भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 72, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 72

७० वीरमित्रोदयस्य राजनीतिप्रकाशे एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ॥ नासत्यौ देवभिषजौ भवेतां विजयाय ते । धरो रुद्रश्च सोमश्च आपश्चैवानलानिलौ ॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ महाप्रभाः । एते त्वामभिषिञ्चन्तु देवमुख्याः समागताः ॥ आत्मा ह्यायुर्मनो दक्षः पटुः प्राणस्तथैव च । हविष्यश्च गविष्ठश्च कृतः सत्यश्च पार्थिव ॥ अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसो दश । क्रतुर्दक्षो वसुः सत्यः कालः कामो मुनिस्तथा ॥ धृतिमान्मनुजश्चैव रोचमानस्तथैव च । एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश ॥ अङ्गारकस्तथा शर्वो निर्ऋतिश्च तथा स्वरा । अजैकपादहिर्बुध्न्यः पुष्पकेतुस्तथा बुधः ॥ भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः । एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव ॥ भुवनो भावनश्चैव सुजन्यः सुजनस्तथा । क्रतुः सुवर्णवर्णश्च व्यजश्च व्यसुतस्तथा ॥ प्रसवश्चाव्ययश्चैव दत्तश्च मनुजाधिप । एते त्वामभिषिञ्चन्तु भृगवो नाम देवताः ॥ मनो मरुच्च प्राणश्च नरोऽपानश्च वीर्यवान् । चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा ॥ विधुश्चापि दिविश्रेष्ठस्तथान्यश्च जगद्धितः । एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव ॥ धाता मित्रोऽर्यमा पूषा शक्रोऽशो वरुणो भगः । त्वष्टा विवस्वान् सविता विष्णुर्द्वादशमः स्मृतः ॥