भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 123, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 123

विहिता राजधर्माः । १२५ विश्वासयेच्चापि परं तत्त्वभूतेन हेतुना । बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् । वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ यथा वृको मेषादिरक्षकानवधानमासाद्य मेषं हन्ति, एवं शत्रुरक्षकानवधाने शत्रुं हन्यात् । विनिष्पतेत्, शत्रुभिरभिभूत आश्रयान्तरं गच्छेत् । विष्णुधर्मोत्तरे तु, दृढप्रहारी च भवेत्तथा सूकरवन्नृपः । चित्राकारश्च शिखिवद्दृढभक्तस्तथा श्ववत् ॥ भवेच्च मधुराभाषी तथा कोकिलवन्नृपः । काकशङ्की भवेन्नित्यमज्ञातवसतिं वसेत् ॥ काकशङ्की, काकवन्न कमपि विश्वसेत् । विष्णुः, आयद्वाराणि नोच्छिन्द्यान्नापात्रवर्षी स्यात् । आयद्वाराणि, द्रव्योत्पत्तिस्थानानि खानिशुल्कप्रभृतीनि । महाभारते तु विशेषः । चरेद्धर्माणि कटुको मुञ्चेत्स्नेहं न नास्तिकः । आनृशंस्यश्चरेदर्थं चरेत्काममनुद्धतः ॥ प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः । दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥ सन्दधीत न चानार्यैर्विगृह्णीयान्न च बन्धुभिः । नाभक्तं चारयेच्चारं कुर्यात्कार्यमपीडया अर्थं ब्रूयान्न चासत्सु गुणान् ब्रूयान्न चात्मनः । आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥ नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् । विसृजेन्न च लुब्धेभ्यो विश्वसेनापकारिषु ॥