वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 79, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तोरोक्ता अभिषेकमन्त्राः । ७७ नागद्वीपस्तथा सौम्यो गन्धर्वो वरुणस्तथा ॥ अयं च नवमस्तेषां स्वस्वाम्यं प्रदिशन्तु ते । हिमवान् हेमकूटश्च निषधो नील एव तु ॥ श्वेतशृङ्गो ऽगवान् मेरुर्माल्यवद्गन्धमादनौ । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवांस्तथा ॥ विन्ध्यश्च पारियात्रश्च सर्व एव महीधराः । समागम्याभिषिञ्चन्तु त्वामद्य वसुधाधिप ॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च । अथर्ववेदो वेदास्त्वामभिषिञ्चन्तु पार्थिव ॥ इतिहासो धनुर्वेदो गान्धर्वश्चायुसंज्ञितः । सप्तोपवेदाश्च तथा विजयाय भवन्तु ते ॥ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचितिषष्ठानि विजयं प्रदिशन्तु ते ॥ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्यां ह्येताश्चतुर्दश ॥ साङ्ख्यं योगः पाञ्चरात्रो वेदाः पाशुपतं तथा । कृतान्तपञ्चकं चैव शास्त्राणि विविधानि च । गायत्री पापशमनी गङ्गादेवी महाशिवा ॥ गान्धारी च तथा विद्या विजयं प्रदिशन्तु ते । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ ऋषयो मनवो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥ अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ॥ स्थानानि च समस्तानि पुण्यान्यायतनानि च ।