वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
६६ वीरमित्रोदयस्य राजनीतिप्रकाशे जानं शतच्छिद्रेण सौवर्णेन वेदधर्मशास्त्राभिज्ञोऽन्यो ब्राह्मणो “या ओषधीः” इति मन्त्रेण पिष्टसर्वौषध्युदकपूर्णकुम्भेन, “रथे तिष्ठन्” इति मन्त्रेण गन्धपूर्णोदककुम्भेन, “आब्रह्मन्ब्राह्मण” इति यजुषा व्रीह्यादिबीजोदकपूर्णेन, “पुष्पवती” इत्याथर्वणमन्त्रेण पुष्पपूर्णो- दककुम्भेन, तेनैव मन्त्रेण तत्कालसम्भृतफलपूर्णकुम्भेन, “आशुः शिशान” इतित्सूक्तेन सर्वरत्नपूर्णकुम्भोदकेन “ये देवाः पुरः सद” इति यजुषा कुशपञ्चपल्लवपूर्णोदककुम्भेन राजानमभिषिञ्चेत् । ततोऽन्य ऋग्वेदवित् ब्राह्मणो गोरोचनापिष्टेन “गन्धद्वाराम्” इति मन्त्रेण राज्ञो मूर्द्धानं कण्ठं च संस्पृशेत् । ततो मुख्या ब्राह्मणक्ष- त्रियवैश्यशूद्राः पतिव्रताः पुत्रवत्यो नार्यो मूर्द्धावसिक्ताद्याश्च यथासम्भवं समुद्रादिनानातीर्थाहृतैर्जलैरभिषिञ्चेयुः । शूद्राद्या- स्तूष्णीम् । तत्रामात्यमुख्याश्छत्रचामरवेत्रादीनि राजचिह्नान्यु- हरेयुः । तत्र वन्दिनश्च स्तुतिं कुर्युः । ब्राह्मणा मन्त्रघोषं, वाद- काः शङ्खभेर्यादिघोषं च कुर्युः । ततः सांवत्सरो मुख्यं सौवर्णं कलशमादाय ततो गृहीतेन कुशोदकेन “सुरास्त्वाम्” इत्या- दिभिर्विष्णुधर्मोत्तरोक्तैर्मन्त्रैरभिषिञ्चेत् । सकलमन्त्राभिषेचनान्ते अवशिष्टं कलशजलं कलशेनैव सर्वं मूर्ध्नि न्यसेत् । तथा च विष्णुधर्मोत्तरे, श्रीराम उवाच । मन्त्रेण येन दैवज्ञः कुर्याद्राज्ञोऽभिषेचनम् । तमहं श्रोतुमिच्छामि त्वत्तो वरुणनन्दन ॥ पुष्कर उवाच । शृणुष्वावहितो मन्त्रं राम कल्मषनाशनम् । येनाभिषिक्तो नृपतिश्चिरं यशसि तिष्ठति ॥ राज्ञोऽभिषेकशब्दान्ते दैववित् कुशवारिणा ।
कुर्यान्मन्त्रान्ते कलशं न्यसेत् ॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥ रुद्रो धर्मो मनुर्दक्षी रुचिः श्रद्धा तु पार्थिव । भृगुरत्रिवसिष्ठश्च सनकश्च सनन्दनः ॥ सनत्कुमारश्च तथा भगवानथ चाङ्गिराः । पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥ एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः । प्रभाकरा बर्हिषदो अग्निष्वात्तास्तथैव च ॥ क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः । एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥ लक्ष्मीर्वैदी शची
६८ वीरमित्रोदयस्य राजनीतिप्रकाशे कद्रूः क्रोधवशा प्राची विनता सुरभिस्तथा । एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ॥ पत्नी तु बहुपुत्रस्य सपुत्रा या च भामिनी । समायात्वभिषेकाय विजयाय च पार्थिव ॥ कृशाश्वपत्नी च तथा सुप्रभा तु जया तथा । सुदर्शनस्तयोः पुत्रो विजयं च ददातु ते ॥ मनोरमा भानुमती विशाला या च बाहुदा । अरिष्टनेमिपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥ कृत्तिका रोहिणी देवी इला रुद्राणिरेव च । पुनर्वसुश्च पुष्यश्च तथाऽश्लेषा च पार्थिव ॥ मघा च फाल्गुनी पूर्वा उत्तरा च क्षितीश्वर । हस्तश्चित्रा तथा स्वाती विशाखा च तथा नृप ॥ अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप । आषाढा च तथा पूर्वा तथान्या चोत्तरा द्वया ॥ अभिजिश्च तथा श्रुत्या धनिष्ठा च तथैव च । तथा शतभिषा चैव पूर्वाभाद्रपदा च या ॥ उत्तरा रेवती राजन्नश्विनी भरणी तथा । एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ॥ मृगी च मृगमन्दा¹ च श्वेता भद्रासना हरिः । पूता च कपिला दंष्ट्रा सुरसा² सरसा तथा ॥ एताः पुलस्त्यपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव । श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री तथा शुकी ॥ पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः । १ मृगचर्मा इत्यपि पाठः । २ सुरभा सुलभा इत्यपि पाठः ।
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ६९ आयतिर्नियतिश्चैव रात्रिर्निद्रा च पार्थिव ॥ एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः । उमा सेना शची चैव धूमोर्णा निर्ऋतिस्तथा ॥ गौरी शिवा च बुद्धिश्च वलया चैव नन्दना । आनृक्या च तथा ज्योत्स्ना या च देवी वनस्पतिः ॥ एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः । महाकालश्च कालश्च मन्वन्तरयुगानि च ॥ संवत्सराणि सर्वाणि तथा चैवायनद्वयम् । ऋतवश्च तथा मासाः पक्षा रात्र्यहनी तथा ॥ सन्ध्याश्च तिथयश्चैव मुहूर्त्ताः करणानि च । एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥ आदित्यश्चन्द्रमा भौमो बुधजीवासितार्कजाः । ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥ स्वायम्भुवो मनुः पूर्वो मनुः स्वारोचिषस्तथा । औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ वैवस्वतोऽथ सावर्णो दक्षब्रह्मसुतावुभौ । धर्मपुत्रो रुद्रपुत्रो रौच्यो भौसश्च यो मनुः ॥ एतं त्वांभीषंश्चन्तु मनवस्तु चतुर्दश । विश्वगुर्विश्वपश्चित्रः स्वचित्तैश्च शिखी विभुः ॥ मनोजवस्तथौजस्वी बलिरङ्गतिमान्तिकौ । वृषश्च ऋतधामा च दिविस्पृक् शुचिरेव च ॥ एते त्वामभिषिञ्चन्तु देवपालाश्चतुर्दश । रेवन्तश्च कुमारश्च तथावर्चाः कुमारकः ॥ वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः । १ सुशान्तः सुसुखी इत्यपि पाठः ।
७० वीरमित्रोदयस्य राजनीतिप्रकाशे एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ॥ नासत्यौ देवभिषजौ भवेतां विजयाय ते । धरो रुद्रश्च सोमश्च आपश्चैवानलानिलौ ॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ महाप्रभाः । एते त्वामभिषिञ्चन्तु देवमुख्याः समागताः ॥ आत्मा ह्यायुर्मनो दक्षः पटुः प्राणस्तथैव च । हविष्यश्च गविष्ठश्च कृतः सत्यश्च पार्थिव ॥ अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसो दश । क्रतुर्दक्षो वसुः सत्यः कालः कामो मुनिस्तथा ॥ धृतिमान्मनुजश्चैव रोचमानस्तथैव च । एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश ॥ अङ्गारकस्तथा शर्वो निर्ऋतिश्च तथा स्वरा । अजैकपादहिर्बुध्न्यः पुष्पकेतुस्तथा बुधः ॥ भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः । एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव ॥ भुवनो भावनश्चैव सुजन्यः सुजनस्तथा । क्रतुः सुवर्णवर्णश्च व्यजश्च व्यसुतस्तथा ॥ प्रसवश्चाव्ययश्चैव दत्तश्च मनुजाधिप । एते त्वामभिषिञ्चन्तु भृगवो नाम देवताः ॥ मनो मरुच्च प्राणश्च नरोऽपानश्च वीर्यवान् । चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा ॥ विधुश्चापि दिविश्रेष्ठस्तथान्यश्च जगद्धितः । एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव ॥ धाता मित्रोऽर्यमा पूषा शक्रोऽशो वरुणो भगः । त्वष्टा विवस्वान् सविता विष्णुर्द्वादशमः स्मृतः ॥
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७१ एते त्वामभिषिञ्चन्तु काश्यपादितिसम्भवाः । एकद्वित्रिचतुर्ज्योतिः पञ्चज्योतिस्तथैव च ॥ एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः । इन्द्रश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तथा ॥ ऋतजित्सत्यजिच्चैव सुषेणः श्येनजित्तथा । अतिमित्रस्तथा मित्रः पुरुजिच्चापराजितः ॥ ऋतश्च ऋतवान् धाता वरुणो विधृतो ध्रुवः । विधारणो महातेजा वासवस्य परः सखा ॥ ईदृगन्यहशश्चैव एतादृगमिताशनः । क्रीडनश्च तथा शक्तिः सरभश्च महायशाः ॥ धातुरुग्रो मुनिर्भीमो ह्यभिमुक्तः क्षिपः सहः । द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट् ॥ एते त्वामभिषिञ्चन्तु मरुतश्च समागताः । देवा ह्येकोनपञ्चाशन्महाबलपराक्रमाः ॥ चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् । ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान् ॥ धृतराष्ट्रश्च सोमश्च सूर्यवर्चास्तथैव च । दुराधस्तृणपः कीर्णिर्नन्दिश्चित्ररथस्तथा ॥ कलिश्चाप्याङ्गिरा राजन् पर्जन्यो नारदस्तथा । वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥ विश्वावसुस्ताम्रकश्च तथा वसुरुचिश्च यः । एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते ॥ आहूतयः शोभयन्त्यश्च वेगवत्यस्तथैव च । आच्युवत्यस्तथोजैश्च तथा वेकुरयः शुभाः ॥ बभ्रवश्चामृतरुचो सुवश्चैव रुचस्तथा ।
२ वीरमित्रोदयस्य राजनीतिप्रकाशे भीरवः शोचयन्त्यश्च दिव्या ह्यप्सरसां गणाः ॥ एतास्त्वामभिषिञ्चन्तु कामिन्यस्तरुणप्रियाः । अनुत्तमा सुरूपा च सुकेशी च मनोवती ॥ मेनका सहजन्या च पर्णाशा पुञ्जिकस्थली । क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि ॥ प्रम्लोचाथाप्यनुम्लोचा रम्भा चैवोर्वशी तथा । पञ्चचूडा सामवती चित्रलेखा च पार्थिव ॥ मिश्रकेशी सुगन्धिश्च विद्युत्पर्णा तिलोत्तमा । अदृका लक्ष्मणा क्षेमा असिता रुचिका तथा ॥ सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा । पुण्डरीका सुदारा च सुराधा सुरसा तथा ॥ हेमा सरस्वती चैव कमला सूनृताऽभया । सुमुखी हंसपादी च वारुणी रतिलालसा ॥ एतास्त्वामभिषिञ्चन्तु राजन्नप्सरसः शुभाः । प्रह्लादश्च महातेजास्तथा राजन्विरोचनः ॥ बलिर्बाणस्तथान्ये च दितिपुत्राः समागताः । अभिषिञ्चन्तु दैत्याश्च दिव्येन ह्यम्भसा स्वयम् ॥ विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः । अभिषिञ्चन्तु राजानं राज्यं कर्तुं सुसत्वराः ॥ हेत्यश्चैव प्रहेत्यश्च सलिलेन्द्रस्तथैव च । सुकेशी पौरुषेयश्च यज्ञहा पुरुषादकः ॥ विद्यत्सूर्यस्तथा व्यासो वधः श्वरसनस्तथा । एते त्वामाभिषिञ्चन्तु समागम्याथ राक्षसाः ॥ सिद्धार्थी मणिभद्रश्च सुमनो नन्दनस्तथा । कण्डूतिः पञ्चमश्चैव मणिमान् वसुमांस्तथा ॥
विष्णुधर्मोत्तरोक्ता अभिषेक मन्त्राः । ७३ सर्वानुभूतिः शङ्कुश्च पिङ्गाक्षश्चतुरस्तथा । यमो मन्दरसो भीमः पद्मचन्द्रः प्रभाकरः ॥ मेघवर्णश्च भव्यश्च प्रदोषश्च प्रभाकरः । भूतिमान् केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥ श्वेतश्च विपुलश्चैव प्रद्युम्नश्च जयावहः । पद्मपक्षो वलाकश्च कुमुदश्च बलाहकः ॥ पद्मनाभः सुगन्धश्च सुवीरो विजयः कृतिः । पुर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥ एते त्वामभिषिञ्चन्तु राजवृद्धाश्च सत्तमाः । शङ्खः पद्मश्च राजेन्द्र मकरः कच्छपस्तथा ॥ महापद्मश्च नीलश्च खर्वः कुन्दो मुकुन्दकः । एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥ छागलाश्चैकवक्त्राश्च ये च सूचीमुखा नृप । दुष्पूरणा विषादाश्च ज्वलनाङ्गारकास्तथा ॥ कुम्भमात्राः प्रतुण्डाश्च उपवीरा उलूखलाः । अकर्णाश्चक्रखण्डाश्च तथा ये पात्रपाणयः ॥ पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा । एतास्त्वामभिषिञ्चन्तु पिशाचानां तु जातयः ॥ ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाः सर्वदर्शनाः । नानाप्रकारवचना नानाबाहुशिरोधराः ॥ चतुष्पथपुराट्टालशून्यालयनिकेतनाः । त्रिपुरारिं भवं देवं ये गता मनुजेश्वर ॥ ते त्वामद्याभिषिञ्चन्तु गणा भूतपतेः स्वयम् । महाकालं पुरस्कृत्य नरसिंहं च मातरः । सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥ १०
७४ वीरमित्रोदयस्य राजनीतिप्रकाशे
ग्रहः स्कन्दो विशाखश्च नैगमेयस्तथैव च । अभिषिञ्चन्तु राजंस्त्वां सर्वे स्कन्दग्रहा इमे ॥ डाकिन्यो याश्च योगिन्यः खेचर्यो भूचरास्तथा । सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥ गरुडश्चारणश्चैव आरुणिश्च महाखगः । सम्पाती विनतश्चैव विष्णुर्गन्धकुमारकः ॥ एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते । अनन्तश्च महानागो वासुकिः शेषतक्षकौ ॥ सुपर्णारिश्च कुम्भश्च वामनोऽथाञ्जनोत्तमः । ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥ एलापत्रश्च खण्डश्च कर्कोटकधनञ्जयौ । महाकर्णो महानीलो धृतराष्ट्रबलाहकौ ॥ कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा । सोमनाथो दधिमुखः कालियः शालिंपिण्डकः ॥ बिल्वपादः पाण्डुरकनागश्चापूरणस्तथा । कपिलश्चाम्बरीषश्च कुमारश्चाप्यकच्छकः ॥ प्रह्लादः पुष्पदन्तश्च गन्धर्वश्च मनस्विकः । नहुषः खररोमा च शङ्खपालस्तथैव च ॥ पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः । नागास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥ कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः । सुप्रतीकोऽञ्जनो नीलः पान्तु त्वां सर्वतो द्विपाः ॥ पैतामहस्तथा हंसो वृषभः शाङ्करस्तथा । दुर्गासिंहश्च पान्तु त्वां यमस्य महिषासनम् ॥ उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ।
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७५ कौस्तुभः शङ्खराजश्च पान्तु त्वां सर्वतः सदा ॥ चक्रं त्रिशूलं वज्रश्च नन्दकोऽस्त्राणि चाप्यथ । सर्वे ऽभिषेकं दत्त्वा च दिशन्तु विजयं ध्रुवम् ॥ धर्मश्च व्यवसायश्च सत्यं दानं तपस्तथा । यशो यज्ञास्तथैवायुर्ब्रह्मचर्यं दमः शमः ॥ एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव । दण्डः पिङ्गलकश्चैव मृत्युः कालान्तकावुभौ ॥ वालखिल्यास्तथा सर्वे भवन्तु विजयाय ते । दिग्धेनवश्चतस्रस्त्वां सुरभिश्च तथा नृप ॥ अभिषिञ्चन्तु सर्वाभिर्गोभिस्सार्द्धं नरेश्वर । वेदव्यासश्च वाल्मीकिः शमनोऽथ पराशरः ॥ देवलः पर्वतश्चैव दुर्वासा भागुरिः शुचिः । याज्ञवल्क्यः सजावालिर्जमदग्निः शुचिश्रवाः ॥ विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्विदूरथः । एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ॥ शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः । बृहदश्वः कुविभवो जयजानुर्घटोदरः ॥ यवक्रीतोऽथ रैभ्यश्च आत्माधानश्च जैमिनिः ॥ ऋषिः सारङ्गवश्चैव तथागस्त्यो महातपाः । दुद्दुर्मुदुर्मिश्रश्चैव वृद्धबाहुर्महोदयः ॥ कात्यायनश्च कण्वश्च वलाकश्चेभनन्दनः । एते त्वामभिषिञ्चन्तु मुनयः पार्थिवोत्तम ॥ पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजिद्वली । मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः ॥ मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ॥
आयुश्च नहुषश्चैव ययातिरपराजितः ॥ इक्ष्वाकुश्च यदुश्चैव पूरुर्भूरिश्रवास्तथा । अम्बरीषश्च नाभागो बृहदश्वो महाहनुः ॥ प्रद्युम्नश्चाथ सुद्युम्नो भूरिद्युम्नश्च सृञ्जयः । एते चान्ये च राजानस्तव राजन् दिवं गताः ॥ समायान्त्वभिषेकाय विजयाय तथा श्रिये । पर्जन्याख्यास्तथा भूप मेघाः सर्वे समागताः ॥ द्रुमाश्चौषधयो रत्नं बीजानि विविधानि च । सर्वे त्वामभिषिञ्चन्तु राजराज्ये सुसत्त्वराः ॥ पुरुषश्चाप्रमेयात्मा महाभूतानि यानि च । पृथिवी वायुराकाशमापो ज्योतिस्तथैव च ॥ मनो बुद्धिस्तथैवात्मा अव्यक्तं च महीपते । एते त्वामभिषिञ्चन्तु समेता वसुधाधिप ॥ रुक्मभौमः शिलाभौमः पातालो नीलमृत्तिकः । पीतरक्तासिताश्चैव श्वेतभौमस्तथैव च ॥ एते त्वामभिषिञ्चन्तु विजयाय महीपते । भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महर्जनः ॥ तपः सत्यं च राजेन्द्र विजयाय भवन्तु ते । जम्बूः शाकः कुशः क्रौञ्चः शाल्मलिद्वीप एव च । प्लक्षश्च पुष्करश्चैव स्वस्वाम्यं प्रदिशन्तु ते ॥ उत्तराः कुरवः पुण्या रम्या हैरण्वतास्तथा । भद्राश्वः केतुमालश्च वर्षश्चैव इलावृतः ॥ हरिवर्षः किम्पुरुषो वर्षो भारतसंज्ञकः । एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप ॥ इक्षुद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।
विष्णुधर्मोत्तोरोक्ता अभिषेकमन्त्राः । ७७ नागद्वीपस्तथा सौम्यो गन्धर्वो वरुणस्तथा ॥ अयं च नवमस्तेषां स्वस्वाम्यं प्रदिशन्तु ते । हिमवान् हेमकूटश्च निषधो नील एव तु ॥ श्वेतशृङ्गो ऽगवान् मेरुर्माल्यवद्गन्धमादनौ । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ॥ विन्ध्यश्च पारियात्रश्च सर्व एव महीधराः । समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप ॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च । अथर्ववेदो वेदास्त्वामभिषिञ्चन्तु पार्थिव ॥ इतिहासो धनुर्वेदो गान्धर्वश्चायुसंज्ञितः । सप्तोपवेदाश्च तथा विजयाय भवन्तु ते ॥ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचितिषष्ठानि विजयं प्रदिशन्तु ते ॥ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्यां ह्येताश्चतुर्दश ॥ साङ्ख्यं योगः पाञ्चरात्रो वेदाः पाशुपतं तथा । कृतान्तपञ्चकं चैव शास्त्राणि विविधानि च । गायत्री पापशमनी गङ्गादेवी महाशिवा ॥ गान्धारी च तथा विद्या विजयं प्रदिशन्तु ते । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ ऋषयो मनवो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥ अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ॥ स्थानानि च समस्तानि पुण्यान्यायतनानि च ।
७८ वीरमित्रोदयस्य राजनीतिप्रकाशे जीमृतानि च सर्वाणि तद्विकाराश्च सर्वशः ॥ उक्तानि चाप्यनुक्तानि विजयाय भवन्तु ते । लवणक्षीरतोयाश्च घृतमण्डोदकास्तथा ॥ दधिमण्डोदकाश्चैव सुरोदश्च नराधिप । तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ॥ गर्भोदकश्च तोयैस्त्वामभिषिञ्चन्तु पार्थिव । चत्वारः सागराश्चैव स्वेन तोयेन पार्थिव ॥ समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते । पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ॥ तथा ब्रह्मसरः पुण्यं गयाशीर्षं तु पार्थिव । कालोदको नन्दिकुण्डस्तथैवोत्तरमानसः ॥ स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः । भृगुतीर्थं प्रभासञ्च तथैवामरकण्ठकः ॥ आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः । गोतीर्थं चाग्नितीर्थं च विमलः स्वर्ग एव तु ॥ जम्बूमार्गश्च विमलः पुण्यस्तन्दुलिकाश्रमः । कपिलस्य तथा तीर्थं तीर्थे वातिकखण्डिकौ ॥ महासरस्तथागस्त्यकुमारीतीर्थमेव तु । गङ्गाद्वारकुशावर्त्तौ बिल्वको नीलपर्वतः ॥ वाराहः पर्वतश्चैव तीर्थं कनखलं तथा । सुगन्धा च धराकुम्भा तथा शाकम्भरीति या ॥ भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमः । चमसोद्भेदकः पुण्यस्तथा विनशनं शुभम् ॥ अजतुङ्गश्च मोचश्च अश्वगन्धश्च पार्थिव । कालञ्जरः सकेदारो रुद्रकोटिस्तथैव च ॥
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । महालयश्च राजेन्द्र वदर्याश्रम एव तु । नन्दा च सोमतीर्थं च सूर्यतीर्थं शतक्रतोः ॥ अश्विनोर्वरुणस्याथ वायोर्वैश्रवणस्य तु । ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य तु ॥ विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप । ऋषीणां च वसूनां च साध्यानां मरुतां तथा ॥ आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप । विश्वेदेवभृगूणां च तथाऽन्येषां तु मानद ॥ प्लक्षप्रस्रवणश्चैव सुषुम्ना च नराधिप । शालग्रामसरश्चैव वाराहो मानसस्तथा ॥ कामाश्रमस्त्रिकूटश्च चित्रकूटस्तथैव च । सपूर्वः ऋतुसारश्च तथा विष्णुपदं सरः ॥ कापिलं च तथा तीर्थं वासुकेस्तीर्थमेव च । सिन्धूत्तमस्तपोद्वारोऽप्यथ शूर्पारकुम्भकः । पुण्डरीकश्च राजेन्द्र गङ्गासागरसङ्गमः ॥ सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः । तथा कुम्भावसुन्दश्च मानसं तु तथा सरः ॥ तथा बिन्दुसरः पुण्यं सर अच्छोदकं तथा । धर्मारण्यं फल्गुतीर्थमविमुक्तं तथैव च ॥ लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः । तीर्थं सप्तऋषीणां तु वह्नितीर्थं तु पार्थिव ॥ पुण्यवस्त्रापथो मेषच्छागलेशस्तु पार्थिव । पुष्पन्यासस्तथा चैव तीर्थं हंसपदं तथा ॥ अश्वतीर्थं च कर्णेशो मणिमन्थस्तथैव च । देविका इन्द्रमार्गश्च स्वर्णविन्दुस्तथैव च ॥
८० वीरमित्रोदयस्य राजनीतिप्रकाशे आहल्यकं तथा तीर्थं तीर्थं चैरावतं तथा । ऐरावतीसमुद्भेदे तीर्थं भोगयशःपदम् ॥ करवीराह्वयं चैव नागमो वणिकस्तथा । पापमोचनिकश्चैव ऋणमोचनिकस्तथा ॥ उद्वेजनस्तथा पुण्यः सम्पूज्यः सरसीवरः । देवब्रह्मसरः पुण्यं सर्पिर्दधि तु पार्थिव ॥ एते चान्ये तु बहवः पुण्यसङ्कीर्तनाः शुभाः । तोयैस्त्वामभिषिञ्चन्तु सर्वपातकनाशनैः ॥ गङ्गा महानदी पुण्या ह्रदिनी ह्लादिनी तथा । पावनी च तथा सीता चक्षुः सिन्धुः सुनर्मदा ॥ सुप्रभा काञ्चनाक्षी च विशाला मानसी ह्रदा । सरस्वत्योधनादा च सुवेषा विमलोदका ॥ शिप्रा शोणश्च तर्षश्च सरयूर्गण्डकी तथा । अच्छोदा च विभागा च चन्द्रभागा इरावती ॥ वितस्ता देविका रम्भा कोशी देवह्रदा शिवा । तथा चेक्षुमती पुण्या कौशिकी यमुना तथा ॥ गोमती धूतपापा च बाहुदा च सरस्वती । निर्विन्ध्या च तृतीया च लोहितश्च महानदः ॥ वेदस्मृतिर्वेदमाता वेत्रघ्नी वरदा तथा । पर्णाशा वन्दना चैव सदानीरा कुमुद्वती ॥ पीता चर्मण्वती धूमा विदर्भा वेणुमत्यपि । अवन्ती च तथा कुन्ती सुरसा च पलाशिनी ॥ मन्दाकिनी दशार्णा च सिन्धुरेखा कुमुद्वती । तपती पिप्पला श्येनी करतोया पिशाचिका ॥ चित्रोत्पला चित्रवर्णा मञ्जुला वालुकामती ।
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ८१ शुक्तिमती सिनीवाली मण्डूणी कृपिका कपूः ॥ तापी पयोष्णी निर्विन्ध्या सिता च निषधावती । वेणा वैतरणी भीमा मन्दुश च तथा कुहूः ॥ तोया चैव महागौरी दुर्गतिर्मिङ्गिला तथा । गोदावरी भीमरथी कृष्णवेणाथ बञ्जरा ॥ तुङ्गभद्रा सुप्रकारा बाह्या कावेरिरेव च । कृतमाला ताम्रपर्णी पुष्पभद्रोत्पलावती ॥ नृसमा ऋषिकुल्या च इक्षुका त्रिदिवालया । लाङ्गुलिनी वंशधरी जम्बूश्च सुकलावती ॥ ऋषिका वरवेगा च मन्दगा मन्दवाहिनी । क्षमादेवी दया व्योमा पयोष्णी कालवाहिनी ॥ कम्पनो च विशाला च करतोया युवाहिनी । ताम्रारुणा वेत्रवती सुभद्रा चाश्ववत्यपि ॥ अहिणीका इमा चैव सुप्रकारा हिरण्मयी । आपगा लोपलाभासी सन्ध्या तु वडवा नदी ॥ महेन्द्रवाणा शाला च मीलिका वलयावती । नीलोद्धतकरा चैव बाहुदा वनवासिनी ॥ नन्दा चैवोपनन्दा च वरदा च सुवासिनी । एताश्चान्याश्च राजेन्द्र नद्यस्त्वां विविधोदकाः ॥ सर्वपापप्रशमनाः सर्वलोकस्य मातरः । स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ॥ एतैर्यथोक्तैर्नृप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् । ससागरां भुङ्क्ष्व चिरं च जीव धर्मे च ते बुद्धिरतीव चास्तु ॥ इत्यभिषेकमन्त्राः । ११
८२ वीरमित्रोदयस्य राजनीतिप्रकाशे अथ विष्णुधर्मोत्तर एवैतदभिषेकमन्त्रप्रतिपाद्यदेवताती- र्थादीनां कीर्त्तननमस्कारादौ फलविशेष उक्तः । पुष्कर उवाच । मन्त्रा ये कीर्त्तिता राम मयाऽस्मिंस्तव भार्गव । तेषां सङ्कीर्त्तनं धन्यं सर्वपापप्रणाशनम् ॥ एतेषां कल्यमुत्थाय यः कुर्यात्कीर्त्तनं नरः । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ तिर्यग्योनिं न गच्छेत नरकं सङ्कटानि च । न च दुःखं न च सुखं मरणे न तु मुह्यति ॥ एतेषां च नमस्कारं यः कुर्यात्प्रयतो नरः । न तस्य तिष्ठते पापमम्बुबिन्दुरिव पुष्करे ॥ एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः । महापातकयुक्तोऽपि त्वचेवाहिर्विमुच्यते ॥ एतेषां पुष्पदानेन महतीं श्रियमश्नुते । एतेषामर्घ्यदानेन सर्वपापैर्विमुच्यते ॥ एतेषां दीपदानेन भ्राजते चन्द्रवद्दिवि । एतेषामाहुतिं दत्त्वा कामानाप्नोति पुष्कलान् ॥ नैवेद्यं च बलिं दत्त्वा भोगानाप्नोत्यनुत्तमान् । एतानुद्दिश्य विप्रेषु दत्त्वा भार्गव भोजनम् ॥ सन्तर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाच्चिरम् । अभिषेकादिने राज्ञां पुण्यस्नाने तथैव च ॥ तथा सम्वत्सरग्रन्थौ सर्वे पूज्या हितैषिणा । यानि तीर्थानि चोक्तानि सारतश्च समासतः ॥ तेषां गमेन पूयन्ते येऽपि पातकिनो जनाः ।
स्नानं महाफलं तेषां तपः श्राद्धक्रिया तथा ॥ दानं बहुफलं प्रोक्तं दर्शनं पापनाशनम् । कीर्त्तनं भार्गवश्रेष्ठ न मेऽत्रास्ति विचारणा ॥ तीर्थेष्वेतेषु भृगुप्रधान स्नाता नरा यान्ति नरेन्द्रसद्म । तीर्थानि गम्यानि ततः प्रयत्नात्पुण्याश्च सर्वास्सरितश्च राम । इति कीर्त्तनादौ फलविशेषः । ततः शुद्धोदकेन स्नातो राजा वस्त्रालङ्कारोष्णीषादि धृत्वा दर्पणे शुद्धे विलीनाज्ये च मुखं दृष्ट्वा तत्पात्रसहितं ब्राह्मणा- य दत्त्वा चन्दनकुङ्कुमादिमङ्गलद्रव्यालम्भनं कृत्वा विष्णुं राजो- पचारैरभ्यर्च्य वृतान् ब्राह्मणान् वस्त्रालङ्कारादिभिः सम्पूज्य सांवत्सरपुरोहितौ मधुपर्केणाधिकेनार्हयेत् । ततः सांवत्सरो राज्ञो ललाट उक्तलक्षणं पट्टं बध्नीयात्, मूर्ध्नि मुकुटम् । अत्र रामायणे विशेषः । विनायकब्रह्मविष्णुमहेश्वरान् ग्रहानग्निं विप्रान् देवान् पितृंश्चोद्दिश्य दक्षिणां दद्यात् । सर्वे- भ्योऽभयं च दद्यात् । आघातस्थानगान् पशून् बन्धनस्थान् गोब्राह्मणादिहन्तॄन् दारुणकर्मणश्च मोचयेत् । ततः पुरोहितो राजानं क्रमेण वृषादिचर्मास्तृते बहुमूल्यवस्त्राभरणच्छदे उत्तमे मञ्चे “ध्रुवा द्यौः” इत्युपवेशयेत् । तत्रोपविष्टाय प्रतीहार अमा- त्यान् पौरमुख्यानन्यदेशागतान् स्वदेशस्थांश्च वणिजः प्रकृती- श्च यथाक्रमं दर्शयेत् । ततो राजा ग्रामवस्त्रगजतुरगकनकगो- ऽजाविगृहदानैः सांवत्सरपुरोहितौ पूजयित्वा तद्वदेव ऋग्वेदवि- त्प्रभृतींस्त्रीन् यथाविभवमन्यांश्च सांवत्सरपुरोहितान् ब्राह्मणमु- ख्यांश्च चन्दनपुष्पान्नामोदकादिभिर्गोवस्त्रतिलरूप्यफलकाञ्चन- महीदानैः सम्पूज्य चन्दनकुङ्कुमादिभिः स्वदेहालम्भनं विधाया- ऽऽयुधानि सम्पूज्य सशरं धनुर्गृहीत्वाऽग्निं प्रदक्षिणीकृत्य गुरून्-
८४ वीरमित्रोदयस्य राजनीतिप्रकाशे मस्कृत्य वृषं सवत्सां गां च पृष्ठत आलभ्य स्वोपवेशनार्हमश्वं सांवत्सरेण सर्वौषधीयुक्तकलशोदकेन “या ओषधीः” इतिकृता- भिषेकं गन्धमाल्यादिभिरलङ्कृतं दक्षिणे कर्णे वक्ष्यमाणमन्त्रै- र्मन्त्रितं क्षणमारुह्यावतरेत् । मन्त्रास्तु— जयाश्व त्वं मया राजंस्तुरङ्गाद्य प्रतिष्ठितः । स्मराद्य लक्ष्म्याः पुत्रत्वं गन्धर्वत्वं तथा स्मर ॥ यथा नृणामयं राजा तथा त्वं भव वाजिनाम् । यथा भवन्तं नृपतिर्नित्यमेवाभिरक्षति ॥ तथा त्वं रक्ष राजानं सर्वावस्थागतं हय । दर्शयाश्व तथा स्वप्ने दैवदोषमुपागतम् ॥ तुरगान्सकलान् रक्ष त्वयि भारोऽयमर्पितः । अद्यप्रभृति राजा त्वामप्रेणाभ्येति भक्तितः ॥ अभ्यर्चयिष्यति सदा गन्धमाल्यानुलेपनैः । पूजनैश्च द्विजातीनां तथा च स्वस्तिवाचनैः ॥ रक्षतु त्वां महेन्द्रस्तु पूर्वेण त्रिदशाधिपः । दक्षिणेन यमो देवः पश्चिमेन जलाधिपः ॥ उदग्वैश्रवणो देवः सर्वे रक्षन्तु सर्वतः ॥ इति । ततो मुख्यं गजं पूर्ववदभिषिच्यालङ्कृत्य सांवत्सर आरुह्य दक्षिणे कर्णे मन्त्रयित्वावतरेत् । मन्त्रास्तु— श्रीगजस्त्वं कृतो राज्ञा भव तस्य गजाग्रणीः । गन्धमाल्याक्षभक्ष्यैस्त्वां पूजयिष्यति पार्थिवः ॥ लोकः सदाऽभयां पूजां करिष्यति यथा तव । पालनीयस्त्वया राजा युद्धेऽध्वनि तथा गृहे ॥ तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर । देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः ॥
ऐतरेयब्राह्मणोक्तो राजाभिषेकः । ८५ ऐरावणसुतः श्रीमानरिष्टो नाम वारणः । श्रीगजानां तु यत्तेजः सर्वमेवोपत्तिष्ठतु ॥ तत्तेजस्तव नागेन्द्र दिव्यभावसमन्वितम् । उपत्तिष्ठतु भद्रं ते रक्ष राजानमाहवे ॥ इति । ततो राजा तमारुह्य तत्र स्थित एव नानागजारूढैर्मुख्या- मात्यसामन्तसांवत्सरपुरोहितादिभिः सहितो राजमार्गेण धन- सञ्चयं विसृजन् स्वपुरं परिक्रम्य तद्गतदेवायतनेषु गत्वा यथा- विभवं देवान् सम्पूज्य तादृश एव स्वप्रासादमागत्य गजाद- वतीर्य सर्वसहितोऽन्तर्गृहं प्रविश्य यथोचितदानमानसत्कारैः सर्वान् सत्कृत्य यथासम्भवं ब्राह्मणान् भोजयित्वा दीनाना- थेभ्यो नटनर्तकादिभ्यश्च भूयसीं दक्षिणां दत्त्वा सर्वान् विसृज्य बन्धुभिः सार्द्धं मुदितो भुञ्जीत । तत आचम्य ताम्बूलमुखो- ऽन्तःपुरनिवासिभिः सह क्षणं विहृत्यात्मानं प्रयत्नात् रक्षेत् । ततः सदर्भायां क्षितौ ब्रह्मचर्येण स्वपेत् । इति विष्णुधर्मोत्तरोक्तमार्गेण राजाभिषेकप्रयोगः। अथैतरेयब्राह्मणोक्तः श्रौतो राजाभिषेकः समन्त्रव्याख्या- नः कथ्यते । तस्य च पुरोहितकर्त्तव्यत्वेनादौ पुरोहितप्रशंसा । अथातः पुरोधाया एव न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरोदधीत देवा मे अन्नमदन्वित्यग्नीन् वा एष स्वर्ग्यान् राजोद्धरते यत्पुरोहितं तस्य पुरोहित एवाहवनीयो भवति जाया गार्हपत्यः पुत्रो- ऽन्वाहार्यपचनः स यत्पुरोहिताय करोत्याहवनीय एव तज्जु- होत्यथ यज्जायायै करोति गार्हपत्य एव तज्जुहोत्यथ यत्पुत्राय करोत्यन्वाहार्यपचन एव तज्जुहोति त एनं शान्ततनवोऽभि- हुता अभिप्रीताः स्वर्गं लोकमभिवहन्ति क्षत्रं च बलं च राष्ट्रं च