं भव- ति नैनं पुरायुषः प्राणो जहात्याजरसं जीवति सर्वमायुरेति न पुनर्म्रियते यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितः क्षत्रे- ण क्षत्रं जयति बलेन बलमश्नुते यस्यैवंविद्वान् ब्राह्मणो राष्ट्रगो- पः पुरोहितस्तस्मै विशः सञ्जानते सम्मुखा एकमनसो यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितः । (पं. ८ अ. ५ खं. २७) पञ्चोपचारप्रीतं पुरोहितं स्तौति-अग्निरिति भूमिमित्यन्तेन ।

८८ वीरमित्रोदयस्य राजनीतिप्रकाशे ताभिः पञ्चविधोग्रशक्तिभिः परिगृह्य परितः स्वीकृत्य । पुरो- हितादनिष्टपरिहारं दर्शयति-अयुवमेति पुरोहित इत्यन्तेन । यस्य राज्ञो विद्वान् वेदशास्त्रोक्तप्रकारेण धर्माधर्मौ बोधयितुमभिज्ञो राष्ट्रगोपो राष्ट्रपरिपालनक्षमः पुरोहितः तस्यास्य राष्ट्रमयुव- मारि युवमरणरहितं भवति । यद्वा तस्याऽऽर्यस्य अयुवममिश्रितं न भवति । यौतिरमिश्रणेऽपि वर्तते । यौतीति युवम् अमिश्रितं परस्परविरुद्धमनस्कं तथा न भवति। एनं राजानं न जहाति त्यजति राज्ञोऽपमृत्युर्न भवतीत्यर्थः । आजरसं जरापर्यन्तम् जरां प्रा- प्य, सर्वं पूर्णमायुरेति प्राप्नोति । राजा पुरुपायुषजीवी भवती- त्यर्थः। न पुनर्म्रियते इह जन्मनि मृत्वा पुरोहितमुखेन तत्त्वज्ञानं प्राप्य मुच्यते । अत एव पुनर्जन्माभावादेव न पुनर्म्रियते । अनि- ष्टपरिहारं दर्शयति-क्षत्रेणेति पुरोहित इत्यन्तेन । यस्यैवं पुरोहि- तः स स्वकीयेन क्षत्रेण कुमारादिना, परकीयं क्षत्रम् कुमारादि, बलेन सैन्येन अश्नुते अभिभवति । इदानीं प्रजानुरागं दर्शयति- तस्मै इत्यादिना । तस्मै तस्य विशः प्रजा एकमनसः परस्परमे- कमनस्काः सम्मुखा राजकार्ये उद्युक्ताः सञ्जानते राज्ञा सहैकम्- त्यं प्राप्नुवन्ति । कस्मिन्नपि कार्ये विमुखा न भवन्तीत्यर्थः। द्वितीयः खण्डः । तदप्येतदृषिणोक्तं स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभिवीर्येणेति सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानेव तच्छुष्मेण वीर्येणाभितिष्ठति बृहस्पतिं यः सुभृतं बिभर्तीति बृ- हस्पतिर्ह वै देवानां पुरोहितस्तमन्वन्ये मनुष्यराज्ञां पुरोहिता बृहस्पतिं यः सुभृतं बिभर्तीति यदा पुरोहितं यः सुभृतं बिभ- र्तीत्येव तदाह वल्गूयति वन्दते पूर्वभाजमित्यपचितिमेवास्मा एतदाह, स इत्क्षेति सुधित ओकसि स्व इति गृहा वा ओकः

स्वेष्वेव तद्गृहेषु सुहितो वसति तस्मा इळा पिन्वते विश्वदानी- मित्यन्नं वा इळान्नमेवास्मा एत ऊर्जस्वच्छश्वद्भवति तस्मै विशः स्वयमेवानमन्त इति राष्ट्राणि वै विशो राष्ट्राण्येवैतत्स्वयमुपनम- न्ति यस्मिन् ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाहाप्र- तीतो जयति सन्धनानीति राष्ट्राणि वै धनानि तान्यप्रतीतो जयति प्रतिजन्यान्युत या सजन्येति सपत्ना वै द्विषन्तो भ्रातृ- व्या जन्यानि तानप्रतीतो जयत्यवस्यवे यो वरिवः कृणोतीति यदाहावसीयसे यो वसीयः करोत्येव तदाह ब्रह्मणे राजा तमवन्ति देवा इति पुरोहितमेवैतदभिवदति । (पं० ८ अ०५ खं०२६) द्रढयति-तदप्येतदृषिणोक्तमित्यादिना । तदस्य माहात्म्य- मृषिणा मन्त्रदर्शिनोक्तं तिसृभिर्ऋग्भिः । तत्राद्यामृचमुदाहरति- स इदिति । स इत्, स एव पुरोहितयुक्तो राजा । प्रतिजन्यानि प्रतिपक्षबलानि । विश्वा, सर्वाणि । शुष्मेण, वीर्येण स्वकी- येन । अभितस्थौ, अभिभवति । "छन्दसि परेऽपि” इत्यमेः परप्रयोगः । अमुमेवार्थं सपत्नेत्यादिना वक्ति । सपत्ना, अस्यैव व्याख्या द्विषन्तो भ्रातृव्या इति । तान् सपत्नान्, जन्यानि बलानि च । बृहस्पतिं बृहस्पतिसमम् । सुष्ठु हितोपदेशादिना राजानं बिभर्त्ति स सुभृत् तं पुरोहितं यो राजा बिभर्त्ति पो- षयति । अस्यार्थवादो बृहस्पतित्यादिना । तं बृहस्पतिम् । अनु पश्चात् । पुरोहितं य इति पठितव्ये बृहस्पतिमिति प- ठितम् । पूर्वभाजम्, हितविचारेण पूर्वभजनयुक्तं पुरोहितम् । व- ल्गूयति, अर्चयति । वन्दते, नमस्करोति । अनेनास्मा अस्मिन्ने- वापचितिं पूजामाह । द्वितीयामृचमुदाहरति-स इदिति । स इत्, सपुरोहितो राजा । स्वे, स्वकीये । ओकसि, गृहे । सुधितः सुप्रीतः। क्षेति,वसति । तस्मै,पुरोहितसहिताय राज्ञे । इळा, अन्नम् ।

९२. वीरमित्रोदयस्य राजनीतिप्रकाशे दप्रक्षालनमन्त्रः-दक्षिणमिति । अवनेनिजे प्रक्षालयामि । तेने- न्द्रियं धनम् । अन्यं दक्षिणम्, अन्यं वामम् । भो देवाः गुप्त्यै रक्षायै, अवरुद्ध्यै सम्पादनाय । प्रक्षालनावशिष्टानाम् अपां मन्त्रणम्- आप इति । पादावनेजनीः पादशुद्धिकारिण्यः । तथा, स य इच्छेदेवंवित् क्षत्रियमयं सर्वा जितीर्जियेतायं सर्वाँ- ल्लोकान्विन्देतायं सर्वेषां राज्ञां श्रेष्ठ्यमतिष्ठां परमतां ग- च्छेत साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं मा- हाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुष आन्तादापरार्द्धात्पृथिव्यै समुद्रपर्यन्ताया एकराडिति तमेतेनै- न्द्रेण महाभिषेकेण क्षत्रियं शापयित्वाभिषिञ्चेद्यां च रात्रीम- जायेथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृत- मायुः प्रजां वृञ्जीयां यदि मे द्रुह्येरिति स य इच्छेदेवंवि- त् क्षत्रियोऽहं सर्वा जितीर्जयेयमहं सर्वांल्लोकान्विन्देयमहं स- र्वेषां राज्ञां श्रेष्ठ्यमतिष्ठां परमतां गच्छेयं साम्राज्यं भौ- ज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिप- त्यमहं समन्तपर्यायी स्यां सार्व्यायुष आन्तादापरार्द्धात्पृथिव्यै स- मुद्रपर्यन्ताया एकराडिति स न विचिकित्सेत्स ब्रूयात्सह श्रद्धया यां च रात्रीमजायेऽहं यां च प्रेतास्मि तदुभयमन्तरेणे- ष्टापूर्तं मे लोकं सुकृतमायुः प्रजां वृञ्जीथा यदि ते द्रुह्येयमिति । ( पं० ८ अ० ४ खं० १५) यः पुरोहितः एवंवित् ऐन्द्रमहाभिषेकवित्, अयं क्षत्रियः सर्वा जितीर्युद्धभूमीर्जयेतेत्यादिफलभाजं यं क्षत्रियमिच्छेत्, तं शापयित्वा शपथं कारयित्वा एतेन वक्ष्यमाणेनाभिषे- केणाभिषिञ्चेत् । फलेच्छां दर्शयति—लोकान् देशान् वि-

न्देत लभेत, श्रैष्ठ्याद्याधिपत्यान्तान् गुणान् प्राप्नुयात् । श्रैष्ठ्यं जातिश्रेष्ठताम्, आतिष्ठां चिरकालवासित्वम्, परमतां गु- णैरुत्कृष्टताम्, साम्राज्यं धर्मेण परिपालनम्, भौज्यं भोग- समृद्धिम्, स्वाराज्यम् अपराधीनताम्, वैराज्यम् अन्येभ्यो भूपतिभ्यो वैशिष्ट्यम्, एतदौहिकम् । अथामुष्मिकम्-पार- मेष्ठ्यं प्रजापतिलोकप्राप्तिः, राज्यम् ऐश्वर्यम्, माहाराज्यं तत्र ज्ये- ष्ठाधिक्यम्, आधिपत्यं स्वामित्वम्, समन्तपर्यायी कालतो देशतः सर्वव्यापी । आन्तात्समुद्रपर्यन्तं देशप्राप्तिः सार्वभौ- मत्वम् । आपरार्द्धात्परार्द्धाभिधेयकालपर्यन्तं सार्वायुष्टत्वं कालव्याप्तिः । पृथिव्यै पृथिव्याः, एकराद् एक एव राजास्तु । पुरोहितवचनेन शपथं दर्शयति-यां चेति । यस्यां रात्रौ समये उत्पन्नोऽसि प्रेतासि मरिष्यसि तदुभयमन्तरेण उत्पत्तिमरण- मध्ये ते तव इष्टापूर्त्तं श्रौतस्मार्त्तकर्मणी लोकं पुण्यलोकं सुकृ- तादि च वृञ्जीयां नाशयेयम् । यदि मे द्रुह्येः, मम द्रोहं कुर्याः । अथ क्षत्रियवाक्यम्-स य इच्छेदिति । य एवंवित् महाभिषे- कफलाभिज्ञः क्षत्रियोऽहं सर्वा जितीर्जयेयमित्यादि फलजात- मिच्छेत्स पुरोहितोक्तेऽर्थे न विचिकित्सेत् न संशयीत । वृ- ञ्जीथा विनाशय । ते तव । द्रुह्येयं द्रोहं कुर्याम् । अथ ततो ब्रूयाच्चतुष्टयानि वानस्पत्यानि सम्भरत नैयग्रो- धान्यौदुम्बराण्याश्वत्थानि प्लाक्षाणीति क्षत्रं वा एतद्वनस्पतीनां यन्न्यग्रोधो यन्नैयग्रोधानि सम्भरन्ति क्षत्रमेवास्मिंस्तद्दधाति भौज्यं वा एतद्वनस्पतीनां यदुदुम्बरो यदौदुम्बराणि सम्भरन्ति भौज्यमेवास्मिंस्तद्दधाति साम्राज्यं वा एतद्वनस्पतीनां यदश्व- त्थो यदाश्वत्थानि सम्भरन्ति साम्राज्यमेवास्मिंस्तद्दधाति स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां यत्प्लक्षो य-

९४ वीरमित्रोदयस्य राजनीतिप्रकाशे

त्प्ताक्षाणि सम्भरन्ति स्वाराज्यवैराज्ये एवास्मिंस्तद्दधात्यथ ततो ब्रूयाच्चतुष्टयान्यौषधानि सम्भरत तोक्मकृतानि व्रीहीणां महाव्रीहीणां प्रियङ्गूणां यवानामिति क्षत्रं वा एतदोषधीनां यद्व्रीहयो यद्व्रीहीणां तोक्म सम्भरन्ति क्षत्रमेवास्मिंस्तद्दधाति साम्राज्यं वा एतदोषधीनां यन्महाव्रीहयो यन्महाव्रीहीणां तोक्म सम्भरन्ति साम्राज्यमेवास्मिंस्तद्दधाति भौज्यं वा एतदौ- षधीनां यत्प्रियङ्गवो यत्प्रियङ्गूणां तोक्म सम्भरन्ति भौज्यमे- वास्मिंस्तद्दधाति सैनान्यं वा एतदोषधीनां यद्यवा यद्यवानां तोक्म सम्भरन्ति सैनान्यमेवास्मिंस्तद्दधाति । (पं०८अ०४खं०१६) सम्भारान् विधत्ते-अथेति । अथ क्षत्रियशपथानन्तरं पुरो- हितः परिचारकानाह । चतुष्टयानि चतुरवयवानि, वानस्पत्यानि पुष्परहितफलवद्वृक्षसम्बन्धीनि, सम्भरत सम्पादयत । नैग्रो- धानि फलानि । न्यग्रोधो वटः । एवमौदुम्बरादीनि फलानि । वृक्षांस्तौति-क्षत्रमिति । क्षत्रं राजवत् । भौज्यं भोज्यादिसा- धनम् । अस्मिन् राज्ञि, दधाति सम्पादयति । चतुष्टयफलसम्पा- दनेन क्षात्रभौज्यादिलाभः । सम्भारान्तरमाह-अथेति । अथ सम्पादनानन्तरम्, औषधानि ओषधिसम्बन्धीनि, तोक्मकृतानि अङ्कुरोत्पत्तिनिमित्तानि, व्रीहयः सूक्ष्मबीजरूपाः, महाव्रीहयः प्रौढबीजरूपाः । ओषधींस्तौति-क्षत्रमिति । व्रीहीणां बलहेतु- त्वात्क्षत्रत्वम् । महाव्रीह्यादीनामपि साम्राज्यहेतुत्वात्ताद्रूप्यम् । अथास्मा औदुम्बरीमासन्दीं सम्भरन्ति तस्या उक्तं ब्राह्म- णमौदुम्बरश्चमसो वा पात्री वोदुम्बरशाखा तानेतान् सम्भारान् सम्भृत्यौदुम्बर्यां पात्र्यां वा चमसे वा समावपेयुस्तेषु समोप्तेषु दधिमधुसर्पिरातपवर्ष्या आपोऽभ्यानीय प्रतिष्ठाप्यैनामासन्दी- मभिमन्त्रयेत बृहच्च ते रथन्तरं च पूर्वी पादौ भवतां वैरूपं च

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । ९५ वैराज्यं चापरौ शाक्कररैवते शीर्षण्ये नौधसञ्च कालेयं चानूच्ये ऋचः प्राचीनातानाः सामानि तिरश्चीनवाया यजूंष्यतीकाशा यश आस्तरणं श्रीरुपबर्हणं सविता च ते बृहस्पतिश्च पूर्वौ पादौ धारयतां वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्विनावानूच्ये इत्यथैनमेतामासन्दीमारोहयेद्वसवस्त्वा गायत्रेण च्छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्नाऽऽरोहन्तु तानन्वा- रोह साम्राज्याय, रुद्रास्त्वा त्रैष्टुभेन छन्दसा पञ्चदशेन स्तो- मेन बृहता साम्नाऽऽरोहन्तु तानन्वारोह भौज्यायाऽऽदि- त्यास्त्वा जागतेन छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्ना- ऽऽरोहन्तु तानन्वारोह स्वाराज्याय, विश्वे त्वा देवा आ- नुष्टुभेन च्छन्दसैकविंशेन स्तोमेन वैराजेन साम्नाऽऽरोहन्तु तानन्वारोह वैराज्याय, मरुतश्च त्वाऽङ्गिरसश्च देवा अतिच्छन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्नाऽऽरोहन्तु तानन्वारोह पारमेष्ठ्याय, साध्याश्च त्वाऽऽप्त्याश्च देवाः पाङ्क्तेन च्छन्दसा त्रिणवेन स्तोमेन शाक्करेण साम्नाऽऽरोहन्तु तानन्वारोह राज्या- य महाराज्यायाधिपत्याय स्वावश्यायातिष्ठायारोहेत्येतामा- सन्दीमारोहयेत्तमेतस्यामासन्द्यामासीनं राजकर्त्तारो ब्रूयुर्न वा अनभ्युत्कृष्टः क्षत्रियो वीर्यं कर्तुमर्हतीत्यभ्येनमुत्क्रोशेमेति तथेति तं राज्यकर्त्तारोऽभ्युत्क्रोशन्तीमं जना अभ्युत्क्रोशंत सम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं परमेष्ठिनं पारमेष्ठ्यं राजानं राजपितरं क्षत्रमजनि क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ताऽजन्यमित्राणां हन्ता- ऽजनि ब्राह्मणानां गोप्ताऽजनि धर्मस्य गोप्ताऽजनीति तमभ्युत्कृ- ष्टमेवंविदभिषेक्ष्यन्नेतयार्चा ऽभिमन्त्रयेत । (पं. ८ अ. ४ खं. १७) आसन्द्यादिसम्भारानाह-अथास्मा इति । वानस्पत्यौष-

९६ वीरमित्रोदयस्य राजनीतिप्रकाशे धसम्भारानन्तरमस्मै क्षत्रियायोदुम्बरकाष्ठसम्बन्धिनीमासन्दी- मासनं सम्पादयेयुः । चतुष्कोणो दण्डयुक्तो मध्ये निम्नः पात्रविशेषश्चमसः, आकाररहिता पात्री, तयोरन्यतरत्सम्पाद- येत् । यद्वा पात्री मृन्मयी उदुम्बरशाखा च । ततः पात्रीच- मसयोरेकस्मिन् वानस्पत्यौषधसम्भारान् समावपेयुः । ततो दध्यादिभिः संसिच्य चमसं भूमौ संस्थाप्य बृहदितिमन्त्रेण आसन्दीमभिमन्त्रयेत् । तस्या आसन्द्या उक्तं ब्राह्मणमित्युक्त- म् । तदाह प्रदेशान्तरे— औदुम्बर्याासन्दी तस्यै प्रादेशमात्राः पादाः स्युररत्निमात्रा- णि शीर्षण्याऽनूच्यानि मौञ्जं विवयनं व्याघ्रचर्मास्तरणम्। (पं० ८ अ० २ खं० ५) अस्यार्थः। तस्यै तस्याः। वितते अङ्गुष्ठतर्जन्यौ प्रादेशः। पा- दाश्चत्वारः । प्रादेशद्वयमरत्निः । उपरिभागेऽवस्थितानि का- ष्ठानि शीर्षण्यानि, तिर्यगवस्थितान्यनूच्यानि । मौञ्जं मुञ्ज- तृणरज्जुनिर्मितम् । विवयनम् रज्जूनामोतप्रोतरूपेण संयोज- नम् । तदुपरि व्याघ्रचर्म निदध्यात् । उदुम्बरव्याघ्रचर्मणी द- ध्यादि च स्तौति— अथ यदौदुम्बर्याासन्दी भवत्यौदुम्बरश्चमस उदुम्बरशाखो- र्वा अन्नाद्यमुदुम्बर ऊर्जमेवास्मिंस्तदन्नाद्यं दधाति । (पं० ८ अ० २ खं० ८) ऊर्क् अन्नम्, अन्नाद्यं रसः । व्याघ्रचर्मणा स्तृणात्युत्तरलोम्ना प्राचीनग्रीवेण क्षत्रं वा एतदारण्यानां पशूनां यद्व्याघ्रः क्षत्रं राजन्यः क्षत्रेणैव तत् क्षत्रं समर्द्धयति । (पं० ८ अ० २ खं० ६) उत्तरलोम्ना उपरिभागस्थितलोम्ना । प्राचीनग्रीवेण प्राग-

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । ९७ वस्थितग्रीवेण । क्षत्रं शूरः । आरण्या हरिणादयः । अथ यद्दधि मधु घृतं भवत्यपां य ओषधीनां रसोऽपामेवा- स्मिंस्तदोषधीनां रसं दधात्यथ यदातपवर्ष्या आपो भवन्ति ते- जश्च ह वै ब्रह्मवर्चसं चाऽऽतपवर्ष्या आपस्तेज एवास्मिंस्तद्ब्रह्म- वर्चसं च दधाति । ( पं० ८ अ० २ खं० ८ ) दधिघृतयोः पशुभक्षिततृणोदकजन्यत्वादोषधिरसत्वम् । मधुनोऽपि मधुकरानीतपुष्परसत्वात् । अपाम् आतपसम्बन्धा- त्तेजस्त्वम्, फलोत्पादनाद्ब्रह्मवर्चसत्वम् । आतपवर्ष्याः आत- पयुक्तवर्षाभवा आपः । बृहदिति वक्ष्यमाणमन्त्रेणाभिमन्त्रयेदित्युकम्, तस्यार्थः- बृहदादीनि सामानि । प्राचीनातानाः प्राक्प्रत्यगायताः । मौञ्जास्तन्तवः । तिरश्चीनवायाः तिर्यक्प्रोतास्तन्तवः । अती- काशा रज्ज्वन्तराच्छाच्छिद्राणि । यशः कीर्त्तिः । उपबर्हणं शिरस उपधानम् । एनं राजानम्, आरोहयेत् पुरोहितः, वसवस्त्वे- त्याद्यारोहान्तेन मन्त्रेण । वस्वादयो देवा गायत्र्यादिभिश्चन्दो- भिस्त्रिवृदादिस्तोमै रथन्तरादिसामभिश्च सह हे आसन्दि त्वां आरोहन्तु । तान् अनु पश्चात् त्वम् आरोह । स्वावशं स्वाधी- नत्वम् । राजकर्त्तारः पितृव्यभ्रात्रादयः, परस्परमिदम- ब्रुवन् । यथा वन्दिनो गुणानुवादेन कीर्त्तनम्, एवमत्रापि गु- णकीर्त्तनमभ्युत्क्रोशनं तेन रहितोऽनभ्युत्क्रुष्टः । वीर्यं परभीति- जनकं पराक्रमम्, उत्क्रोशाम, कीर्त्या उद्घोषयाम, इति विचार्य, तथेत्यङ्गीकृत्य । अभ्युत्क्रोशनप्रकारः-इममिति । भो जना लोका, इमं क्षत्रियम्, अभ्युत्क्रोशत उद्घोषयत । कीदृशम् । सम्राजं सम्राट्स्वरूपम्, अत एव साम्राज्यं कर्त्तुमर्हति । एवं स्वराजादि । भोजं भोक्तारम् । भोजपितरं भोगपालकम् । क्षत्रं क्षत्रियजा- १३

१०० वीरमित्रोदयस्य राजनीतिप्रकाशे तेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्यायो- दीच्यां त्वा दिशि विश्वे देवाः षड्भिश्चैव पञ्चविंशैरहो- भिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभि- र्वैराज्यायोर्ध्वायां त्वा दिशि मरुतश्चाङ्गिरसश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः पारमेष्ठ्यायास्यां त्वा ध्रुवायां मध्यमायां प्रति- ष्ठायां दिशि साध्याश्चाप्त्याश्च देवाः षड्भिश्चैव पञ्चविंशैरहो- भिरभिषिञ्चन्त्वेतेन तृचेनैतेन च यजुषैताभिश्च व्याहृतिभीरा- ज्याय माहाराज्यायाधिपत्याय स्वावश्यायानिष्टायैति स परमेष्ठी प्राजापत्यो भवति स एतेनैन्द्रेण महाभिषेकेणाभिषिक्तः क्ष- त्रियः सर्वा जितीर्जयति सर्वोल्लोकान् विन्दति सर्वेषां राज्ञां श्रै- ष्ठ्यमतिष्ठां परमतां गच्छति साम्राज्यं भौज्यं स्वाराज्यं वैरा- ज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यं जित्वाऽस्मिँल्लोके स्व- यम्भूः स्वराळमृताऽमुष्मिन् स्वर्ग लाक सर्वान् कामाना- प्त्वाऽमृतः सम्भवति यमेतेनैन्द्रेण महाभिषेकेण क्षत्रियं शाप- यित्वाऽभिषिञ्चति । (पं० ८ अ० ४ खं० १९ ) प्राच्यां दिश्यवस्थिता वसवूशा राजानो राजपुरोहिता वा षड्भिः पञ्चविंशैरेकत्रिंशत्सु दिनेषु अभिषिञ्चन्तु । सोऽभिषेकः साम्राज्याय भवति । एवमुत्तरत्र । ऊर्ध्वमध्यमयोः सर्वे। स उक्तमन्त्रेण अभिषिक्तः क्षत्रियः, परमेष्ठिपदयोग्यः प्रजापतिस- म्बन्धी भवति । स्वयम्भूः प्रजापतिसदृशः । स्वराट् स्वतन्त्र- राजः । अमृतो मुक्तः । इन्द्रियं वा एतदस्मिंल्लोके यद्दधि यदन्नाऽभिषिञ्चतीन्द्रिय- मेवास्मिंस्तद्दधाति रसो वा एष औषधिवनस्पतिषु यन्मधु १ दिशोरवस्थितास्सर्व देवा इत्यर्थः ।

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । १०१ यन्मध्वाभिषिञ्चति रसमेवास्मिंस्तद्दधाति तेजो वा एतत्पशू- नां यद् घृतं यद् घृतेनाभिषिञ्चति तेज एवास्मिंस्तद्दधात्यमृतं वा एतदस्मिँल्लोके यदापो यदद्भिरभिषिञ्चत्यमृतत्वमेवास्मिं- स्तद्दधाति सोऽभिषिक्तोऽभिषेक्त्रे ब्राह्मणाय हिरण्यं दद्यात्स- हस्रं दद्यात्क्षेत्रं चतुष्पाद्दद्यादथाप्याहुरसङ्ख्यातमैवापरिमितं दद्यादपरिमितो वै क्षत्रियोऽपरिमितस्यावरुद्ध्यै इत्यथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धा- रया ।। इन्द्राय पातवे सुत इति तां पिबेद्यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः । इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामि । अभि त्वा वृषभा सुते सुतं सृजामि पी- तये । तृम्प व्यश्नुही मदमिति यो ह वाव सोमपीथः सुरायां प्रविष्टः सहैवैतेनैन्द्रेण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य भ- क्षितो भवति न सुरा तां पीत्वाऽभिमन्त्रयेताऽपाम सोमं शन्नो भवेति तद्यथैवादः प्रियः पुत्रः पितरं प्रिया वा जाया पतिं सुखं शिवमुपस्पृशत्याविस्त्रस एवं हैवैतेनैन्द्रेण महाभिषेकेणाभिषिक्त- स्य क्षत्रियस्य सुरा वा सोमो वाऽन्यद्वाऽन्नाद्यं सुखं शिव- मुपस्पृशत्याविस्त्रसः । (पं० ८ अ० ४ खं० २० ) इन्द्रियमिति । इन्द्रियपाटवहेतुत्वान्मधुन इन्द्रियत्वम् । मधुनः पुष्पजन्यत्वेनौषधिजन्यत्वम् । घृतस्य शुक्लभास्वरत्वेन प- शुतेजस्त्वम् । अपाम् आप्यायनहेतुत्वादमृतत्वम् । हिरण्यस्यैव सहस्रं विशेषणम् । सहस्रनिष्कंमितं हिरण्यं दद्यात् । चतुष्पात् गवादि । असङ्ख्यातमपरिमितं सङ्ख्यारहितं, शक्त्यनुसारेणे- त्यर्थः। अपरिमितो बहुधनः । अवरुद्ध्यै प्राप्त्यै । दक्षिणादानो- त्तरं पुरोहितकर्तव्यम्—अथेति । सुरा औदुम्बरपात्रस्थान्नाङ्कु- राणामभिषुतो रसः, तत्पूर्णं कंसं, कांस्यपात्रं चषकरूपम् ।

१०२ वीरमित्रोदयस्य राजनीतिप्रकाशे स्वादिष्ठयेति । हे सोम सुराद्रव्य, स्वादिष्ठया स्वादुभूतया, मदि- ष्ठया मदहेतुभूतया, धारया यजमानं पवस्व शोधय । यतः, इन्द्राय पातवे सुतः, इन्द्रस्य पानार्थमभिषुतः । यदिति । अत्र, कांस्यपात्रेषु, सुतस्याभिषुतस्य, रसिनो रसयुक्तस्य, यच्छिष्टं यः स्वल्पभागः, यच्च द्रव्यं, शचीभिः कर्मविशेषैः, संस्कृतम्, इन्द्रोऽपिबत् । तत्, अस्य द्रव्यस्य, इदं स्वरूपं, सोमं राजानं सोमसदृशं, शिवेन शा- न्तियुक्तेन, मनसा भक्षयामि । अभीति । हे वृषभश्रेष्ठ इन्द्र, त्वा त्वामभिलक्ष्य, सुतेऽस्मिन् द्रव्ये सति, पीतये पानार्थं, तत् द्रव्यं, सृजामि त्वद्धस्ते ददामि, तेन पीतेन त्वं तृम्प तृप्तो भव, मदं व्यश्नुहि, हर्षं प्राप्नुहि । पानं प्रशंसति-यो हेति । यो ह वाव, यः खलु, सोमपीथः, सोमस्य पानविशेषः, सुरायामस्मिन् द्रव्ये, प्रविष्टोऽस्ति तत्सदृशोऽस्ति, स क्षत्रियस्य भक्षितो भवति। यथैव पुत्रः पितरं शिवं सुखं यथा भवति तथा स्पृशति, आविश्वसः, देहपातपर्यन्तम्, एवं क्षत्रियस्य सुरादीनि सुखप्रदानि । एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः कावषेयो जनमेजयं पारिक्षितमभिषिषेच तस्मादु जनमेजयः पारिक्षितः समन्तं स- र्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे तदेषाभियज्ञ- गाथा गीयते — आसन्दीवति धान्यादं रुक्मिणं हरितः स्रजम् । अश्वं बन्धसारङ्गं देवेभ्यो जनमेजय इत्येतेन ह वा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गवः शार्यातं मानवमभिषिषेच त- स्मादु शार्यातो मानवः समन्तं सर्वतः पृथिवीं जयन् परीयाया- श्शवेन च मेध्येनेजे देवानां हापि सत्रे गृहपतिरासैतेन ह वा ऐ- न्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्रा- जितमभिषिषेच तस्मादु शतानीकः सात्राजितः समन्तं सर्वतः

पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्यमभिषिषेचतुस्त- स्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वे- न च मेध्येनेज एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदौ युधांश्रौष्टिमौग्रसैन्यमभिषिषेचतुस्तस्मादु युधांश्रौष्टिरौग्रसैन्यः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एते- न ह वा ऐन्द्रेण महाभिषेकेण कश्यपो विश्वकर्माणं भौवनम- भिषिषेच तस्मादु विश्वकर्मा भौवनः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे भूमिर्ह जगावित्युदाहरन्ति न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन् भौवन मां दिदा- सिथ ॥ निमङ्क्ष्येऽहं सालिलस्य मध्ये मोघस्त एष कश्यपाया- ससङ्गर इत्येतेन ह वा ऐन्द्रेण महाभिषेकेण वसिष्ठः सुदासं पैजवनमभिषिषेच तस्मादु सुदासः पैजवनः स- मन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेज एतेन ह वा ऐन्द्रेण महाभिषेकेण संवर्त्त आङ्गिरसो मरुत्त- माविक्षितमभिषिषेच तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे तदप्येष श्लोको- ऽभिगीतो— मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ॥ ( पं० ८ अ० ४ खं० २७ ) एतेन ह वा ऐन्द्रेण महाभिषेकेणोदमय आत्रेयोऽङ्गमभि- षिषेच तस्मादङ्गः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे सहोवाचालोपाङ्गो दशनागसहस्राणि दशदासी- सहस्राणि ददामि ते ब्राह्मणोपमास्मिन् यज्ञे हयस्वेति तदप्येते

न्तिः समन्तं सर्वतः * Wait, दौष्पन्तिः has ष्प. Look at both occurrences in L15: * दौष्पन्तिमभिषिषेच तस्मादु भरतो दौष्पन्तिः समन्तं सर्वतः * पृथिवीं जयन् परीयायाश्वैश्च मेध्यैरीजे तदप्येते श्लोका * पृथिवीं जयन् परीयायाश्वैश्च मेध्यैरीजे तदप्येते श्लोका * अभिगीताः— * अभिगीताः- * हिरण्येन परीवृतान् कृष्णान्छुक्लरदतो मृगान् । * Wait, is it परीवृतान् or परीवृतान्? परीवृतान्. * कृष्णान्छुक्लरदतो or कृष्णान्छुक्लरदतो? कृष्णान्छुक्लरदतो. * मष्णारे भरतोऽददाच्छतं बद्धानि सप्त च ॥ * Wait, is the end of L19 or ? * It looks like or ? Look at the vertical strokes: two vertical strokes or one? * Wait, L19

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । १०५ दिवं मर्त्य इव हस्ताभ्यां नोदापुः पञ्च मानवाः ॥ इत्येतं ह वा ऐन्द्रं महाऽभिषेकं बृहदुक्थ ऋषिर्दुर्मु- पाञ्चालाय प्रोवाच तस्मादु दुर्मुखः पाञ्चालो राजा सन् विद्यया समन्तं सर्वतः पृथिवीं जयन् परीयायैतं ह वा ऐन्द्रं महाभिषेकं वासिष्ठः सात्यहव्योऽत्यरातये जान- न्तपये प्रोवाच तस्मादत्यरातिर्जानन्तपीराजा सन् विद्यया स- मन्तं सर्वतः पृथिवीं जयन् परीयाय स होवाच वासिष्ठः सात्यह- व्यो ऽजैषीर्वे समन्तं सर्वतः पृथिवीं महन्मा गमयेति स होवाचा- त्यरातिर्जानन्तपिर्यदा ब्राह्मणोत्तरकुरूञ्जयेयमथ त्वमुहैव पृथि- व्यै राजा स्याः सेनापतिरेव तेऽहं स्यामिति स होवाच वासिष्ठः सात्यहव्यो देवक्षेत्रं वैतन्न वै तन्मर्त्यो जेतुमर्हत्यद्रुक्षो वै म आ त इदं दद इति ततो हात्यरातिं जानन्तपिमात्तवीर्यं निःशुक्र- मामित्रतपनः शुष्मिणः शैब्यो राजा जघान तस्मादेवंविदुषे ब्राह्मणायैवं चक्रुषे न क्षत्रियो द्रुह्येन्नेद्राष्ट्रादवपद्येयन्नेद्वा मा प्राणो जहादिति जहादिति । ( पं० ८ अ० ४ खं० २३ ) उक्तं महाभिषेकं पुरा शिष्टाचारोदाहरणेन प्रशंसति-एते- नेति । तुरो महर्षिः । सर्वतः,सर्वासु दिक्षु। समन्तं समुद्रपर्यन्तम्, जयन् । अस्य वृत्तान्तस्य वैदिकैर्यज्ञगाथा गीयते-आसन्दीति । आसन्दीवति देशविशेषे । देवेभ्यो देवतार्थम् । धान्यादं, धान्य- मत्ति तम् । रुक्मिणं ललाटगश्वेतलाञ्छनवन्तम् । हरितस्रजं हरितवर्णदेहम् । सारं,कर्मसु श्रेष्ठं यागं गच्छतीति सारङ्गः । अन- याऽभिषेकमाहात्म्यमुक्तम् । न मेति । मा माम् । मर्त्यो मनुष्यः । दिदासित्थ दातुमिच्छसि । निमङ्क्ष्ये, मज्जनं करिष्ये । मोघो व्यर्थः । आस बभूव । सङ्गरः प्रतिग्रहः । एतेन अभिषेकमहिम्ना । मरुत इति । मरुतो देवाः । परिवेष्टारः,परिवेषणकर्तारो भूत्वा अवसन् । १४

... देशविशेषे ।" Often edited as: मशणारे देशविशेषे or मष्णारे देशविशेषे or मण्णारे देशविशेषे? Wait! Look at the letter in the image again: Look at the left loop: it's a circle at the top! Wait, no, it's at the top! A circle at top-left, going down to the right, then a loop at bottom-left? That's ! Then to the right of : there is ? Wait, look at ण्ण: in मण्णारे, has a loop at top or bottom? is an open U-tube or an oval loop. Wait, look at in प्राणान् in line 17: In line 17, प्राणान्: is a loop like a circle hanging from the top line, then a vertical bar! Look at दक्षिणा in line 5-6, 8: Line 8: गोभिर्दक्षिणारूपाभिः -> look at क्षि: + , then + : is a teardrop/oval loop hanging from the top line, followed by a vertical bar! Now look at line 20 in म...रे: Does the

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । १०७ भहेति । पूर्वे पित्रादयः । अपरे पुत्रादयः । नोदापुः, न श- क्नुयुः । अत्र दृष्टान्तः-दिवमिति । हस्ताभ्यां स्प्रष्टुमशक्तः । एवं पञ्च मानवा निषादपञ्चमाश्चत्वारो वर्णाः । अभिषे- कं स्तौति-एतमिति । विद्यया महाभिषेकज्ञानेन । विद्याज्ञानेनैव फलसिद्धिं दर्शयति-एतमिति । अत्यरातिर्ब्राह्मणः । महत्, म- हत्त्वम् ऐश्वर्यं, मा, मां गुरुं, गमय प्रापय। त्वमिति। त्वमेव पृथि- व्या राजा भव । पुरोहितमभिषेककर्त्तारं न द्रुह्येदित्युक्तम्, त- दतिक्रमफलं दर्शयति । देवक्षेत्रम् उत्तरकुरवः । मे मह्यम् । अद्रुक्षो द्रोहं कृतवान् । मया याचितं महत्त्वं दातुमनिच्छुर्वञ्चनयो- त्तरकुरुजयं प्रार्थितवानसि । अतस्ते तव गुरुद्रोहिण, इदं सा- मर्थ्यम्, आददे अपहरामि । आत्तवीर्यम् अपहृतवीर्यम् । शुष्मि- णो राजा । एवंविदुषे अभिषेकज्ञाय । चकृषे कर्त्रे । अद्रोहे का- रणमाह नेदिति । नैव राष्ट्रादेशाधिपत्याद् भ्रष्टो भूयासम् । जहत् परित्यजतु । अत्र ऋग्विधानोक्तः प्रकारविशेषः । राजानमभिषिञ्चेत तिष्येण श्रवणेन वा । पौष्णसावित्रसौम्याश्विरोहिण्यामुत्तरासु च ॥ हुत्वाऽग्निं राजलिङ्गाभिः सावित्र्या प्रयतः शुचिः । महाव्याहृतिभिश्चैव सम्पाताभिर्हुतो भवेत् ॥ सर्वौषधिरसैः श्लक्ष्णैर्नदीनां सलिलेन च । व्याघ्रचर्मण्यथासीनमासन्‍द्यामभिषिञ्चयेत् ॥ तिष्ठन् प्रत्यङ्मुखो ब्रूयाज्जय त्वं पृथिवीमिमाम् । धर्मस्ते निखिलो राजन् वर्द्धतां पालय प्रजाः ॥ वर्द्धस्व च श्रियै पुष्ट्यै जयायाभ्युदयाय च । राजानः सन्तु ते गोत्रे ततो ऽप्रतिरथं जपेत् ॥

१०८ वीरमित्रोदयस्य राजनीतिप्रकाशे वैयाघ्रं तु भवेच्चर्म समिद्दौदुम्बरी भवेत् । त्रिरेतमभिषिच्यैवं दुन्दुभीनभिमन्त्रयेत् ॥ प्राच्यां तु दिशि वसवो ह्यभिषिञ्चन्तु तेजसे । दक्षिणस्यां दिशि रुद्रा अभिषिञ्चन्तु वृद्धये ॥ प्रतीच्यां दिशि त्वादित्या अभिषिञ्चन्तु पुष्टये । विश्वेदेवा उदीच्यां तु अभिषिञ्चन्तु श्रेयसे ॥ आंभाषेञ्च च राजानमाशीर्भिरभिनन्द्य च । आत्वाहार्षमन्तरेधीत्यथैनमभिमन्त्रयेत् ॥ पतङ्गमिति नित्यं तु जपेदज्ञानभेदनम् । मायाभेदनमेतद्धि सर्वमाया प्रबाध्यते ॥ आत्वाहार्षमिति षट्चस्य सूक्तस्य आङ्गिरसो ध्रुव ऋ- ‘षिरनुष्टुप्छन्दः आभाषण्तस्य राज्ञः स्तुानरूपार्थो देवता अभिमन्त्रणे विनियोगः । तदुक्तम्— आत्वा षड् ध्रुवो राज्ञः स्तुतिस्त्वानुष्टुभं त्विति । आ त्वा॑हा॒र्षम॒न्तरे॑धि ध्रु॒वस्ति॑ष्ठाविचाचलिः । विशं॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ॥ इ॒हैवैधि॒ मा प॑च्योष्ठाः पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इ॒वेह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑धारय ॥ इ॒ममिन्द्रो॑ अदीधरद् ध्रु॒वं ध्रु॒वेण॑ ह॒विषां॑ । तस्मै॒ सोमो॒ अधि॑ब्रवत्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥ ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता इ॒मे । ध्रु॒वं विश्व॑मि॒दं जग॑द् ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥ ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ ।

ऐतरेयब्राह्मणोक्तो राजाभिषेकः । १०९ ध्रु॒वन्त॒ इन्द्रे॒श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥ ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सो॒मं मृ॑शामसि । अथो॒ त इन्द्रः॒ केव॑लीर्विशो॑ ब॒लिहृत॑स्करत् ॥ आत्वेति प्रथमा । हे राजन् त्वा त्वाम्, अस्मद्राष्ट्रस्य स्वा- मित्वेनाहार्ष, स त्वमस्मासु अन्तः मध्ये, एधि स्वामी भव, ध्रुवः नित्यः सन्, आविचाचलिः चलनराहितश्च सन्, तिष्ठ राष्ट्रम- धितिष्ठ । सर्वा विशः प्रजाः। त्वा त्वाम्। वाञ्छन्तु, अयमेव सर्व- दाऽस्माकं राजाऽस्त्वितीच्छन्तु । त्वत्, त्वत्तः सकाशात् । राष्ट्रं राज्यम् । माऽधिभ्रशत्, मा भ्रश्यतु, मा वियुक्तं भवतु । इहैवेति द्वितीया । हे राजन्, इहैव अस्मिन्नेव राज्ये। एधि, सदा स्वामी भव । मा पच्योष्ठाः, अपच्युतो मा भूः । पर्वत इव चलनराहितो भव । इह राष्ट्रमुधारय, इह लोके राष्ट्रं च स्वे स्वे कर्मण्यवस्था- पय । इममिन्द्र इति तृतीया।इमम्, अभिषिक्तम् । ध्रुवेण स्थिरेण, हविषा तप्यमानं, ध्रुवं स्थिरम्, इन्द्रः अदीधरत् धारयतु । तस्मै राज्ञे, सोमो ब्रह्मणस्पतिर्मन्त्रप्रतिपालको देवश्च, अधिब्रवत्, मदी- योऽयमिति ब्रवीतु । ध्रुवा द्यौरिति चतुर्थी । यथा द्यौरादयो ध्रुवाः स्थिराः । विश्वं सर्वम् । एवं विशां प्रजानां, राजा, ध्रुवः, स्थिरो भवतु । पञ्चमी ध्रुवं त इति। हे राजन् ते तव राष्ट्रं राजा वरुणो बृहस्पत्यादयश्च धारयन्तु । षष्ठी ध्रुवमिति । वयमृत्विजो यागार्थं, ध्रुवं सोमं, ध्रुवेण, हविषा पुरोडाशादिना युक्तम्। अ- भिमृशामसि संस्पृशाम । अथो अथ, इन्द्रस्ते विशः प्रजाः, केवलीः असाधारणाः, बलिहृतः कामदात्रीः, करत् करोतु । पतङ्गमिति तृचस्य सूक्तस्य प्राजापत्यः पतङ्ग ऋषिः आद्याया जगतीच्छन्दः द्वयोस्त्रिष्टुप्छन्दः मायाभेदनं देवता