वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७१ एते त्वामभिषिञ्चन्तु काश्यपादितिसम्भवाः । एकद्वित्रिचतुर्ज्योतिः पञ्चज्योतिस्तथैव च ॥ एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः । इन्द्रश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तथा ॥ ऋतजित्सत्यजिच्चैव सुषेणः श्येनजित्तथा । अतिमित्रस्तथा मित्रः पुरुजिच्चापराजितः ॥ ऋतश्च ऋतवान् धाता वरुणो विधृतो ध्रुवः । विधारणो महातेजा वासवस्य परः सखा ॥ ईदृगन्यहशश्चैव एतादृगमिताशनः । क्रीडनश्च तथा शक्तिः सरभश्च महायशाः ॥ धातुरुग्रो मुनिर्भीमो ह्यभिमुक्तः क्षिपः सहः । द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट् ॥ एते त्वामभिषिञ्चन्तु मरुतश्च समागताः । देवा ह्येकोनपञ्चाशन्महाबलपराक्रमाः ॥ चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् । ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान् ॥ धृतराष्ट्रश्च सोमश्च सूर्यवर्चास्तथैव च । दुराधस्तृणपः कीर्णिर्नन्दिश्चित्ररथस्तथा ॥ कलिश्चाप्याङ्गिरा राजन् पर्जन्यो नारदस्तथा । वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥ विश्वावसुस्ताम्रकश्च तथा वसुरुचिश्च यः । एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते ॥ आहूतयः शोभयन्त्यश्च वेगवत्यस्तथैव च । आच्युवत्यस्तथोजैश्च तथा वेकुरयः शुभाः ॥ बभ्रवश्चामृतरुचो सुवश्चैव रुचस्तथा ।
२ वीरमित्रोदयस्य राजनीतिप्रकाशे भीरवः शोचयन्त्यश्च दिव्या ह्यप्सरसां गणाः ॥ एतास्त्वामभिषिञ्चन्तु कामिन्यस्तरुणप्रियाः । अनुत्तमा सुरूपा च सुकेशी च मनोवती ॥ मेनका सहजन्या च पर्णाशा पुञ्जिकस्थली । क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि ॥ प्रम्लोचाथाप्यनुम्लोचा रम्भा चैवोर्वशी तथा । पञ्चचूडा सामवती चित्रलेखा च पार्थिव ॥ मिश्रकेशी सुगन्धिश्च विद्युत्पर्णा तिलोत्तमा । अदृका लक्ष्मणा क्षेमा असिता रुचिका तथा ॥ सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा । पुण्डरीका सुदारा च सुराधा सुरसा तथा ॥ हेमा सरस्वती चैव कमला सूनृताऽभया । सुमुखी हंसपादी च वारुणी रतिलालसा ॥ एतास्त्वामभिषिञ्चन्तु राजन्नप्सरसः शुभाः । प्रह्लादश्च महातेजास्तथा राजन्विरोचनः ॥ बलिर्बाणस्तथान्ये च दितिपुत्राः समागताः । अभिषिञ्चन्तु दैत्याश्च दिव्येन ह्यम्भसा स्वयम् ॥ विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः । अभिषिञ्चन्तु राजानं राज्यं कर्तुं सुसत्वराः ॥ हेत्यश्चैव प्रहेत्यश्च सलिलेन्द्रस्तथैव च । सुकेशी पौरुषेयश्च यज्ञहा पुरुषादकः ॥ विद्यत्सूर्यस्तथा व्यासो वधः श्वरसनस्तथा । एते त्वामाभिषिञ्चन्तु समागम्याथ राक्षसाः ॥ सिद्धार्थी मणिभद्रश्च सुमनो नन्दनस्तथा । कण्डूतिः पञ्चमश्चैव मणिमान् वसुमांस्तथा ॥
विष्णुधर्मोत्तरोक्ता अभिषेक मन्त्राः । ७३ सर्वानुभूतिः शङ्कुश्च पिङ्गाक्षश्चतुरस्तथा । यमो मन्दरसो भीमः पद्मचन्द्रः प्रभाकरः ॥ मेघवर्णश्च भव्यश्च प्रदोषश्च प्रभाकरः । भूतिमान् केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥ श्वेतश्च विपुलश्चैव प्रद्युम्नश्च जयावहः । पद्मपक्षो वलाकश्च कुमुदश्च बलाहकः ॥ पद्मनाभः सुगन्धश्च सुवीरो विजयः कृतिः । पुर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥ एते त्वामभिषिञ्चन्तु राजवृद्धाश्च सत्तमाः । शङ्खः पद्मश्च राजेन्द्र मकरः कच्छपस्तथा ॥ महापद्मश्च नीलश्च खर्वः कुन्दो मुकुन्दकः । एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥ छागलाश्चैकवक्त्राश्च ये च सूचीमुखा नृप । दुष्पूरणा विषादाश्च ज्वलनाङ्गारकास्तथा ॥ कुम्भमात्राः प्रतुण्डाश्च उपवीरा उलूखलाः । अकर्णाश्चक्रखण्डाश्च तथा ये पात्रपाणयः ॥ पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा । एतास्त्वामभिषिञ्चन्तु पिशाचानां तु जातयः ॥ ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाः सर्वदर्शनाः । नानाप्रकारवचना नानाबाहुशिरोधराः ॥ चतुष्पथपुराट्टालशून्यालयनिकेतनाः । त्रिपुरारिं भवं देवं ये गता मनुजेश्वर ॥ ते त्वामद्याभिषिञ्चन्तु गणा भूतपतेः स्वयम् । महाकालं पुरस्कृत्य नरसिंहं च मातरः । सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥ १०
७४ वीरमित्रोदयस्य राजनीतिप्रकाशे
ग्रहः स्कन्दो विशाखश्च नैगमेयस्तथैव च । अभिषिञ्चन्तु राजंस्त्वां सर्वे स्कन्दग्रहा इमे ॥ डाकिन्यो याश्च योगिन्यः खेचर्यो भूचरास्तथा । सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥ गरुडश्चारणश्चैव आरुणिश्च महाखगः । सम्पाती विनतश्चैव विष्णुर्गन्धकुमारकः ॥ एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते । अनन्तश्च महानागो वासुकिः शेषतक्षकौ ॥ सुपर्णारिश्च कुम्भश्च वामनोऽथाञ्जनोत्तमः । ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥ एलापत्रश्च खण्डश्च कर्कोटकधनञ्जयौ । महाकर्णो महानीलो धृतराष्ट्रबलाहकौ ॥ कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा । सोमनाथो दधिमुखः कालियः शालिंपिण्डकः ॥ बिल्वपादः पाण्डुरकनागश्चापूरणस्तथा । कपिलश्चाम्बरीषश्च कुमारश्चाप्यकच्छकः ॥ प्रह्लादः पुष्पदन्तश्च गन्धर्वश्च मनस्विकः । नहुषः खररोमा च शङ्खपालस्तथैव च ॥ पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः । नागास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥ कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः । सुप्रतीकोऽञ्जनो नीलः पान्तु त्वां सर्वतो द्विपाः ॥ पैतामहस्तथा हंसो वृषभः शाङ्करस्तथा । दुर्गासिंहश्च पान्तु त्वां यमस्य महिषासनम् ॥ उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ।
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७५ कौस्तुभः शङ्खराजश्च पान्तु त्वां सर्वतः सदा ॥ चक्रं त्रिशूलं वज्रश्च नन्दकोऽस्त्राणि चाप्यथ । सर्वे ऽभिषेकं दत्त्वा च दिशन्तु विजयं ध्रुवम् ॥ धर्मश्च व्यवसायश्च सत्यं दानं तपस्तथा । यशो यज्ञास्तथैवायुर्ब्रह्मचर्यं दमः शमः ॥ एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव । दण्डः पिङ्गलकश्चैव मृत्युः कालान्तकावुभौ ॥ वालखिल्यास्तथा सर्वे भवन्तु विजयाय ते । दिग्धेनवश्चतस्रस्त्वां सुरभिश्च तथा नृप ॥ अभिषिञ्चन्तु सर्वाभिर्गोभिस्सार्द्धं नरेश्वर । वेदव्यासश्च वाल्मीकिः शमनोऽथ पराशरः ॥ देवलः पर्वतश्चैव दुर्वासा भागुरिः शुचिः । याज्ञवल्क्यः सजावालिर्जमदग्निः शुचिश्रवाः ॥ विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्विदूरथः । एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ॥ शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः । बृहदश्वः कुविभवो जयजानुर्घटोदरः ॥ यवक्रीतोऽथ रैभ्यश्च आत्माधानश्च जैमिनिः ॥ ऋषिः सारङ्गवश्चैव तथागस्त्यो महातपाः । दुद्दुर्मुदुर्मिश्रश्चैव वृद्धबाहुर्महोदयः ॥ कात्यायनश्च कण्वश्च वलाकश्चेभनन्दनः । एते त्वामभिषिञ्चन्तु मुनयः पार्थिवोत्तम ॥ पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजिद्वली । मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः ॥ मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ॥
आयुश्च नहुषश्चैव ययातिरपराजितः ॥ इक्ष्वाकुश्च यदुश्चैव पूरुर्भूरिश्रवास्तथा । अम्बरीषश्च नाभागो बृहदश्वो महाहनुः ॥ प्रद्युम्नश्चाथ सुद्युम्नो भूरिद्युम्नश्च सृञ्जयः । एते चान्ये च राजानस्तव राजन् दिवं गताः ॥ समायान्त्वभिषेकाय विजयाय तथा श्रिये । पर्जन्याख्यास्तथा भूप मेघाः सर्वे समागताः ॥ द्रुमाश्चौषधयो रत्नं बीजानि विविधानि च । सर्वे त्वामभिषिञ्चन्तु राजराज्ये सुसत्त्वराः ॥ पुरुषश्चाप्रमेयात्मा महाभूतानि यानि च । पृथिवी वायुराकाशमापो ज्योतिस्तथैव च ॥ मनो बुद्धिस्तथैवात्मा अव्यक्तं च महीपते । एते त्वामभिषिञ्चन्तु समेता वसुधाधिप ॥ रुक्मभौमः शिलाभौमः पातालो नीलमृत्तिकः । पीतरक्तासिताश्चैव श्वेतभौमस्तथैव च ॥ एते त्वामभिषिञ्चन्तु विजयाय महीपते । भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महर्जनः ॥ तपः सत्यं च राजेन्द्र विजयाय भवन्तु ते । जम्बूः शाकः कुशः क्रौञ्चः शाल्मलिद्वीप एव च । प्लक्षश्च पुष्करश्चैव स्वस्वाम्यं प्रदिशन्तु ते ॥ उत्तराः कुरवः पुण्या रम्या हैरण्वतास्तथा । भद्राश्वः केतुमालश्च वर्षश्चैव इलावृतः ॥ हरिवर्षः किम्पुरुषो वर्षो भारतसंज्ञकः । एते त्वामभिषिञ्चन्तु समेत्य वसुधाधिप ॥ इक्षुद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।
विष्णुधर्मोत्तोरोक्ता अभिषेकमन्त्राः । ७७ नागद्वीपस्तथा सौम्यो गन्धर्वो वरुणस्तथा ॥ अयं च नवमस्तेषां स्वस्वाम्यं प्रदिशन्तु ते । हिमवान् हेमकूटश्च निषधो नील एव तु ॥ श्वेतशृङ्गो ऽगवान् मेरुर्माल्यवद्गन्धमादनौ । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ॥ विन्ध्यश्च पारियात्रश्च सर्व एव महीधराः । समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप ॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च । अथर्ववेदो वेदास्त्वामभिषिञ्चन्तु पार्थिव ॥ इतिहासो धनुर्वेदो गान्धर्वश्चायुसंज्ञितः । सप्तोपवेदाश्च तथा विजयाय भवन्तु ते ॥ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचितिषष्ठानि विजयं प्रदिशन्तु ते ॥ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्यां ह्येताश्चतुर्दश ॥ साङ्ख्यं योगः पाञ्चरात्रो वेदाः पाशुपतं तथा । कृतान्तपञ्चकं चैव शास्त्राणि विविधानि च । गायत्री पापशमनी गङ्गादेवी महाशिवा ॥ गान्धारी च तथा विद्या विजयं प्रदिशन्तु ते । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ ऋषयो मनवो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥ अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ॥ स्थानानि च समस्तानि पुण्यान्यायतनानि च ।
७८ वीरमित्रोदयस्य राजनीतिप्रकाशे जीमृतानि च सर्वाणि तद्विकाराश्च सर्वशः ॥ उक्तानि चाप्यनुक्तानि विजयाय भवन्तु ते । लवणक्षीरतोयाश्च घृतमण्डोदकास्तथा ॥ दधिमण्डोदकाश्चैव सुरोदश्च नराधिप । तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ॥ गर्भोदकश्च तोयैस्त्वामभिषिञ्चन्तु पार्थिव । चत्वारः सागराश्चैव स्वेन तोयेन पार्थिव ॥ समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते । पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ॥ तथा ब्रह्मसरः पुण्यं गयाशीर्षं तु पार्थिव । कालोदको नन्दिकुण्डस्तथैवोत्तरमानसः ॥ स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः । भृगुतीर्थं प्रभासञ्च तथैवामरकण्ठकः ॥ आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः । गोतीर्थं चाग्नितीर्थं च विमलः स्वर्ग एव तु ॥ जम्बूमार्गश्च विमलः पुण्यस्तन्दुलिकाश्रमः । कपिलस्य तथा तीर्थं तीर्थे वातिकखण्डिकौ ॥ महासरस्तथागस्त्यकुमारीतीर्थमेव तु । गङ्गाद्वारकुशावर्त्तौ बिल्वको नीलपर्वतः ॥ वाराहः पर्वतश्चैव तीर्थं कनखलं तथा । सुगन्धा च धराकुम्भा तथा शाकम्भरीति या ॥ भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमः । चमसोद्भेदकः पुण्यस्तथा विनशनं शुभम् ॥ अजतुङ्गश्च मोचश्च अश्वगन्धश्च पार्थिव । कालञ्जरः सकेदारो रुद्रकोटिस्तथैव च ॥
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । महालयश्च राजेन्द्र वदर्याश्रम एव तु । नन्दा च सोमतीर्थं च सूर्यतीर्थं शतक्रतोः ॥ अश्विनोर्वरुणस्याथ वायोर्वैश्रवणस्य तु । ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य तु ॥ विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप । ऋषीणां च वसूनां च साध्यानां मरुतां तथा ॥ आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप । विश्वेदेवभृगूणां च तथाऽन्येषां तु मानद ॥ प्लक्षप्रस्रवणश्चैव सुषुम्ना च नराधिप । शालग्रामसरश्चैव वाराहो मानसस्तथा ॥ कामाश्रमस्त्रिकूटश्च चित्रकूटस्तथैव च । सपूर्वः ऋतुसारश्च तथा विष्णुपदं सरः ॥ कापिलं च तथा तीर्थं वासुकेस्तीर्थमेव च । सिन्धूत्तमस्तपोद्वारोऽप्यथ शूर्पारकुम्भकः । पुण्डरीकश्च राजेन्द्र गङ्गासागरसङ्गमः ॥ सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः । तथा कुम्भावसुन्दश्च मानसं तु तथा सरः ॥ तथा बिन्दुसरः पुण्यं सर अच्छोदकं तथा । धर्मारण्यं फल्गुतीर्थमविमुक्तं तथैव च ॥ लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः । तीर्थं सप्तऋषीणां तु वह्नितीर्थं तु पार्थिव ॥ पुण्यवस्त्रापथो मेषच्छागलेशस्तु पार्थिव । पुष्पन्यासस्तथा चैव तीर्थं हंसपदं तथा ॥ अश्वतीर्थं च कर्णेशो मणिमन्थस्तथैव च । देविका इन्द्रमार्गश्च स्वर्णविन्दुस्तथैव च ॥
८० वीरमित्रोदयस्य राजनीतिप्रकाशे आहल्यकं तथा तीर्थं तीर्थं चैरावतं तथा । ऐरावतीसमुद्भेदे तीर्थं भोगयशःपदम् ॥ करवीराह्वयं चैव नागमो वणिकस्तथा । पापमोचनिकश्चैव ऋणमोचनिकस्तथा ॥ उद्वेजनस्तथा पुण्यः सम्पूज्यः सरसीवरः । देवब्रह्मसरः पुण्यं सर्पिर्दधि तु पार्थिव ॥ एते चान्ये तु बहवः पुण्यसङ्कीर्तनाः शुभाः । तोयैस्त्वामभिषिञ्चन्तु सर्वपातकनाशनैः ॥ गङ्गा महानदी पुण्या ह्रदिनी ह्लादिनी तथा । पावनी च तथा सीता चक्षुः सिन्धुः सुनर्मदा ॥ सुप्रभा काञ्चनाक्षी च विशाला मानसी ह्रदा । सरस्वत्योधनादा च सुवेषा विमलोदका ॥ शिप्रा शोणश्च तर्षश्च सरयूर्गण्डकी तथा । अच्छोदा च विभागा च चन्द्रभागा इरावती ॥ वितस्ता देविका रम्भा कोशी देवह्रदा शिवा । तथा चेक्षुमती पुण्या कौशिकी यमुना तथा ॥ गोमती धूतपापा च बाहुदा च सरस्वती । निर्विन्ध्या च तृतीया च लोहितश्च महानदः ॥ वेदस्मृतिर्वेदमाता वेत्रघ्नी वरदा तथा । पर्णाशा वन्दना चैव सदानीरा कुमुद्वती ॥ पीता चर्मण्वती धूमा विदर्भा वेणुमत्यपि । अवन्ती च तथा कुन्ती सुरसा च पलाशिनी ॥ मन्दाकिनी दशार्णा च सिन्धुरेखा कुमुद्वती । तपती पिप्पला श्येनी करतोया पिशाचिका ॥ चित्रोत्पला चित्रवर्णा मञ्जुला वालुकामती ।
विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ८१ शुक्तिमती सिनीवाली मण्डूणी कृपिका कपूः ॥ तापी पयोष्णी निर्विन्ध्या सिता च निषधावती । वेणा वैतरणी भीमा मन्दुश च तथा कुहूः ॥ तोया चैव महागौरी दुर्गतिर्मिङ्गिला तथा । गोदावरी भीमरथी कृष्णवेणाथ बञ्जरा ॥ तुङ्गभद्रा सुप्रकारा बाह्या कावेरिरेव च । कृतमाला ताम्रपर्णी पुष्पभद्रोत्पलावती ॥ नृसमा ऋषिकुल्या च इक्षुका त्रिदिवालया । लाङ्गुलिनी वंशधरी जम्बूश्च सुकलावती ॥ ऋषिका वरवेगा च मन्दगा मन्दवाहिनी । क्षमादेवी दया व्योमा पयोष्णी कालवाहिनी ॥ कम्पनो च विशाला च करतोया युवाहिनी । ताम्रारुणा वेत्रवती सुभद्रा चाश्ववत्यपि ॥ अहिणीका इमा चैव सुप्रकारा हिरण्मयी । आपगा लोपलाभासी सन्ध्या तु वडवा नदी ॥ महेन्द्रवाणा शाला च मीलिका वलयावती । नीलोद्धतकरा चैव बाहुदा वनवासिनी ॥ नन्दा चैवोपनन्दा च वरदा च सुवासिनी । एताश्चान्याश्च राजेन्द्र नद्यस्त्वां विविधोदकाः ॥ सर्वपापप्रशमनाः सर्वलोकस्य मातरः । स्वतोयपूर्णैः कलशैरभिषिञ्चन्तु पार्थिव ॥ एतैर्यथोक्तैर्नृप राजराज्ये दत्ताभिषेकः पृथिवीं समग्राम् । ससागरां भुङ्क्ष्व चिरं च जीव धर्मे च ते बुद्धिरतीव चास्तु ॥ इत्यभिषेकमन्त्राः । ११
८२ वीरमित्रोदयस्य राजनीतिप्रकाशे अथ विष्णुधर्मोत्तर एवैतदभिषेकमन्त्रप्रतिपाद्यदेवताती- र्थादीनां कीर्त्तननमस्कारादौ फलविशेष उक्तः । पुष्कर उवाच । मन्त्रा ये कीर्त्तिता राम मयाऽस्मिंस्तव भार्गव । तेषां सङ्कीर्त्तनं धन्यं सर्वपापप्रणाशनम् ॥ एतेषां कल्यमुत्थाय यः कुर्यात्कीर्त्तनं नरः । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ तिर्यग्योनिं न गच्छेत नरकं सङ्कटानि च । न च दुःखं न च सुखं मरणे न तु मुह्यति ॥ एतेषां च नमस्कारं यः कुर्यात्प्रयतो नरः । न तस्य तिष्ठते पापमम्बुबिन्दुरिव पुष्करे ॥ एतेषां तर्पणं कृत्वा स्नातः प्रयतमानसः । महापातकयुक्तोऽपि त्वचेवाहिर्विमुच्यते ॥ एतेषां पुष्पदानेन महतीं श्रियमश्नुते । एतेषामर्घ्यदानेन सर्वपापैर्विमुच्यते ॥ एतेषां दीपदानेन भ्राजते चन्द्रवद्दिवि । एतेषामाहुतिं दत्त्वा कामानाप्नोति पुष्कलान् ॥ नैवेद्यं च बलिं दत्त्वा भोगानाप्नोत्यनुत्तमान् । एतानुद्दिश्य विप्रेषु दत्त्वा भार्गव भोजनम् ॥ सन्तर्प्य दक्षिणाभिश्च त्रिदिवं प्राप्नुयाच्चिरम् । अभिषेकादिने राज्ञां पुण्यस्नाने तथैव च ॥ तथा सम्वत्सरग्रन्थौ सर्वे पूज्या हितैषिणा । यानि तीर्थानि चोक्तानि सारतश्च समासतः ॥ तेषां गमेन पूयन्ते येऽपि पातकिनो जनाः ।
स्नानं महाफलं तेषां तपः श्राद्धक्रिया तथा ॥ दानं बहुफलं प्रोक्तं दर्शनं पापनाशनम् । कीर्त्तनं भार्गवश्रेष्ठ न मेऽत्रास्ति विचारणा ॥ तीर्थेष्वेतेषु भृगुप्रधान स्नाता नरा यान्ति नरेन्द्रसद्म । तीर्थानि गम्यानि ततः प्रयत्नात्पुण्याश्च सर्वास्सरितश्च राम । इति कीर्त्तनादौ फलविशेषः । ततः शुद्धोदकेन स्नातो राजा वस्त्रालङ्कारोष्णीषादि धृत्वा दर्पणे शुद्धे विलीनाज्ये च मुखं दृष्ट्वा तत्पात्रसहितं ब्राह्मणा- य दत्त्वा चन्दनकुङ्कुमादिमङ्गलद्रव्यालम्भनं कृत्वा विष्णुं राजो- पचारैरभ्यर्च्य वृतान् ब्राह्मणान् वस्त्रालङ्कारादिभिः सम्पूज्य सांवत्सरपुरोहितौ मधुपर्केणाधिकेनार्हयेत् । ततः सांवत्सरो राज्ञो ललाट उक्तलक्षणं पट्टं बध्नीयात्, मूर्ध्नि मुकुटम् । अत्र रामायणे विशेषः । विनायकब्रह्मविष्णुमहेश्वरान् ग्रहानग्निं विप्रान् देवान् पितृंश्चोद्दिश्य दक्षिणां दद्यात् । सर्वे- भ्योऽभयं च दद्यात् । आघातस्थानगान् पशून् बन्धनस्थान् गोब्राह्मणादिहन्तॄन् दारुणकर्मणश्च मोचयेत् । ततः पुरोहितो राजानं क्रमेण वृषादिचर्मास्तृते बहुमूल्यवस्त्राभरणच्छदे उत्तमे मञ्चे “ध्रुवा द्यौः” इत्युपवेशयेत् । तत्रोपविष्टाय प्रतीहार अमा- त्यान् पौरमुख्यानन्यदेशागतान् स्वदेशस्थांश्च वणिजः प्रकृती- श्च यथाक्रमं दर्शयेत् । ततो राजा ग्रामवस्त्रगजतुरगकनकगो- ऽजाविगृहदानैः सांवत्सरपुरोहितौ पूजयित्वा तद्वदेव ऋग्वेदवि- त्प्रभृतींस्त्रीन् यथाविभवमन्यांश्च सांवत्सरपुरोहितान् ब्राह्मणमु- ख्यांश्च चन्दनपुष्पान्नामोदकादिभिर्गोवस्त्रतिलरूप्यफलकाञ्चन- महीदानैः सम्पूज्य चन्दनकुङ्कुमादिभिः स्वदेहालम्भनं विधाया- ऽऽयुधानि सम्पूज्य सशरं धनुर्गृहीत्वाऽग्निं प्रदक्षिणीकृत्य गुरून्-
८४ वीरमित्रोदयस्य राजनीतिप्रकाशे मस्कृत्य वृषं सवत्सां गां च पृष्ठत आलभ्य स्वोपवेशनार्हमश्वं सांवत्सरेण सर्वौषधीयुक्तकलशोदकेन “या ओषधीः” इतिकृता- भिषेकं गन्धमाल्यादिभिरलङ्कृतं दक्षिणे कर्णे वक्ष्यमाणमन्त्रै- र्मन्त्रितं क्षणमारुह्यावतरेत् । मन्त्रास्तु— जयाश्व त्वं मया राजंस्तुरङ्गाद्य प्रतिष्ठितः । स्मराद्य लक्ष्म्याः पुत्रत्वं गन्धर्वत्वं तथा स्मर ॥ यथा नृणामयं राजा तथा त्वं भव वाजिनाम् । यथा भवन्तं नृपतिर्नित्यमेवाभिरक्षति ॥ तथा त्वं रक्ष राजानं सर्वावस्थागतं हय । दर्शयाश्व तथा स्वप्ने दैवदोषमुपागतम् ॥ तुरगान्सकलान् रक्ष त्वयि भारोऽयमर्पितः । अद्यप्रभृति राजा त्वामप्रेणाभ्येति भक्तितः ॥ अभ्यर्चयिष्यति सदा गन्धमाल्यानुलेपनैः । पूजनैश्च द्विजातीनां तथा च स्वस्तिवाचनैः ॥ रक्षतु त्वां महेन्द्रस्तु पूर्वेण त्रिदशाधिपः । दक्षिणेन यमो देवः पश्चिमेन जलाधिपः ॥ उदग्वैश्रवणो देवः सर्वे रक्षन्तु सर्वतः ॥ इति । ततो मुख्यं गजं पूर्ववदभिषिच्यालङ्कृत्य सांवत्सर आरुह्य दक्षिणे कर्णे मन्त्रयित्वावतरेत् । मन्त्रास्तु— श्रीगजस्त्वं कृतो राज्ञा भव तस्य गजाग्रणीः । गन्धमाल्याक्षभक्ष्यैस्त्वां पूजयिष्यति पार्थिवः ॥ लोकः सदाऽभयां पूजां करिष्यति यथा तव । पालनीयस्त्वया राजा युद्धेऽध्वनि तथा गृहे ॥ तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर । देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः ॥
ऐतरेयब्राह्मणोक्तो राजाभिषेकः । ८५ ऐरावणसुतः श्रीमानरिष्टो नाम वारणः । श्रीगजानां तु यत्तेजः सर्वमेवोपत्तिष्ठतु ॥ तत्तेजस्तव नागेन्द्र दिव्यभावसमन्वितम् । उपत्तिष्ठतु भद्रं ते रक्ष राजानमाहवे ॥ इति । ततो राजा तमारुह्य तत्र स्थित एव नानागजारूढैर्मुख्या- मात्यसामन्तसांवत्सरपुरोहितादिभिः सहितो राजमार्गेण धन- सञ्चयं विसृजन् स्वपुरं परिक्रम्य तद्गतदेवायतनेषु गत्वा यथा- विभवं देवान् सम्पूज्य तादृश एव स्वप्रासादमागत्य गजाद- वतीर्य सर्वसहितोऽन्तर्गृहं प्रविश्य यथोचितदानमानसत्कारैः सर्वान् सत्कृत्य यथासम्भवं ब्राह्मणान् भोजयित्वा दीनाना- थेभ्यो नटनर्तकादिभ्यश्च भूयसीं दक्षिणां दत्त्वा सर्वान् विसृज्य बन्धुभिः सार्द्धं मुदितो भुञ्जीत । तत आचम्य ताम्बूलमुखो- ऽन्तःपुरनिवासिभिः सह क्षणं विहृत्यात्मानं प्रयत्नात् रक्षेत् । ततः सदर्भायां क्षितौ ब्रह्मचर्येण स्वपेत् । इति विष्णुधर्मोत्तरोक्तमार्गेण राजाभिषेकप्रयोगः। अथैतरेयब्राह्मणोक्तः श्रौतो राजाभिषेकः समन्त्रव्याख्या- नः कथ्यते । तस्य च पुरोहितकर्त्तव्यत्वेनादौ पुरोहितप्रशंसा । अथातः पुरोधाया एव न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरोदधीत देवा मे अन्नमदन्वित्यग्नीन् वा एष स्वर्ग्यान् राजोद्धरते यत्पुरोहितं तस्य पुरोहित एवाहवनीयो भवति जाया गार्हपत्यः पुत्रो- ऽन्वाहार्यपचनः स यत्पुरोहिताय करोत्याहवनीय एव तज्जु- होत्यथ यज्जायायै करोति गार्हपत्य एव तज्जुहोत्यथ यत्पुत्राय करोत्यन्वाहार्यपचन एव तज्जुहोति त एनं शान्ततनवोऽभि- हुता अभिप्रीताः स्वर्गं लोकमभिवहन्ति क्षत्रं च बलं च राष्ट्रं च
८६ वीरमित्रोदयस्य राजनीतिप्रकाशे
विशं च त एवैनमशान्ततनवोऽनभिहुता अनभिप्रीताः स्वर्गा- ल्लोकान्नुदन्ते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्चाग्निर्वा एष वैश्वानरः पञ्चमेनिर्य॑त्पुरोहितस्तस्य वाच्येवैका मेनिर्भवति पाद- योरेका त्वच्येका हृदय एकोपस्थ एका ताभिर्ज्वलन्तीभिर्दीप्य- मानाभिरुपोदेति राजानं स यदाह क्व भगवोऽवात्सीस्तृणा- न्यस्मा आहरतेति तेनास्य तां शमयति यास्य वाचि मेनिर्भव- त्यथ यदस्मा उदकमानयन्ति पाद्यं तेनास्य तां शमयति यास्य पादयोर्मेनिर्भवत्यथ यदेनमलङ्कुर्वन्ति तेनास्य तां शमयति यास्य त्वचि मेनिर्भवत्यथ यदेनं तर्पयन्ति तेनास्य तां शमयति याऽस्य हृदये मेनिर्भवत्यथ यदस्यानारुद्धो वेश्मसु वसति तेनास्य तां शमयति यास्योपस्थे मेनिर्भवति स एनं शा- न्ततनुरभिप्रीतः स्वर्गं लोकमभिवहति क्षत्रं च बलं च राष्ट्रं च विशं च स एवैनमशान्ततनुरनभिहुतोऽनभिप्रीतः स्वर्गाल्लो- कान्नुदते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्च । ( पं० ८ अ० ५ खं० २४ ) अस्यार्थः । यतः क्षत्रियस्य ब्राह्मण एव पुरोहितश्चिकी- र्षितोऽतः पुरोधाय एव पौरोहित्यस्य एव, विधिरुच्यत इति शेषः । तं विधिं दर्शयति-न ह वेत्याद्यदन्वित्यन्तेन । यस्मात्पुरोहितरहितस्य राज्ञो देवा अन्नं नादन्ति न भ- क्षयन्ति तस्माद्यक्ष्यमाणो राजा प्रजापालनादिधर्मज्ञो ब्राह्मणं पुरोहितं कुर्यात् देवा मदीयमन्नं भक्षयन्त्विति । पु- रोहितं स्तौति-अग्नीनिति पुरोहितमित्यन्तेन । यद्राजा पुरोहितं करोति तत्स्वर्गसाधकानग्नीनेव प्रज्वालयति । तानग्नीन् दर्शयति- तस्येति विशं चेत्यन्तेन । अन्वाहार्यपचनो दक्षिणाग्निः। ते अग्न- यः शान्ततनवः त्यक्तोग्ररूपाः, अभिहुता अभिप्रीताः अभी-
ऐतरेयब्राह्मणोक्तो राजाभिषेकः । [पृ. ८७]
ष्टहोमेन प्रीताः पुरोहितादिदानेन त एव प्रीताः, क्षत्रं शौर्यं, बलं शारीरं, राष्ट्रं देशं, विशं, प्रजाम् अभिवहन्ति प्रापयन्ति। विपक्षे बाधकमाह-त एवेति विशश्चेत्यन्तेन। ते पुरोहितादयो ऽग्नयोऽभी- ष्टहोमाभावेनोग्ररूपाः स्वर्गादेर्नुदन्ते अपनूदन्ते। पुनरपि पुरोहि- तं प्रकारान्तरेण स्तौति-अग्निरिति भवत्यन्तेन । वैश्वानरः ए- तन्नामाग्निवत् । मेनिः परोपद्रवकारिणी क्रोधरूपोग्रशक्तिः ज्वा- लावत् । ज्वलन्तीभिः प्रज्वलिताभिः, दीप्यमानाभिः पर- स्परसन्तापं कुर्वतीभिः सहितो राजानमुपोदेति राजसमीपे प्राप्तो भवति । तदा स राजा यदाह हे भगवो भगवन् कै- तावन्तं कालमवात्सीः, भो परिचारका अस्मै पुरोहितायोपवे- शनार्थे तृणानि तृणनिर्मितान्यासनान्याहरतेतिप्रियोक्त्या वाचिकां मेनिं शमयति । पाद्यं पादप्रक्षालनार्हम् । अलङ्कुर्वन्ति वस्त्र- माल्यालङ्कारादिना । तर्पयन्ति धनादिदानेन । अनारुद्धो- ऽवरोधरहितः । वसति विश्रम्भेण शयनादि करोति । एतेन गृहे समागतस्य पुरोहितस्यैते पञ्चोपचाराः कर्त्त- व्या इति सूचितम् । उपचारं स्तौति-स एनमिति विशश्चेत्य- न्तेन । व्याख्या पूर्ववत् । एकखण्डः । अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितस्ताभी राजानं परिगृह्य तिष्ठति समुद्र इव भूमिमयुवमार्यस्य राष्ट्रं भव- ति नैनं पुरायुषः प्राणो जहात्याजरसं जीवति सर्वमायुरेति न पुनर्म्रियते यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितः क्षत्रे- ण क्षत्रं जयति बलेन बलमश्नुते यस्यैवंविद्वान् ब्राह्मणो राष्ट्रगो- पः पुरोहितस्तस्मै विशः सञ्जानते सम्मुखा एकमनसो यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितः । (पं. ८ अ. ५ खं. २७) पञ्चोपचारप्रीतं पुरोहितं स्तौति-अग्निरिति भूमिमित्यन्तेन ।
८८ वीरमित्रोदयस्य राजनीतिप्रकाशे ताभिः पञ्चविधोग्रशक्तिभिः परिगृह्य परितः स्वीकृत्य । पुरो- हितादनिष्टपरिहारं दर्शयति-अयुवमेति पुरोहित इत्यन्तेन । यस्य राज्ञो विद्वान् वेदशास्त्रोक्तप्रकारेण धर्माधर्मौ बोधयितुमभिज्ञो राष्ट्रगोपो राष्ट्रपरिपालनक्षमः पुरोहितः तस्यास्य राष्ट्रमयुव- मारि युवमरणरहितं भवति । यद्वा तस्याऽऽर्यस्य अयुवममिश्रितं न भवति । यौतिरमिश्रणेऽपि वर्तते । यौतीति युवम् अमिश्रितं परस्परविरुद्धमनस्कं तथा न भवति। एनं राजानं न जहाति त्यजति राज्ञोऽपमृत्युर्न भवतीत्यर्थः । आजरसं जरापर्यन्तम् जरां प्रा- प्य, सर्वं पूर्णमायुरेति प्राप्नोति । राजा पुरुपायुषजीवी भवती- त्यर्थः। न पुनर्म्रियते इह जन्मनि मृत्वा पुरोहितमुखेन तत्त्वज्ञानं प्राप्य मुच्यते । अत एव पुनर्जन्माभावादेव न पुनर्म्रियते । अनि- ष्टपरिहारं दर्शयति-क्षत्रेणेति पुरोहित इत्यन्तेन । यस्यैवं पुरोहि- तः स स्वकीयेन क्षत्रेण कुमारादिना, परकीयं क्षत्रम् कुमारादि, बलेन सैन्येन अश्नुते अभिभवति । इदानीं प्रजानुरागं दर्शयति- तस्मै इत्यादिना । तस्मै तस्य विशः प्रजा एकमनसः परस्परमे- कमनस्काः सम्मुखा राजकार्ये उद्युक्ताः सञ्जानते राज्ञा सहैकम्- त्यं प्राप्नुवन्ति । कस्मिन्नपि कार्ये विमुखा न भवन्तीत्यर्थः। द्वितीयः खण्डः । तदप्येतदृषिणोक्तं स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभिवीर्येणेति सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानेव तच्छुष्मेण वीर्येणाभितिष्ठति बृहस्पतिं यः सुभृतं बिभर्तीति बृ- हस्पतिर्ह वै देवानां पुरोहितस्तमन्वन्ये मनुष्यराज्ञां पुरोहिता बृहस्पतिं यः सुभृतं बिभर्तीति यदा पुरोहितं यः सुभृतं बिभ- र्तीत्येव तदाह वल्गूयति वन्दते पूर्वभाजमित्यपचितिमेवास्मा एतदाह, स इत्क्षेति सुधित ओकसि स्व इति गृहा वा ओकः
स्वेष्वेव तद्गृहेषु सुहितो वसति तस्मा इळा पिन्वते विश्वदानी- मित्यन्नं वा इळान्नमेवास्मा एत ऊर्जस्वच्छश्वद्भवति तस्मै विशः स्वयमेवानमन्त इति राष्ट्राणि वै विशो राष्ट्राण्येवैतत्स्वयमुपनम- न्ति यस्मिन् ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाहाप्र- तीतो जयति सन्धनानीति राष्ट्राणि वै धनानि तान्यप्रतीतो जयति प्रतिजन्यान्युत या सजन्येति सपत्ना वै द्विषन्तो भ्रातृ- व्या जन्यानि तानप्रतीतो जयत्यवस्यवे यो वरिवः कृणोतीति यदाहावसीयसे यो वसीयः करोत्येव तदाह ब्रह्मणे राजा तमवन्ति देवा इति पुरोहितमेवैतदभिवदति । (पं० ८ अ०५ खं०२६) द्रढयति-तदप्येतदृषिणोक्तमित्यादिना । तदस्य माहात्म्य- मृषिणा मन्त्रदर्शिनोक्तं तिसृभिर्ऋग्भिः । तत्राद्यामृचमुदाहरति- स इदिति । स इत्, स एव पुरोहितयुक्तो राजा । प्रतिजन्यानि प्रतिपक्षबलानि । विश्वा, सर्वाणि । शुष्मेण, वीर्येण स्वकी- येन । अभितस्थौ, अभिभवति । "छन्दसि परेऽपि” इत्यमेः परप्रयोगः । अमुमेवार्थं सपत्नेत्यादिना वक्ति । सपत्ना, अस्यैव व्याख्या द्विषन्तो भ्रातृव्या इति । तान् सपत्नान्, जन्यानि बलानि च । बृहस्पतिं बृहस्पतिसमम् । सुष्ठु हितोपदेशादिना राजानं बिभर्त्ति स सुभृत् तं पुरोहितं यो राजा बिभर्त्ति पो- षयति । अस्यार्थवादो बृहस्पतित्यादिना । तं बृहस्पतिम् । अनु पश्चात् । पुरोहितं य इति पठितव्ये बृहस्पतिमिति प- ठितम् । पूर्वभाजम्, हितविचारेण पूर्वभजनयुक्तं पुरोहितम् । व- ल्गूयति, अर्चयति । वन्दते, नमस्करोति । अनेनास्मा अस्मिन्ने- वापचितिं पूजामाह । द्वितीयामृचमुदाहरति-स इदिति । स इत्, सपुरोहितो राजा । स्वे, स्वकीये । ओकसि, गृहे । सुधितः सुप्रीतः। क्षेति,वसति । तस्मै,पुरोहितसहिताय राज्ञे । इळा, अन्नम् ।
९२. वीरमित्रोदयस्य राजनीतिप्रकाशे दप्रक्षालनमन्त्रः-दक्षिणमिति । अवनेनिजे प्रक्षालयामि । तेने- न्द्रियं धनम् । अन्यं दक्षिणम्, अन्यं वामम् । भो देवाः गुप्त्यै रक्षायै, अवरुद्ध्यै सम्पादनाय । प्रक्षालनावशिष्टानाम् अपां मन्त्रणम्- आप इति । पादावनेजनीः पादशुद्धिकारिण्यः । तथा, स य इच्छेदेवंवित् क्षत्रियमयं सर्वा जितीर्जियेतायं सर्वाँ- ल्लोकान्विन्देतायं सर्वेषां राज्ञां श्रेष्ठ्यमतिष्ठां परमतां ग- च्छेत साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं मा- हाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुष आन्तादापरार्द्धात्पृथिव्यै समुद्रपर्यन्ताया एकराडिति तमेतेनै- न्द्रेण महाभिषेकेण क्षत्रियं शापयित्वाभिषिञ्चेद्यां च रात्रीम- जायेथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृत- मायुः प्रजां वृञ्जीयां यदि मे द्रुह्येरिति स य इच्छेदेवंवि- त् क्षत्रियोऽहं सर्वा जितीर्जयेयमहं सर्वांल्लोकान्विन्देयमहं स- र्वेषां राज्ञां श्रेष्ठ्यमतिष्ठां परमतां गच्छेयं साम्राज्यं भौ- ज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिप- त्यमहं समन्तपर्यायी स्यां सार्व्यायुष आन्तादापरार्द्धात्पृथिव्यै स- मुद्रपर्यन्ताया एकराडिति स न विचिकित्सेत्स ब्रूयात्सह श्रद्धया यां च रात्रीमजायेऽहं यां च प्रेतास्मि तदुभयमन्तरेणे- ष्टापूर्तं मे लोकं सुकृतमायुः प्रजां वृञ्जीथा यदि ते द्रुह्येयमिति । ( पं० ८ अ० ४ खं० १५) यः पुरोहितः एवंवित् ऐन्द्रमहाभिषेकवित्, अयं क्षत्रियः सर्वा जितीर्युद्धभूमीर्जयेतेत्यादिफलभाजं यं क्षत्रियमिच्छेत्, तं शापयित्वा शपथं कारयित्वा एतेन वक्ष्यमाणेनाभिषे- केणाभिषिञ्चेत् । फलेच्छां दर्शयति—लोकान् देशान् वि-