वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 124, कुल 490 में से
संदर्भ में पढ़ें१२६ वीरमित्रोदयस्य राजनीतिप्रकाशे अनीर्षुर्गुप्तदारः स्यादृजुः स्यादघृणी नृपः ॥ स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् । अस्तब्धः पूजयेन्मान्यान् गुरून् सेवेदमयया ॥ अर्चेद्देवानदम्भेन श्रियमिच्छेदकुत्सिताम् । सेवेत प्रणयं हित्वा १ दक्षः स्यान्न त्वकालवित् ॥ सान्त्वयेत्तन्न २ मोघाशमनुगृह्णन् च क्षिपेत् । प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शोचयेत् ॥ क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु । तथा, ऊखरेष्वपि वर्षन्तं पात्रेषु मृदु वर्षिणम् । पर्जन्यमपि निन्दन्ति किम्पुनर्वसुधाधिपम् ॥ इति । विष्णुधर्मोत्तरे बालकादीनां धनं राज्ञैव रक्ष्यमित्युक्तम्। बालदायादकं रिक्थं तावद्राजाऽनुपालयेत् । यावत्स स्यात्समावृत्तो यावद्वाऽतीतशैशवः ॥ बालपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । तान् शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ तथा चौरैरपहृतं प्रजाद्रव्यं राज्ञा स्वकोशाद्दातव्यमित्युक्तम्— तत्रैव, सर्वेषामेव वर्णानां चौरैरपहृतं धनम् । तत्प्रमाणं स्वकात्कोशाद्दातव्यमविचारयन् ॥ ततस्तु पश्चात्कर्त्तव्यं चौरान्वेषणमञ्जसा । चौररक्षाधिकारिभ्यो राजाऽपि तदवाप्नुयात् ॥ १ धृत्वा, धाञो रूपमिदम् । २ न च मोक्षायेत्यपि पाठः।