भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

१२६ वीरमित्रोदयस्य राजनीतिप्रकाशे अनीर्षुर्गुप्तदारः स्यादृजुः स्यादघृणी नृपः ॥ स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् । अस्तब्धः पूजयेन्मान्यान् गुरून् सेवेदमयया ॥ अर्चेद्देवानदम्भेन श्रियमिच्छेदकुत्सिताम् । सेवेत प्रणयं हित्वा १ दक्षः स्यान्न त्वकालवित् ॥ सान्त्वयेत्तन्न २ मोघाशमनुगृह्णन् च क्षिपेत् । प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शोचयेत् ॥ क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु । तथा, ऊखरेष्वपि वर्षन्तं पात्रेषु मृदु वर्षिणम् । पर्जन्यमपि निन्दन्ति किम्पुनर्वसुधाधिपम् ॥ इति । विष्णुधर्मोत्तरे बालकादीनां धनं राज्ञैव रक्ष्यमित्युक्तम्। बालदायादकं रिक्थं तावद्राजाऽनुपालयेत् । यावत्स स्यात्समावृत्तो यावद्वाऽतीतशैशवः ॥ बालपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । तान् शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ तथा चौरैरपहृतं प्रजाद्रव्यं राज्ञा स्वकोशाद्दातव्यमित्युक्तम्— तत्रैव, सर्वेषामेव वर्णानां चौरैरपहृतं धनम् । तत्प्रमाणं स्वकात्कोशाद्दातव्यमविचारयन् ॥ ततस्तु पश्चात्कर्त्तव्यं चौरान्वेषणमञ्जसा । चौररक्षाधिकारिभ्यो राजाऽपि तदवाप्नुयात् ॥ १ धृत्वा, धाञो रूपमिदम् । २ न च मोक्षायेत्यपि पाठः।

विहिता राजधर्माः १२७ आहृते च तथा वित्ते हृतमित्येव वेदिनम् । निर्द्धनं पार्थिवः कृत्वा विषयात्स्वाद्विवासयेत् ॥ आहृते, चौरान्वेषिभिरितिशेषः । हृतमित्येव वेदिनम्, चौरैरपहृतं न मया प्राप्तमिति निवेदयितारं चौरान्वेषिणं मि- थ्यावादितया प्रमाणैर्निर्णीय निर्द्धनं कृत्वा स्वदेशाद्विवासये- दिति व्याख्येयम् । अपहृतस्यादाने राज्ञो दोषमाह— याज्ञवल्क्यः, देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ इति । यत्तु धनस्वामिन एव परिचारकैर्नीतं तत्त राज्ञा न देयमित्युक्तम्— विष्णुधर्मोत्तरे, न तद्राज्ञा प्रदातव्यं गृहे यत्परिचारकैः । प्रचरद्भिर्हृतं द्रव्यं कार्यं तत्रान्ववेक्षणम् ॥ अन्ववेक्षणम्, तर्जनताडनादिना तत्परिचारकेभ्यो दाप- नीयं, न तु स्वयं दातव्यमित्यर्थः । स्वविषये क्षुधाऽवसद्यमानस्य श्रोत्रियस्य वृत्तिकल्पनमपि राज्ञ आवश्यकमित्युक्तम्— तत्रैव, न च क्षुधाऽवसीदेत श्रोत्रियो विषये वसन् । यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥ तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः । श्रुतवित्ते तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ॥ रक्षेच्च सर्वतस्त्वेतान् पिता पुत्रमिवौरसम् । संरक्ष्यमाणो राज्ञा यः कुरुते धर्ममन्वहम् ॥ तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च । इति ।

१२८ वीरमित्रोदयस्य राजनीतिप्रकाशे देवतारामादेः पालनं तत्पूजनं चावश्यकमित्युक्तम्- तत्रैव, स्वदेशदेवतार्चायाः कृतारामं पुरातनैः । दायं वित्तं जनं तासां प्रयत्नात्परिपालयेत् ॥ पालयन्ति महीं देवाः पालिताः पृथिवीक्षिता । देवायत्तमिदं सर्वं भूतलं द्विजपुङ्गव ॥ धूपदीपनमस्कारपुष्पमाल्यानुलेपनैः । रत्नानां सम्प्रदानैश्च पूजनीयाः सुरोत्तमाः ॥ पूजिताः पूजयन्त्येते आयुषा यशसा श्रिया । प्राप्यते देवताभक्त्या मनुष्येण महत्पदम् ॥ पूजिताः सम्प्रयच्छन्ति कामान्नृणां मनोगतान् । एकमप्याश्रितो देवं राजा भार्गवनन्दन ॥ सर्वासां पूजनं कुर्याद्देवतानामसंशयम् । ब्राह्मणाश्च नियोक्तव्या वेदोक्तसुरपूजने ॥ ब्राह्मणस्य पूजनं पालनं चोक्तम्- तत्रैव, ब्राह्मणान् पूजयेद्राजा ब्राह्मणान् पालयेत्सदा । ब्राह्मणा हि महाभागा देवानामपि देवताः ॥ ब्राह्मणानां क्षितिं दद्याद्भोगानन्यांश्च पार्थिव । ब्राह्मणानामिति षष्ठी चतुर्थ्यर्थे । ब्राह्मणानां क्षितिं दत्त्वा- स्वमुद्राङ्कितं पत्रमपि दद्यात् । तदुक्तम्— विष्णुना, ब्राह्मणेभ्यो भुवं दद्याद्येषां च प्रतिपादयेत् तेषां स्ववंश्यान् भुवः प्रमाणं दानच्छेदोपवर्णनं च पटे ताम्र- पट्टे वा लिखितं स्वमुद्राङ्कितं चागामिनृपतिपरिज्ञानार्थं द-

विहिता राजधर्माः । १२९ द्यदिति । येषां येभ्य इत्यर्थः । तेषां वंश्यान् । स्ववंश्यांश्चेति क्वचि- त्पाठः । दानच्छेदोपवर्णनम्, दानच्छेदे उपवर्णनं, नरकस्येति शेषः । अथ वा दानच्छेदो दत्तभूमिसिमापरिच्छेदः । तथाच- याज्ञवल्क्यः, दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥ पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनम् । स्वहस्तकालसम्पन्नं शासनं कारयेत्स्थिरम् ॥ इति । व्यासः, स्थानं वंशानुपूर्वी च देशं ग्राममुपागतान् । ब्राह्मणांस्तु तथा चान्यान् याज्यानाधिकृतानपि ॥ कुटुम्बिनोऽथ कायस्थान् दूतवैद्यमहत्तरान् । मेदचण्डालपर्यन्तान् सर्वान् सम्बोधयन्निति ॥ मातापित्रोरात्मनश्च पुण्यायामुकसूनवे । दत्तं मयाऽमुकायाद्य दानं सब्रह्मचारिणे ॥ अनाच्छेद्यमनाहार्यं सर्वभोगविवर्जितम् । चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयागतम् ॥ दातुः पालयितुः स्वर्गं हर्तुर्नर कमेव च । षष्टिवर्षसहस्राणि दानच्छेदे फलं लिखेत् ॥ स्वमुद्रावर्षमासार्द्धदिनाध्यक्षाक्षरान्वितम् । एवंविधं राजकृतं शासनं समुदाहृतम् ॥ इति । स्थानं राजधानी। उपागतान् आगन्तुकान्। महत्तरो ग्रा- १७

१३० वीरमित्रोदयस्य राजनीतिप्रकाशे मदाता । अर्द्धं पक्षः । दिनाध्यक्षो वारः । तत्र पत्रेऽन्यानपि स्मृत्यन्तरोक्तान् श्लोकान् लिखेत् । ते च श्लोकाः- पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष्युधिष्ठिर । महीं मतिमतां श्रेष्ठ दानाच्छ्रेयोऽनुपालनम् ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ षष्टिवर्षसहस्राणि स्वर्गे मोदति भूमिदः । आक्षेप्ता चावमन्ता च तान्येव नरकं वसेत् ॥ अपानीयेष्वरण्येषु शुष्ककोटरवासिनः । कृष्णाहयोऽभिजायन्ते पूर्वदायं हरन्ति ये ॥ इति । स्मृत्यन्तरे, सन्धिविग्रहकारी तु भवेद्यस्तस्य लेखकः । स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम् ॥ इति । विष्णुधर्मोत्तरे, ब्राह्मणेपु तु यद्दत्तं विधिवत्पारलौकिकम् । वेदलाङ्गलकृष्टेषु द्विजक्षेत्रेषु भार्गव ॥ उप्तस्य दानबीजस्य फलस्यान्तो न विद्यते । तस्मात्पूज्या नमस्कार्याः संविभाज्यास्तथा द्विजाः ॥ राज्ञा सर्वप्रयत्नेन लोकद्वयमभीप्सता । यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति । तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ इति । तथा साध्वीनामपि पालनमुक्तम्- तत्रैव, साध्वीनां पालनं कुर्यात्पूजनं च महीपतिः । एकपत्न्यः स्त्रियः सर्वा धारयन्ति जगत्त्रयम् ॥

विहिता राजधर्माः । १३१ भर्तृव्रता भर्तृपरा भर्तृपूजनतत्परा । यतः स्त्री सा दिवं याति सह भर्त्रा द्विजोत्तम ॥ एकपत्न्यस्तु यद्दुःखं सहन्ते द्विजसत्तम । तेन ताः स्वर्गमासाद्य सुखमायान्त्यनेकधा ॥ तासां प्रभावो हि महांस्तेजश्चैवातिदुःसहम् । न कोपनीया नोपेक्ष्या नैव ताश्च विमानयेत् ॥ नाह्येदपराधेपु दण्ड्यस्तासां पतिर्भवेत् । तथा, अनाथां च सदा साध्वीं बिभृयात्पार्थिवोत्तमः । तस्यां यद्दीयते दानं तदनन्तं प्रकीर्तितम् ॥ साध्वीनामपमानेन कुलं दहति पूरुषः । तासां सम्पूजनाद्राम स्वकुलं चोन्नतं भवेत् ॥ इति । तथा— गवां हि पालनं राज्ञा कर्त्तव्यं भृगुनन्दन । इत्यादिनाध्यायेनौषधान्नघासजलादिदानान्युक्तानि तत्रैव । तथा, गवां प्रचारभूमिं तु वाहयित्वा हलादिना । नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश ॥ इति । मनुः, अलब्धं चैव लिप्सेत लब्धं रक्षेच्च यत्नतः । रक्षितं वर्द्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ एतच्चतुष्टयं विद्यात्पुरुषार्थप्रयोजनम् । अस्य सम्यगनुष्ठानं नित्यं कुर्यादतन्द्रितः ॥ इति । महाभारते, सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन ।

३२ वीरमित्रोदयस्य राजनीतिप्रकाशे नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित् ॥ सर्वस्य ज्ञानस्यैकत्र पुरुषे परिनिष्ठाऽवस्थितिर्नास्तीत्यर्थः अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः । सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ धनुर्वेदेतिहासे च यत्नः कार्यो विजानता । हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव हि ॥ द्वौ भागावेतिहासार्थं भागस्त्रय्या विधीयते । इष्वस्त्रादिषु भागोऽन्यश्चतुर्थैवमहः स्मृतम् ॥ येषां त्रीण्यवदातानि योनिविद्या च कर्म च । तान् सेवेतैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥ समास्या, सम्यक्प्रकारेण आस्या उपवेशनम् । गुरुपूजां च सततं वृद्धानां पर्युपासनम् । श्रवणं चैव विद्यानां कुर्वन् श्रेयोऽधिगच्छति ॥ न वै श्रुतमविज्ञाय वृद्धाननुपसेव्य च । धर्मार्थौ वेदितुं शक्यौ बृहस्पतिसमैरपि ॥ विद्यावृद्धान् सदैव त्वमुपासीथा नराधिप । शृणुया यच्च ते ब्रूयुः कुर्याश्चैवाविचारयन् ॥ सहस्रमपि मूर्खाणां यद्युपास्ते महीपतिः । अथ वाप्ययुतान्येव नास्ति तेषु सहायता ॥ एकोऽपि शास्त्रवित्प्राज्ञो गुरूणां पर्युपासिता । राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ सदैव हितकामानां सुहृदां न शृणोति यः । प्राज्ञानां कृतविद्यानां स नरः शत्रुन्दनः ॥ शत्रुन्दनः शत्रूणामानन्दजनकः । आदावेव मनुष्येण वर्तितव्यं यथाक्रमम् ।

विहिता राजधर्माः । १३३ यथा नातीतमर्थं वै पश्चात्तापेन शोचति ॥ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः । इन्द्रियाणामनैश्वर्यादैश्वर्याद्भूश्यतीह सः ॥ संनियच्छति योगेन उत्थितं कामहर्षयोः । स श्रियो भाजनं राजन् पश्चाद्यस्तु न मुह्यति ॥ नावमान्या बुद्धिमद्भिरवरोत्कृष्टमध्यमाः । न हि मानप्रदग्धानां कश्चिदस्ति मदः क्वचित् ॥ अवृत्तेर्भयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ अन्त्यानाम्, अधमानां मर्त्यानाम् । अवृत्तेः, जीविकानाशात् भयम् । कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् । प्रसादयति यो लोकं तं लोको न प्रसीदति ॥ तमुद्दिश्य लोको न प्रसीदति नावसन्नो भवति । यो नोद्धतं जातु करोति वेषं न पौरुषेणापि विकत्थते च । नीत्या हि किञ्चित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसां ॥ इति । राज्ञोऽधिकमित्यनुवृत्तौ— गौतमः, योगश्च विजये भये विशेषेण चर्या च रथधनुर्भ्याम् । इति । योग उपायः । विजये, शत्रूणां तद्राष्ट्रादेश्च । भये विशेषे- , भये शत्रुप्रभृतिभ्य उपस्थिते, विशेषेणोपायः कार्य इत्य- : । चर्या पर्यटनम् । रथधनुर्भ्यामिति वाहनायुधानामुपलक्ष- म्, दृष्टार्थत्वात् । मनुः, नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।

नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरैः ॥ नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ अमाययैव वर्त्तेत न कथञ्चन मायया । बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ तथा, तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः । तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः ॥ इति । उद्यतदण्डः, दण्डो हस्त्यश्वादियुद्धादिशिक्षाभ्यासः, स उ- द्यतस्संव्यापारो यस्य स तादृशः । अथ वा दण्डो दण्ड्यानां दण्डनं तदुद्यतं यस्य स तादृशः । विवृतपौरुषः, विवृतं प्रकाशी- कृतं पौरुषम् अस्त्रविद्याप्रकर्षादिकं यस्य स तथा । संवृतसंवा- र्यः, संवृतं परैरज्ञायमानं संवार्यं संवरणार्हं मन्त्राकारचेष्टितादि यस्य स तथा । उद्विजते बिभेति । तेन च प्रतापख्यातिर्भवती- त्यर्थः । अमायया अच्छद्मना । वर्तेत, अमात्यादिष्विति शेषः । अहितेषु तु क्वचिच्छद्मापि विहितमेव । शङ्खलिखितौ, राजा स्वाधीनवृत्तिरात्मप्रत्ययकोशः स्वयं कृत्यानुदर्शी विप्रस्वनिवृत्तश्चिरं भद्राणि पश्यति । इति । आत्मप्रत्ययकोशः, आत्मनः स्वस्य प्रत्ययो विज्ञानं यस्य तादृशकोशवान् । यमः, समः सर्वेषु भूतेषु नयानयविशारदः । नैकः कार्याणि यः कुर्यात्सोऽत्यन्तं पाति मेदिनीम् ॥ अत्यन्तं चिरकालम् । तथा,

विहिता राजधर्माः १३५ अन्तर्दोषं समुत्पन्नमाकारेणोपलक्षयेत् । शङ्केषु शङ्कितो नित्यं रक्षेच्छक्त्या सदोत्थितः ॥ पापानां निग्रहं कुर्यात्साधूनां परिपालनम् । यथाक्रमं च वृद्धानां काले काले निषेवणम् ॥ इति । शङ्केषु, पूर्वकृतापकारादिना शङ्कास्पदेषु । नारदः, सतामनुग्रहो नित्यमसतां निग्रहस्तथा । एष धर्मः स्मृतो राज्ञामर्थश्चापि भवेत्ततः ॥ तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् । दर्शनं व्यवहाराणामात्मनश्चापि रक्षणम् ॥ इति । राज्ञः कर्त्तव्यमित्यनुवृत्तौ- शङ्खलिखितौ, स्वपक्षे परपक्षे च स्थानवृद्धिक्षयाश्रयः । स्थानादीनां विभागश्च काले द्रव्यार्थसङ्ग्रहः ॥ इति । स्वपक्षे स्थानवृद्धिः, परपक्षे स्थानक्षयः, तयोराश्रयणम् । स्थानादीनाम्, अवस्थानस्थलानां दुर्गकोशादीनां च । विभागः, उचिताधिकारिभ्यस्तसमर्पणम् । काले यथोचितकाले । द्रव्यस्य, वस्त्रधान्यादेः, अर्थस्य, सुवर्णरजतादेः सङ्ग्रहः । राजधर्मानुवृत्तौ- मार्कण्डेयपुराणे, अहो तितिक्षामाहात्म्यमहो दानफलं महत् । पद्भ्यां गतो हरिश्चन्द्रः पुरश्चेन्द्रत्वमागतः ॥ इति । अत्र तितिक्षादानयोः सर्वसाधारणधर्मत्वेऽपि राज्ञोऽवश्य- कर्त्तव्यत्वेन तितिक्षायाश्चातिदुष्करत्वेन राजधर्मेषु विशिष्यो- पादानम् ।

१३६ वीरमित्रोदयस्य राजनीतिप्रकाशे यमः, याचितो नेति न ब्रूयादीक्षितो नानृतं वदेत् । सङ्ग्रामे न निवर्त्तेत तं देवाः क्षत्रियं विदुः ॥ दाता यज्वा च शूरश्च देवद्विजपरायणः । समः सर्वेषु भूतेषु चिरं पालयते महीम् ॥ तथा, पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः । भृत्या यमुपजीवन्ति स राजा शक्रलोकभाक् ॥ इति कात्यायनः, शौर्यविद्यार्थबाहुल्यात्प्रभुत्वाच्च विशेषतः सदा चित्तं नरेन्द्राणां मोहमायाति कारणात् ॥ तस्माच्चित्तं प्रबोद्धव्यं राजधर्मे सदा द्विजैः । पवित्रं परमं पुण्यं स्मृतिवाक्यं न लङ्घयेत् ॥ इति । द्विजैः, करणभूतैः, राज्ञा स्वचित्तं राजधर्मे प्रबोद्धव्यम् । गौतमः, ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयः- शीलसम्पन्नं न्यायवृत्तं तपस्विनं, तत्प्रसूतः कर्माणि कुर्वीत, ब्रह्मप्रसूतं हि क्षत्रमृद्ध्यते न व्यथत इति च विज्ञायते, यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्याद्रियेत, तदधीनमप्येके योगक्षेमं प्रतिजानते, शान्तिपुण्याहस्वस्त्ययनायुष्मङ्गलसंयुक्तान्याभ्युद- यिकानि विद्वेषणसंव्रननाभिचारद्विपद्वृद्धियुक्तानि च शालाग्नौ कुर्याद्यथोक्तमृत्विजोऽन्यानि । इति । पुरोदधीत, पुरोहितं कुर्यात् । सर्वेषु कर्मसु पुरो धीयत इति पुरोहितः । तत्प्रसूतः तदनुज्ञातः । तत्प्रसूत इत्यत्र त- च्छब्दानुकर्षणीयत्वेन ब्राह्मणं निर्दिशति — ब्रह्मप्रसूतमिति । ब्रह्म, ब्राह्मणस्तेन प्रसूतं तदनुज्ञातम्। ऋद्ध्यते समृद्धो भवति ।

... ऋद्ध्यभावः" Look at Gautama: "द्विषद्-ऋद्धि..." or "द्विषद्राद्धि..."! In Gautama Dharmasutra: "द्विषद्राद्ध्यनायुष्याणि" or "द्विषदृद्धि..."! Wait, Haradatta or Maskarin's commentary on Gautama Dharmasutra: "द्विषद्राद्धिः द्विषतां शत्रूणाम् ऋद्ध्यभावः" OR "द्विषदृद्धिः" OR "द्विषद्राद्दिः"? WAIT! LOOK AT THE WORD IN THE IMAGE: "द्विषदन्नाद्दिः" -> WAIT! Look at the characters again: Is it "द्विषद्राद्दिः,"??? LOOK AT IT: द् [d] वि [vi] ष [ṣa] द [da] रा [rā] -> WAIT! Is that 'रा'??? A vertical line with a top bar, but wait: is it 'रा' or 'न्ना'? Wait, look at 'रा' in 'राजा' (line 11): 'रा'! In line 10, between 'द' and 'द्दिः', what is there? There is: 'रा' or 'द्वा' or 'न्ना'? Wait, if it's "द्विषद्राद्दिः": Wait, Gautama Dharmasutra text: "द्विषद्राद्ध्यनायुष्याणि" (dvī

१३८ वीरमित्रोदयस्य राजनीतिप्रकाशे दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ इति । महाभारते, पुरोहितप्रधानो हि राजा हितमवाप्नुयात् । सदाऽऽचरति यो धर्मं नृपो ब्राह्मणदेशितम् ॥ तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति । तस्य धर्मस्य सिद्धस्य भागी राज्ञः पुरोहितः ॥ इति । ब्रह्मपुराणे, द्वौ लक्षहोमौ कुर्वीत तथा संवत्सरं प्रति । एकं च कोटिहोमं च यत्नात्सर्वाभयप्रदम् ॥ अथर्ववेदविहितं समन्त्री सपुरोहितः । नित्यान्याहार्यकाम्यानि तथा नैमित्तिकानि च ॥ ग्रहणे सूर्यशशिनोर्भूकम्पोत्पातदर्शने । तत्क्षणे च महाशान्तिः कर्त्तव्याऽनिष्टनाशिनी ॥ इति । याज्ञवल्क्यः, श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृर्त्विजस्तथा । यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥ भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि । अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥ इति । राजेत्यनुवृत्तौ- शङ्खलिखितौ, दद्याद्दानमर्चयित्वा ब्राह्मणाय, निमित्तपूर्वं शेषेभ्यः, कृपणातुरानाथव्यङ्गविधवावालवृद्धानौषधावसथाशनाच्छादनै- र्बिभृयात् । इति । शेषेभ्यः क्षत्रियादिभ्यः । निमित्तपूर्वं सेवाद्युपाधिना । राजधर्मेषु-

विहिता राजधर्माः । १३९

आपस्तम्बः, भृत्यानामनुरोधेन क्षेत्रं वित्तं च द- दद्ब्राह्मणेभ्यो यथार्हमनन्तान् लोकान् जयति । इति । भृत्यानां, राजरक्षणोपयुक्तानाममात्यानुजीविप्रभृतीनाम् । अनुरोधेन तद्दृश्यपीडनेन । यथार्हं, वृत्तशीलविद्याकुटुम्बादिकं विचार्य । कात्यायनः, वेदध्वनिप्रभावेन देवाः स्वर्गनिवासिनः । तेऽपि तत्र प्रमोदन्ते तृप्तास्तु द्विजपूजनात् ॥ तस्माद्यत्नेन कर्तव्या द्विजपूजा सदा नृपैः । तेन भूयोऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः ॥ इति । सत्कर्मणा शक्रत्वं प्राप्य पुण्यक्षये पुनर्नरेन्द्रत्वं, प्राप्नुया- दितिशेषः । अत एवोक्तम् — अनेनैव, सुराध्यक्षश्च्युतः स्वर्गान्नृपरूपेण तिष्ठति । कर्त्तव्यं तेन तन्नित्यं येन तत्त्वं समाप्नुयात् ॥ इति । तत्त्वं सुरेशत्वम् । यस्य राज्ञो राज्यं स्वयं प्राप्तं तत्प्रेतकृ- त्यं राजा कुर्यात्तन्मातापित्रादींश्चावश्यं बिभृयात् । तदाह- वासिष्ठः, राजनि च दद्यात्प्रेते प्रासङ्गिकम् । अनेन माता- पितृवृत्तिर्व्याख्याता, राजमहिषीपितृवृत्तिर्व्याख्याता । राजम- हिषीपितृव्यमातुलान् राजा बिभृयात्, तद्वधूश्च । अन्याश्च राज- पत्न्यो ग्रासाच्छादनं लभेरन् । अनिच्छन्त्यो वा व्रजेयुः । क्लीबोन्मत्तान् राजा बिभृयात्तद्गामित्वादृक्थस्य । इति । अस्यार्थः । राजनि प्रेते मृते यः पुत्रातिरिक्तोऽपि राजा भवति, स प्रासाङ्गिकं, मरणप्रसङ्गेनावश्यकं तच्छ्राद्धादि, कुर्यादि- त्यर्थः । यस्तु पितृमरणोत्तरं राजा भवति तं प्रति श्राद्धादिविधा-

१४० वीरमित्रोदयस्य राजनीतिप्रकाशे नस्याप्यवयवप्रसङ्गात, सामान्यत एव प्राप्तेः । अनेन, तच्छ्राद्धादि- विधानेन । मातापितृवृत्तिः, मृतराज्ञो मातापित्रोर्भरणादिरूपा । व्याख्याता, अवश्यं कर्त्तव्येत्यर्थः । अन्याश्च राजपत्न्यः, तद- वरोधवासिन्योऽविवाहिता अपि, एता ग्रासाच्छादनं लभेरन्निति, अनेन पूर्वोक्तं नां भरणविधानं पूर्वराजकृततद्वृत्यनुच्छेदपर- म् । तत्रापि मातापित्रोर्यावती पूर्वराजकृता वृत्तिः सा सर्व्वापि दातव्या, राजमहिषीपितृव्यमातुलानां तु भरणं मानपुर- सरम् । अवश्यं तद्धरणीयजनपोषणं यथा भवति तथा विधे- यम् । तदवरोधवासिनीनामन्यासां विवाहितानामविवाहितानां च ग्रासाच्छादनमात्रं दद्यात्, पृथक्पृथङ्निर्देशात् । अत एव सर्वशेषे "तद्गामित्वादृक्थस्य" इति हेतूपन्यासः । रिक्थस्य तत्तदायस्य । तद्गामित्वात् नूतनराजगामित्वात् । क्लीवोन्मत्तान् । पूर्वराजान्तःपुरादावधिकृतान् क्लीवान्, उन्मादोऽसावधानता सा च रोगवयःप्रभृतिदोषकृता तद्युक्ततया पूर्वराजेनावश्यभृतान् । आपस्तम्बः, आवसथे सवेशंश्रोत्रियानतिथीन् वासये- त्तेषां यथागुणमावसथाः शय्याऽन्नपानं च देयं गुरुनमात्यांश्च नातिजीवेत् । इति । देयं, राज्ञेतिशेषः । नातिजीवेत्, अतिक्रम्य न जीवेत् । गुरूणाममात्यानां च जीविकां कृत्वैव स्वजीविकां कुर्य्यादित्यर्थः। मनुः, श्रोत्रियं व्याधितार्त्तौ च बालवृद्धावकिञ्चनौ । महाकुलीनमार्य्यं च राजा सम्पूजयेत्सदा ॥ इति । राजेत्यनुवृत्तौ गौतमः, विभृयाद्ब्राह्मणांश्छ्रोत्रियान्निरुत्साहांश्चाब्राह्मणानकरांश्च-

विहिता राजधर्माः । १४१ पकुर्वाणांश्च । इति । निरुत्साहान्, कर्त्तव्यार्थे स्थिरः प्रयत्न उत्साहस्तद्रहितान्, अलसानितियावत् । अब्राह्मणान्, ब्राह्मणातिरिक्तान् क्षत्रिया- दीन् । अथ वा अब्राह्मणान् श्रोत्रियत्वादिगुणरहितान् ब्राह्म- णान् । अकरान्, येभ्यः करो न गृह्यते, किन्तु मासि मास्येकै- कदिनं कर्म कार्यते तादृशान् शिल्प्यादीन् । अत एव- मनुः, यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा । तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥ श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् । संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥ संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् । तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ इति । अत्र हि मनुवाक्ये-“ब्राह्मणः सीदति क्षुधा” इति प्रथम- मुपक्रम्य, “श्रुतवृत्ते विदित्वास्य” इत्यनेन श्रोत्रियस्यैवाव- श्यभरणीयत्वमुपसंहृतम् । तदेकमूलकतया गौतमवाक्येऽपि श्रोत्रियस्यावश्यभरणीयत्वमुक्त्वा तदतिरिक्तस्य जातिमा- त्रब्राह्मणस्य भरणे निरुत्साहत्वं हेतुत्वेनोपन्यस्तं वेदितव्यम् । शङ्खलिखितौ, राजन्यवैश्यावप्यजीवन्तौ राजानमुपति- ष्ठेयातां तावुभौ शक्तितः संविभक्तावुपकुर्यातां स्वस्वधर्मानुष्ठा- नेन शिल्पिनः कारवश्च शूद्राः । इति । अजीवन्तौ, स्वस्ववृत्त्या जीविकामलभमानौ । एतद्वाक्ये- ऽपि- संविभक्तौ कृतजीविकौ, तावुभौ राजन्यवैश्यौ, राज्ञः शक्तितो यथासामर्थ्यमुपकुर्याताम्, अपिशब्दात् शिल्प्यादयः शूद्रा अपि जीविकामलभमाना राज्ञा कृतसंविभागाः, स्वस्वध-

१४२ वीरमित्रोदयस्य राजनीतिप्रकाशे र्मानुष्ठानेन राज उपकुर्युरित्युक्तम् । तथा चोपकुर्वतामेव क्षत्रि- यादीनां त्रयाणां वर्णानां राज्ञोऽवश्यभरणीयत्वं, न त्वनुपकुर्व- ताम् । पूर्वोदाहृतगौतमवाक्ये निरुत्साहांश्च ब्राह्मणानित्यनेना- नुपकुर्वतामपि जातिमात्रब्राह्मणानामवश्यभरणीयत्वे निरुत्साहत्वं हेतुरुपन्यस्तः । अन्यथा हि अनुपकुर्वतामपि स्वराष्ट्रवर्त्तिनां सर्वेषामवश्यभरणीयत्वेनैतेषामभरणे राज्ञो महान् दोषोऽश- क्यानुष्ठानता च स्यात् । हरदत्तस्तु पूर्वोदाहृतं गौतमवाक्यमेवं व्याख्यातवान् । बिभृयात् श्रोत्रियान् ब्राह्मणान्, श्रोत्रिया अधीतवेदाः तान्, ब्राह्मणानन्नादिदानेन बिभृयात् । निरुत्साहांश्चाब्रा- ह्मणान्, जीवनार्थं यत्नं कर्तुमसमर्थान् अब्राह्मणान् क्षत्रियादीनपि बिभृयात्, किं पुनर्ब्राह्मणान् । पूर्वसूत्रे तु अ- र्जने समर्थानपि श्रोत्रियान् स्वयमाहूय बिभृयादिति । अकरांश्च, येभ्यः पूर्वैः करो न गृहीतस्तान् अकरान्, बिभृयात्, तेभ्यः स्वयं करं नोत्पादयेत् । उपकुर्वाणांश्च, अधीयाना ब्रह्मचारिण उपकुर्वाणास्तांश्च बिभृयादन्नादिदानेन, यद्यर्थिनः, स्वयंजी- वनवतश्च करादिव्यावर्त्तनेन । उपकुर्वाणा, लोकोपकारिणो वैद्यादय इति केचित् । यमः, अभेद्यमच्छेद्यमनादिमक्षयं निधिं पुराणं पालयन्ति ये । महीपतिस्तानभिपूज्य वै द्विजान् भवेदजेयो दिवि देवराडिव ॥ पुराणं निधिं, वेदरूपम् । शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा । अपि वज्रसहस्रेण ब्राह्मणाशीः सुदुर्भिदा ॥ इति । तथा,

२. द्वितीय प्रकाश: प्रजा-पालन, कर-व्यवस्था (राजस्व), सीमा-रक्षा एवं दुर्ग-निर्माण

विहिता राजधर्माः। १४३ पूर्वरात्रान्तरात्रेषु द्विजा यस्य ह्यधीयते । स राजा सह राष्ट्रेण वर्द्धते ब्रह्मतेजसा ॥ राजा यत्कुरुते पापं प्रमादात्सह तेन च । वसन्तो ब्राह्मणा राष्ट्रे जप्येन शमयन्ति तत् ॥ ब्राह्मणान् पूजयेन्नित्यं प्रातरुत्थाय भूमिपः । ब्राह्मणानां प्रसादेन वसन्ति दिवि देवताः ॥ यदरुच्या हरन्त्येते शुभं वा यदि वाऽशुभम् । तत्तथा नान्यथा कुर्याद्ब्राह्मणा ह्यत्र कारणम् ॥ इति । मनुः, नाब्रह्म क्षत्रमृध्नोति१ नाक्षत्रं ब्रह्म वर्द्धते । ब्रह्म क्षत्रेण संयुक्तमिह चामुत्र वर्द्धते ॥ इति । यमः, राजा वृक्षो ब्राह्मणास्तस्य मूलं पौराः पर्णं मन्त्रिणस्तस्य शाखाः। तस्माद्राज्ञा ब्राह्मणा रक्षणीया मूले गुप्ते नास्ति वृक्षस्य नाशः ॥ आसन्नं हि दहत्यग्निर्दूराद्दहति ब्राह्मणः । प्ररोहत्यग्निना दग्धं ब्रह्मदग्धं न रोहति ॥ ब्राह्मणानां च शापेन सर्वभक्षो हुताशनः । समुद्रश्चाप्यपेयश्च विफलस्तु पुरन्दरः ॥ विफलः वृषणरहितः । चन्द्रमा राजयक्ष्मी च पृथिव्यामूषराणि च । वनस्पतीनां निर्यासो दानवानां पराजयः ॥ अनन्तान्येव तेजांसि ब्राह्मणानां महात्मनाम् । तस्माद्विप्रेषु नृपतिः प्रणमेन्नियमेन च ॥ इति । महाभारते, १ वर्धते इत्यर्थः ।

१४४ वीरमित्रोदयस्य राजनीतिप्रकाशे अष्टौ पूर्वनिमित्तानि नरस्य विरमिष्यतः । ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणांश्च विरुद्ध्यते ॥ ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति । रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयति । एतान् दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥ तथा तत्रैव भीष्मवाक्यम्— एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत । ब्राह्मणानामनुज्ञातमत्यन्तं सुखमिच्छता ॥ कर्तव्यं पार्थिवेनेह तद्विद्धि भरतर्षभ । श्रोत्रियान् स्नातकान् वृद्धान्नित्यमेवाभिपूजयेत् । पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् । सान्त्वेन भोगदानेन नमस्कारैस्तथैज्यया ॥ एतत्कृत्यतमं राज्ञां नित्यमेवाभिलक्षयेत् । यथात्मानं यथा पुत्रांस्तथैतान् परिपालयेत् ॥ ये चाप्येषां पूज्यतमास्तान्नृपः प्रतिपूजयेत् । तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥ इति । राज्ञां खड्गादिषु देवीपूजनमावश्यकं सर्वदा कर्तव्य- त्वेनोक्तम्— देवीपुराणे, नामभेदेन सा भिन्ना अभिन्ना परमार्थतः । शिवा नारायणी गौरी चर्चिका विमला उमा ॥ सा वन्द्या पूजनीया च सततं तत्तद्भावितैः । विजयार्थं नृपैः खड्गे छुरिकापादुके पटे ॥ चामुण्डां चित्ररूपां च लिखितां चाथ पुस्तके ।

विहिता राजधर्माः । १४५

ध्वजे वा कारयच्छत्रे स नृपो विजयेद्रिपून् । इति । कार्त्तिकेयपूजापि सर्वदा कर्त्तव्यत्वेन, विशेषतश्च रणे प्र- स्थितस्य राज्ञ आवश्यकत्वेनोक्ता भविष्यपुराणे— राज्ञां पूज्यः सदा प्रोक्तः कार्त्तिकेयो महीपते । कार्त्तिकेयादृते राज्ञां नान्यं पूज्यं प्रचक्षते ॥ सङ्ग्रामे गच्छमानो यः पूजयेत्कृत्तिकासुतम् । स शत्रूञ्जयते वीरो यथेन्द्रो दानवान् रणे ॥ तस्मात्सर्वप्रयत्नेन पूजयेच्छङ्करात्मजम् । पूजयानस्तु तं भक्त्या चम्पकैर्विविधैर्नृप ॥ मुच्यते सर्वपापेभ्यः सद्यो गच्छेच्छिवालयम् । नान्यं पूज्यमित्यनेन कार्त्तिकेयपूजाविधानस्यावश्यकत्वम्, न त्वन्यदेवतापूजानिषेधः । उदाहृतदेवीपुराणवचनेन देवीपू- जायाः, कूर्मपुराणादौ शिवविष्ण्वादिदेवतापूजाया अपि राज- कर्तृकत्वेन विशिष्ट्याभिधानात् । राजेत्यनुवृत्तौ अन्यदपि कर्त्तव्यत्वेनोक्तं ब्रह्मपुराणे— नित्यं सन्निहितान् देवान्मुनीन् नागांश्च पूजयेत् । पिशाचेभ्यो बलिं दद्यात्सन्ध्याकाले च नित्यशः ॥ इति । उक्तवृत्तस्य राज्ञः फलमाह मनुः— एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तार्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ इति । कात्यायनोऽपि— आत्मीये संस्थिता धर्मे नृपाः शक्रत्वमाप्नुयुः । अवीचिवासिनो ये तु व्यपेताचारिणः सदा ॥ ये तु व्यपेताचारिणः त्यक्तवर्णाश्रमधर्मास्ते सदा बहु- कालपर्यन्तमवीचिनामकनरकवासिनः । १९