वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 85, कुल 490 में से
संदर्भ में पढ़ेंस्नानं महाफलं तेषां तपः श्राद्धक्रिया तथा ॥ दानं बहुफलं प्रोक्तं दर्शनं पापनाशनम् । कीर्त्तनं भार्गवश्रेष्ठ न मेऽत्रास्ति विचारणा ॥ तीर्थेष्वेतेषु भृगुप्रधान स्नाता नरा यान्ति नरेन्द्रसद्म । तीर्थानि गम्यानि ततः प्रयत्नात्पुण्याश्च सर्वास्सरितश्च राम । इति कीर्त्तनादौ फलविशेषः । ततः शुद्धोदकेन स्नातो राजा वस्त्रालङ्कारोष्णीषादि धृत्वा दर्पणे शुद्धे विलीनाज्ये च मुखं दृष्ट्वा तत्पात्रसहितं ब्राह्मणा- य दत्त्वा चन्दनकुङ्कुमादिमङ्गलद्रव्यालम्भनं कृत्वा विष्णुं राजो- पचारैरभ्यर्च्य वृतान् ब्राह्मणान् वस्त्रालङ्कारादिभिः सम्पूज्य सांवत्सरपुरोहितौ मधुपर्केणाधिकेनार्हयेत् । ततः सांवत्सरो राज्ञो ललाट उक्तलक्षणं पट्टं बध्नीयात्, मूर्ध्नि मुकुटम् । अत्र रामायणे विशेषः । विनायकब्रह्मविष्णुमहेश्वरान् ग्रहानग्निं विप्रान् देवान् पितृंश्चोद्दिश्य दक्षिणां दद्यात् । सर्वे- भ्योऽभयं च दद्यात् । आघातस्थानगान् पशून् बन्धनस्थान् गोब्राह्मणादिहन्तॄन् दारुणकर्मणश्च मोचयेत् । ततः पुरोहितो राजानं क्रमेण वृषादिचर्मास्तृते बहुमूल्यवस्त्राभरणच्छदे उत्तमे मञ्चे “ध्रुवा द्यौः” इत्युपवेशयेत् । तत्रोपविष्टाय प्रतीहार अमा- त्यान् पौरमुख्यानन्यदेशागतान् स्वदेशस्थांश्च वणिजः प्रकृती- श्च यथाक्रमं दर्शयेत् । ततो राजा ग्रामवस्त्रगजतुरगकनकगो- ऽजाविगृहदानैः सांवत्सरपुरोहितौ पूजयित्वा तद्वदेव ऋग्वेदवि- त्प्रभृतींस्त्रीन् यथाविभवमन्यांश्च सांवत्सरपुरोहितान् ब्राह्मणमु- ख्यांश्च चन्दनपुष्पान्नामोदकादिभिर्गोवस्त्रतिलरूप्यफलकाञ्चन- महीदानैः सम्पूज्य चन्दनकुङ्कुमादिभिः स्वदेहालम्भनं विधाया- ऽऽयुधानि सम्पूज्य सशरं धनुर्गृहीत्वाऽग्निं प्रदक्षिणीकृत्य गुरून्-