वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 87, कुल 490 में से
संदर्भ में पढ़ेंऐतरेयब्राह्मणोक्तो राजाभिषेकः । ८५ ऐरावणसुतः श्रीमानरिष्टो नाम वारणः । श्रीगजानां तु यत्तेजः सर्वमेवोपत्तिष्ठतु ॥ तत्तेजस्तव नागेन्द्र दिव्यभावसमन्वितम् । उपत्तिष्ठतु भद्रं ते रक्ष राजानमाहवे ॥ इति । ततो राजा तमारुह्य तत्र स्थित एव नानागजारूढैर्मुख्या- मात्यसामन्तसांवत्सरपुरोहितादिभिः सहितो राजमार्गेण धन- सञ्चयं विसृजन् स्वपुरं परिक्रम्य तद्गतदेवायतनेषु गत्वा यथा- विभवं देवान् सम्पूज्य तादृश एव स्वप्रासादमागत्य गजाद- वतीर्य सर्वसहितोऽन्तर्गृहं प्रविश्य यथोचितदानमानसत्कारैः सर्वान् सत्कृत्य यथासम्भवं ब्राह्मणान् भोजयित्वा दीनाना- थेभ्यो नटनर्तकादिभ्यश्च भूयसीं दक्षिणां दत्त्वा सर्वान् विसृज्य बन्धुभिः सार्द्धं मुदितो भुञ्जीत । तत आचम्य ताम्बूलमुखो- ऽन्तःपुरनिवासिभिः सह क्षणं विहृत्यात्मानं प्रयत्नात् रक्षेत् । ततः सदर्भायां क्षितौ ब्रह्मचर्येण स्वपेत् । इति विष्णुधर्मोत्तरोक्तमार्गेण राजाभिषेकप्रयोगः। अथैतरेयब्राह्मणोक्तः श्रौतो राजाभिषेकः समन्त्रव्याख्या- नः कथ्यते । तस्य च पुरोहितकर्त्तव्यत्वेनादौ पुरोहितप्रशंसा । अथातः पुरोधाया एव न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरोदधीत देवा मे अन्नमदन्वित्यग्नीन् वा एष स्वर्ग्यान् राजोद्धरते यत्पुरोहितं तस्य पुरोहित एवाहवनीयो भवति जाया गार्हपत्यः पुत्रो- ऽन्वाहार्यपचनः स यत्पुरोहिताय करोत्याहवनीय एव तज्जु- होत्यथ यज्जायायै करोति गार्हपत्य एव तज्जुहोत्यथ यत्पुत्राय करोत्यन्वाहार्यपचन एव तज्जुहोति त एनं शान्ततनवोऽभि- हुता अभिप्रीताः स्वर्गं लोकमभिवहन्ति क्षत्रं च बलं च राष्ट्रं च