वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 115, कुल 490 में से
संदर्भ में पढ़ेंराजगुणाः । ११७ कार्यविशेषे दीर्घसूत्रतापि कर्त्तव्येत्युक्तम्- तत्रैव, दोषे दर्पे च माने च द्रोहे पापे च कर्मणि । अप्रिये चैव कर्त्तव्ये दीर्घसूत्रः प्रशस्यते ॥ इति । लक्ष्यज्ञः तत्कालकर्त्तव्यज्ञः। गूढमन्त्रप्रचारः फलानुमितम- न्त्रतत्त्वः । संवृतरन्ध्रः, रन्ध्रं यत्र परे प्रभवन्ति, तत्संवृतं यस्य। तथा च मनुः, नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ इति । तथा यत्नातिशयं कुर्याद्यथाऽस्य छिद्रं शत्रुर्न जानाति, शत्रोस्तु छिद्रं प्रकृतिभेदादिकं चारैर्जानीयात् । यथा कूर्मो मुखचरणादीन्यङ्गानि आत्मदेहे गोपायति, एवममात्यादीनि राज्याङ्गानि दानमानसत्कारैरात्मसात्कुर्यात् । दैवात्प्रकृतिभेदे जाते यत्नतः प्रतीकारं कुर्यात् । जितमत्सर इति पुनर्ग्रहणम् उत्पन्नस्यापि मत्सरस्याप्रकाशनार्थम् । प्रजाभिरामः प्रजानाम- भिरमयिता । गौतमः, राजा सर्वस्येष्टे ब्राह्मणवर्जं साधुकारी साधुवा- दी त्रय्यामान्वीक्षिक्यां चाभिविनीतः शुचिर्जितेन्द्रियो गुणव- त्सहायोपायसम्पन्नः समः प्रजासु स्यात् हितं चासां कुर्वीत । सर्वस्य जनपदस्य, इष्टे, अधिपतिर्भवति निग्रहानुग्रहादिषु, ब्राह्मणवर्जम्, ततस्ते स्वधर्मात् च्यवन्तोऽपि सान्त्वेन धर्मेऽव- स्थाप्याः । सर्वक्रियासु स्वतन्त्रताख्यापनार्थं वचनम् । तथाह- नारदः, अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः । इति ।