वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 71, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ६९ आयतिर्नियतिश्चैव रात्रिर्निद्रा च पार्थिव ॥ एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः । उमा सेना शची चैव धूमोर्णा निर्ऋतिस्तथा ॥ गौरी शिवा च बुद्धिश्च वलया चैव नन्दना । आनृक्या च तथा ज्योत्स्ना या च देवी वनस्पतिः ॥ एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः । महाकालश्च कालश्च मन्वन्तरयुगानि च ॥ संवत्सराणि सर्वाणि तथा चैवायनद्वयम् । ऋतवश्च तथा मासाः पक्षा रात्र्यहनी तथा ॥ सन्ध्याश्च तिथयश्चैव मुहूर्त्ताः करणानि च । एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥ आदित्यश्चन्द्रमा भौमो बुधजीवासितार्कजाः । ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥ स्वायम्भुवो मनुः पूर्वो मनुः स्वारोचिषस्तथा । औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ वैवस्वतोऽथ सावर्णो दक्षब्रह्मसुतावुभौ । धर्मपुत्रो रुद्रपुत्रो रौच्यो भौसश्च यो मनुः ॥ एतं त्वांभीषंश्चन्तु मनवस्तु चतुर्दश । विश्वगुर्विश्वपश्चित्रः स्वचित्तैश्च शिखी विभुः ॥ मनोजवस्तथौजस्वी बलिरङ्गतिमान्तिकौ । वृषश्च ऋतधामा च दिविस्पृक् शुचिरेव च ॥ एते त्वामभिषिञ्चन्तु देवपालाश्चतुर्दश । रेवन्तश्च कुमारश्च तथावर्चाः कुमारकः ॥ वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः । १ सुशान्तः सुसुखी इत्यपि पाठः ।