वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 81, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । महालयश्च राजेन्द्र वदर्याश्रम एव तु । नन्दा च सोमतीर्थं च सूर्यतीर्थं शतक्रतोः ॥ अश्विनोर्वरुणस्याथ वायोर्वैश्रवणस्य तु । ब्रह्मणश्चैव शर्वस्य यमस्य च्यवनस्य तु ॥ विरूपाक्षस्य धर्मस्य तथा चाप्सरसां नृप । ऋषीणां च वसूनां च साध्यानां मरुतां तथा ॥ आदित्यानां च रुद्राणां तथा चाङ्गिरसां नृप । विश्वेदेवभृगूणां च तथाऽन्येषां तु मानद ॥ प्लक्षप्रस्रवणश्चैव सुषुम्ना च नराधिप । शालग्रामसरश्चैव वाराहो मानसस्तथा ॥ कामाश्रमस्त्रिकूटश्च चित्रकूटस्तथैव च । सपूर्वः ऋतुसारश्च तथा विष्णुपदं सरः ॥ कापिलं च तथा तीर्थं वासुकेस्तीर्थमेव च । सिन्धूत्तमस्तपोद्वारोऽप्यथ शूर्पारकुम्भकः । पुण्डरीकश्च राजेन्द्र गङ्गासागरसङ्गमः ॥ सिन्धुसागरयोश्चैव सङ्गमः सुमनोहरः । तथा कुम्भावसुन्दश्च मानसं तु तथा सरः ॥ तथा बिन्दुसरः पुण्यं सर अच्छोदकं तथा । धर्मारण्यं फल्गुतीर्थमविमुक्तं तथैव च ॥ लौहित्यश्च तथा पुण्यो बदरीपावनः शिवः । तीर्थं सप्तऋषीणां तु वह्नितीर्थं तु पार्थिव ॥ पुण्यवस्त्रापथो मेषच्छागलेशस्तु पार्थिव । पुष्पन्यासस्तथा चैव तीर्थं हंसपदं तथा ॥ अश्वतीर्थं च कर्णेशो मणिमन्थस्तथैव च । देविका इन्द्रमार्गश्च स्वर्णविन्दुस्तथैव च ॥