वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 70, कुल 490 में से
संदर्भ में पढ़ें६८ वीरमित्रोदयस्य राजनीतिप्रकाशे कद्रूः क्रोधवशा प्राची विनता सुरभिस्तथा । एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ॥ पत्नी तु बहुपुत्रस्य सपुत्रा या च भामिनी । समायात्वभिषेकाय विजयाय च पार्थिव ॥ कृशाश्वपत्नी च तथा सुप्रभा तु जया तथा । सुदर्शनस्तयोः पुत्रो विजयं च ददातु ते ॥ मनोरमा भानुमती विशाला या च बाहुदा । अरिष्टनेमिपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥ कृत्तिका रोहिणी देवी इला रुद्राणिरेव च । पुनर्वसुश्च पुष्यश्च तथाऽश्लेषा च पार्थिव ॥ मघा च फाल्गुनी पूर्वा उत्तरा च क्षितीश्वर । हस्तश्चित्रा तथा स्वाती विशाखा च तथा नृप ॥ अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप । आषाढा च तथा पूर्वा तथान्या चोत्तरा द्वया ॥ अभिजिश्च तथा श्रुत्या धनिष्ठा च तथैव च । तथा शतभिषा चैव पूर्वाभाद्रपदा च या ॥ उत्तरा रेवती राजन्नश्विनी भरणी तथा । एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ॥ मृगी च मृगमन्दा¹ च श्वेता भद्रासना हरिः । पूता च कपिला दंष्ट्रा सुरसा² सरसा तथा ॥ एताः पुलस्त्यपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव । श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री तथा शुकी ॥ पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः । १ मृगचर्मा इत्यपि पाठः । २ सुरभा सुलभा इत्यपि पाठः ।