वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 73, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७१ एते त्वामभिषिञ्चन्तु काश्यपादितिसम्भवाः । एकद्वित्रिचतुर्ज्योतिः पञ्चज्योतिस्तथैव च ॥ एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः । इन्द्रश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तथा ॥ ऋतजित्सत्यजिच्चैव सुषेणः श्येनजित्तथा । अतिमित्रस्तथा मित्रः पुरुजिच्चापराजितः ॥ ऋतश्च ऋतवान् धाता वरुणो विधृतो ध्रुवः । विधारणो महातेजा वासवस्य परः सखा ॥ ईदृगन्यहशश्चैव एतादृगमिताशनः । क्रीडनश्च तथा शक्तिः सरभश्च महायशाः ॥ धातुरुग्रो मुनिर्भीमो ह्यभिमुक्तः क्षिपः सहः । द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट् ॥ एते त्वामभिषिञ्चन्तु मरुतश्च समागताः । देवा ह्येकोनपञ्चाशन्महाबलपराक्रमाः ॥ चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् । ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान् ॥ धृतराष्ट्रश्च सोमश्च सूर्यवर्चास्तथैव च । दुराधस्तृणपः कीर्णिर्नन्दिश्चित्ररथस्तथा ॥ कलिश्चाप्याङ्गिरा राजन् पर्जन्यो नारदस्तथा । वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥ विश्वावसुस्ताम्रकश्च तथा वसुरुचिश्च यः । एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते ॥ आहूतयः शोभयन्त्यश्च वेगवत्यस्तथैव च । आच्युवत्यस्तथोजैश्च तथा वेकुरयः शुभाः ॥ बभ्रवश्चामृतरुचो सुवश्चैव रुचस्तथा ।