भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 80, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 80

७८ वीरमित्रोदयस्य राजनीतिप्रकाशे जीमृतानि च सर्वाणि तद्विकाराश्च सर्वशः ॥ उक्तानि चाप्यनुक्तानि विजयाय भवन्तु ते । लवणक्षीरतोयाश्च घृतमण्डोदकास्तथा ॥ दधिमण्डोदकाश्चैव सुरोदश्च नराधिप । तथैवेक्षुरसोदश्च तथा स्वादूदकश्च यः ॥ गर्भोदकश्च तोयैस्त्वामभिषिञ्चन्तु पार्थिव । चत्वारः सागराश्चैव स्वेन तोयेन पार्थिव ॥ समागम्याभिषिञ्चन्तु विजयं प्रदिशन्तु ते । पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ॥ तथा ब्रह्मसरः पुण्यं गयाशीर्षं तु पार्थिव । कालोदको नन्दिकुण्डस्तथैवोत्तरमानसः ॥ स्वर्गमार्गप्रदश्चैव तथा पञ्चनदश्च यः । भृगुतीर्थं प्रभासञ्च तथैवामरकण्ठकः ॥ आश्रमः कालिकायाश्च तृणबिन्दोस्तथाश्रमः । गोतीर्थं चाग्नितीर्थं च विमलः स्वर्ग एव तु ॥ जम्बूमार्गश्च विमलः पुण्यस्तन्दुलिकाश्रमः । कपिलस्य तथा तीर्थं तीर्थे वातिकखण्डिकौ ॥ महासरस्तथागस्त्यकुमारीतीर्थमेव तु । गङ्गाद्वारकुशावर्त्तौ बिल्वको नीलपर्वतः ॥ वाराहः पर्वतश्चैव तीर्थं कनखलं तथा । सुगन्धा च धराकुम्भा तथा शाकम्भरीति या ॥ भृगुतुङ्गः सकुब्जाम्रः कपिलस्य तथाश्रमः । चमसोद्भेदकः पुण्यस्तथा विनशनं शुभम् ॥ अजतुङ्गश्च मोचश्च अश्वगन्धश्च पार्थिव । कालञ्जरः सकेदारो रुद्रकोटिस्तथैव च ॥

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष) · पृष्ठ 80, कुल 490 में से · BharatKosha