वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 95, कुल 490 में से
संदर्भ में पढ़ेंऐतरेयब्राह्मणोक्तो राजाभिषेकः । ९५ वैराज्यं चापरौ शाक्कररैवते शीर्षण्ये नौधसञ्च कालेयं चानूच्ये ऋचः प्राचीनातानाः सामानि तिरश्चीनवाया यजूंष्यतीकाशा यश आस्तरणं श्रीरुपबर्हणं सविता च ते बृहस्पतिश्च पूर्वौ पादौ धारयतां वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्विनावानूच्ये इत्यथैनमेतामासन्दीमारोहयेद्वसवस्त्वा गायत्रेण च्छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्नाऽऽरोहन्तु तानन्वा- रोह साम्राज्याय, रुद्रास्त्वा त्रैष्टुभेन छन्दसा पञ्चदशेन स्तो- मेन बृहता साम्नाऽऽरोहन्तु तानन्वारोह भौज्यायाऽऽदि- त्यास्त्वा जागतेन छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्ना- ऽऽरोहन्तु तानन्वारोह स्वाराज्याय, विश्वे त्वा देवा आ- नुष्टुभेन च्छन्दसैकविंशेन स्तोमेन वैराजेन साम्नाऽऽरोहन्तु तानन्वारोह वैराज्याय, मरुतश्च त्वाऽङ्गिरसश्च देवा अतिच्छन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्नाऽऽरोहन्तु तानन्वारोह पारमेष्ठ्याय, साध्याश्च त्वाऽऽप्त्याश्च देवाः पाङ्क्तेन च्छन्दसा त्रिणवेन स्तोमेन शाक्करेण साम्नाऽऽरोहन्तु तानन्वारोह राज्या- य महाराज्यायाधिपत्याय स्वावश्यायातिष्ठायारोहेत्येतामा- सन्दीमारोहयेत्तमेतस्यामासन्द्यामासीनं राजकर्त्तारो ब्रूयुर्न वा अनभ्युत्कृष्टः क्षत्रियो वीर्यं कर्तुमर्हतीत्यभ्येनमुत्क्रोशेमेति तथेति तं राज्यकर्त्तारोऽभ्युत्क्रोशन्तीमं जना अभ्युत्क्रोशंत सम्राजं साम्राज्यं भोजं भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं परमेष्ठिनं पारमेष्ठ्यं राजानं राजपितरं क्षत्रमजनि क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ताऽजन्यमित्राणां हन्ता- ऽजनि ब्राह्मणानां गोप्ताऽजनि धर्मस्य गोप्ताऽजनीति तमभ्युत्कृ- ष्टमेवंविदभिषेक्ष्यन्नेतयार्चा ऽभिमन्त्रयेत । (पं. ८ अ. ४ खं. १७) आसन्द्यादिसम्भारानाह-अथास्मा इति । वानस्पत्यौष-