वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 74, कुल 490 में से
संदर्भ में पढ़ें२ वीरमित्रोदयस्य राजनीतिप्रकाशे भीरवः शोचयन्त्यश्च दिव्या ह्यप्सरसां गणाः ॥ एतास्त्वामभिषिञ्चन्तु कामिन्यस्तरुणप्रियाः । अनुत्तमा सुरूपा च सुकेशी च मनोवती ॥ मेनका सहजन्या च पर्णाशा पुञ्जिकस्थली । क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि ॥ प्रम्लोचाथाप्यनुम्लोचा रम्भा चैवोर्वशी तथा । पञ्चचूडा सामवती चित्रलेखा च पार्थिव ॥ मिश्रकेशी सुगन्धिश्च विद्युत्पर्णा तिलोत्तमा । अदृका लक्ष्मणा क्षेमा असिता रुचिका तथा ॥ सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा । पुण्डरीका सुदारा च सुराधा सुरसा तथा ॥ हेमा सरस्वती चैव कमला सूनृताऽभया । सुमुखी हंसपादी च वारुणी रतिलालसा ॥ एतास्त्वामभिषिञ्चन्तु राजन्नप्सरसः शुभाः । प्रह्लादश्च महातेजास्तथा राजन्विरोचनः ॥ बलिर्बाणस्तथान्ये च दितिपुत्राः समागताः । अभिषिञ्चन्तु दैत्याश्च दिव्येन ह्यम्भसा स्वयम् ॥ विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः । अभिषिञ्चन्तु राजानं राज्यं कर्तुं सुसत्वराः ॥ हेत्यश्चैव प्रहेत्यश्च सलिलेन्द्रस्तथैव च । सुकेशी पौरुषेयश्च यज्ञहा पुरुषादकः ॥ विद्यत्सूर्यस्तथा व्यासो वधः श्वरसनस्तथा । एते त्वामाभिषिञ्चन्तु समागम्याथ राक्षसाः ॥ सिद्धार्थी मणिभद्रश्च सुमनो नन्दनस्तथा । कण्डूतिः पञ्चमश्चैव मणिमान् वसुमांस्तथा ॥