वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 69, कुल 490 में से
संदर्भ में पढ़ेंकुर्यान्मन्त्रान्ते कलशं न्यसेत् ॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥ रुद्रो धर्मो मनुर्दक्षी रुचिः श्रद्धा तु पार्थिव । भृगुरत्रिवसिष्ठश्च सनकश्च सनन्दनः ॥ सनत्कुमारश्च तथा भगवानथ चाङ्गिराः । पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥ एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः । प्रभाकरा बर्हिषदो अग्निष्वात्तास्तथैव च ॥ क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः । एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥ लक्ष्मीर्वैदी शची