वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 86, कुल 490 में से
संदर्भ में पढ़ें८४ वीरमित्रोदयस्य राजनीतिप्रकाशे मस्कृत्य वृषं सवत्सां गां च पृष्ठत आलभ्य स्वोपवेशनार्हमश्वं सांवत्सरेण सर्वौषधीयुक्तकलशोदकेन “या ओषधीः” इतिकृता- भिषेकं गन्धमाल्यादिभिरलङ्कृतं दक्षिणे कर्णे वक्ष्यमाणमन्त्रै- र्मन्त्रितं क्षणमारुह्यावतरेत् । मन्त्रास्तु— जयाश्व त्वं मया राजंस्तुरङ्गाद्य प्रतिष्ठितः । स्मराद्य लक्ष्म्याः पुत्रत्वं गन्धर्वत्वं तथा स्मर ॥ यथा नृणामयं राजा तथा त्वं भव वाजिनाम् । यथा भवन्तं नृपतिर्नित्यमेवाभिरक्षति ॥ तथा त्वं रक्ष राजानं सर्वावस्थागतं हय । दर्शयाश्व तथा स्वप्ने दैवदोषमुपागतम् ॥ तुरगान्सकलान् रक्ष त्वयि भारोऽयमर्पितः । अद्यप्रभृति राजा त्वामप्रेणाभ्येति भक्तितः ॥ अभ्यर्चयिष्यति सदा गन्धमाल्यानुलेपनैः । पूजनैश्च द्विजातीनां तथा च स्वस्तिवाचनैः ॥ रक्षतु त्वां महेन्द्रस्तु पूर्वेण त्रिदशाधिपः । दक्षिणेन यमो देवः पश्चिमेन जलाधिपः ॥ उदग्वैश्रवणो देवः सर्वे रक्षन्तु सर्वतः ॥ इति । ततो मुख्यं गजं पूर्ववदभिषिच्यालङ्कृत्य सांवत्सर आरुह्य दक्षिणे कर्णे मन्त्रयित्वावतरेत् । मन्त्रास्तु— श्रीगजस्त्वं कृतो राज्ञा भव तस्य गजाग्रणीः । गन्धमाल्याक्षभक्ष्यैस्त्वां पूजयिष्यति पार्थिवः ॥ लोकः सदाऽभयां पूजां करिष्यति यथा तव । पालनीयस्त्वया राजा युद्धेऽध्वनि तथा गृहे ॥ तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर । देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः ॥