वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 133, कुल 490 में से
संदर्भ में पढ़ेंविहिता राजधर्माः १३५ अन्तर्दोषं समुत्पन्नमाकारेणोपलक्षयेत् । शङ्केषु शङ्कितो नित्यं रक्षेच्छक्त्या सदोत्थितः ॥ पापानां निग्रहं कुर्यात्साधूनां परिपालनम् । यथाक्रमं च वृद्धानां काले काले निषेवणम् ॥ इति । शङ्केषु, पूर्वकृतापकारादिना शङ्कास्पदेषु । नारदः, सतामनुग्रहो नित्यमसतां निग्रहस्तथा । एष धर्मः स्मृतो राज्ञामर्थश्चापि भवेत्ततः ॥ तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् । दर्शनं व्यवहाराणामात्मनश्चापि रक्षणम् ॥ इति । राज्ञः कर्त्तव्यमित्यनुवृत्तौ- शङ्खलिखितौ, स्वपक्षे परपक्षे च स्थानवृद्धिक्षयाश्रयः । स्थानादीनां विभागश्च काले द्रव्यार्थसङ्ग्रहः ॥ इति । स्वपक्षे स्थानवृद्धिः, परपक्षे स्थानक्षयः, तयोराश्रयणम् । स्थानादीनाम्, अवस्थानस्थलानां दुर्गकोशादीनां च । विभागः, उचिताधिकारिभ्यस्तसमर्पणम् । काले यथोचितकाले । द्रव्यस्य, वस्त्रधान्यादेः, अर्थस्य, सुवर्णरजतादेः सङ्ग्रहः । राजधर्मानुवृत्तौ- मार्कण्डेयपुराणे, अहो तितिक्षामाहात्म्यमहो दानफलं महत् । पद्भ्यां गतो हरिश्चन्द्रः पुरश्चेन्द्रत्वमागतः ॥ इति । अत्र तितिक्षादानयोः सर्वसाधारणधर्मत्वेऽपि राज्ञोऽवश्य- कर्त्तव्यत्वेन तितिक्षायाश्चातिदुष्करत्वेन राजधर्मेषु विशिष्यो- पादानम् ।