वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 114, कुल 490 में से
संदर्भ में पढ़ें११६ वीरमित्रोदयस्य राजनीतिप्रकाशे अभिषेकाह्नि यत्नेन प्रतिसंवत्सरं नृपः ॥ इति । इति संवत्सराभिषेकः । अथाभिषिक्तस्य राज्ञो गुणवतो जनपदपरिपालनादीन् धर्मान् वक्तुं यैर्गुणैः प्रजापालनयोग्यो भवति ते गुणा उच्यन्ते । तत्र— शङ्खलिखितौ, राजा दीर्घदर्शी महोत्साहः शक्तिमाननस्र्- युर्भक्तबलस्त्यागी शरण्यः सर्वभूतानां संविभक्तः सत्यवा- ग्मत्सरी गम्भीरो ऽमर्षणो बुधस्तेजस्वी प्रतिविधानकुशलो- ऽदीर्घसूत्रो दक्षः क्षमावान् लक्ष्यज्ञो देशकालद्रव्यप्रयोगस- ङ्ग्रहनिमित्तज्ञानकुशलो गूढमन्त्रप्रचारसंवृतरन्ध्रः पररन्ध्रज्ञो दृढ- प्रहारी लघुहस्तो जितस्थानासनहिमानपो जितकामरागद्वेषलो- भमत्सरः प्रजाभिरामो दीनानुग्रहकर्त्ता ब्राह्मणेष्वन्नप्रदाता श्रीयशोऽर्थी । अस्यार्थः। दीर्घदर्शी अनागतकार्यतत्त्वज्ञः। महोत्साहः, पु- रुषार्थसाधनकर्माध्यवसाय उत्साहः स महान् यस्य सः। बहुवि- षयत्वमविहन्यमानत्वं चोत्साहस्य महत्त्वम् । शक्तिमान् प्रभावो- त्साइमन्त्रशक्तित्रययुक्तः। अनसूयुः, असूया परगुणेषु दोषारो- पस्तद्रहितः । गम्भीरः अनुपलेखितक्रोधहर्षाद्याकारः । अमर्षणः परसमृद्धेरसोढा । प्रतिविधानम्, उपस्थितानिष्टप्रतीकारः, तत्र कुशलः । अदीर्घसूत्रः, अचिराक्रियः, अवश्यकार्याणां कर्मणां प्रारम्भे प्रारब्धानां च परिसमाप्तौ यो न विलम्बते । दीर्घसू- त्रस्य कर्महानिरुक्ता- मत्स्यपुराणे, अदीर्घसूत्रश्च भवेत्सर्वकर्मसु पार्थिवः । दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ॥ इति